पराग
parāgaपुं · masc.In 17 kośas: 15 synonym verses, 10 as a nānārtha head word, 11 as a meaning of another word.
कुड्मले मुकुलं गुञ्छे गुच्छस्तबकगुत्सकाः ।गुलुञ्छोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥ ११२६ ॥मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् ।
अनुष्टुप्
genderपुंmasc.
मकरन्दः पुष्परसः परागः सुमनोरजः ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पौष्पं रजः परागः स्यान्मकरन्दो मधुः स्मृतः ।स्तवको गुच्छको गुच्छो गुलुञ्छः परिकीर्तितः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
परागः कर्दमे तु स्यात्कीर्तिस्यूदश्च सूदकः ।पारिवत्परिवत्पङ्कं शादावलिकशाड्वला ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
मकरन्दः पुष्परसो मरन्दो मधु न द्वयोः ।परागः पुष्पपर्यायरजःपर्याय इत्यपि ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderपुंmasc.
पुष्पं प्रसूनं सूनं च सुमं कुसुममस्त्रियाम् ।मणीचकं चाथ पुंसि परागः पुष्पजं रजः । [21b] ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
पूगः परागोऽपि समस्तरङ्गोवर्गोऽर्घ ओघः कथितोऽत्र मञ्चः ॥ १२ ॥
इन्द्रवज्रा
genderपुंmasc.
परागं मधु किञ्जल्कं मकरन्दं च कौसुमम् ।उपचाराद्रजःपांशुरेणुधूलीश्च योजयेत् ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
मुकुलं कुड्मलं ज्ञेयं गुलुञ्छो गुच्छगुत्सकौ ।स्तबकोऽथ रजः पौष्पं परागोऽप्यथ तद्रसः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
पराग उत्तरासङ्गन्युङ्खपूगसृगा नरे ।मस्तुलुङ्गकुडङ्गौ च मङ्गकालिङ्गमञ्चकाः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
मधुर्मरन्दः पुष्परजः परागो मकरन्दकः ।अश्वत्थः कुञ्जरसुधा पिप्पलश्चलपत्रकः ॥ १५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
मकरन्दः पुष्परसः परागं पुष्पजं रजः ।पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderक्लीneut.
genderपुंmasc.
पुष्परसो मरन्दः स्यान्मकरन्दो मरन्दकः ।पुष्परेणुः परागश्च सुमनो रज इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderपुंmasc.
ह्यस्तनदिनेऽपि कल्यं नेत्रं मूले रजस्यपि परागः ।भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥
आर्या
meaningsरजस्
आशुग इषौ च बाणे[वायावर्के] प्रसूनरेणौ च ।स्नानीये च परागोगिरिभेदे चन्दने ग्रहणे ॥ १३ ॥
metre not recognised
नागरङ्गोपि पत्राङ्गं पद्मके रक्तचन्दने ।भूर्जे परागः सुमनोरेणुः पर्पटचन्दने ॥ ९१ ॥
अनुष्टुप्
परागः पुष्परेणौ तु धूलिसानीयचूर्णयोः ।चन्दने गिरिभेदे च स्वच्छन्दगमनेऽपि च ॥
अनुष्टुप्
परागः पुष्परेणौ च स्नानीयादौ रजस्यपि ।पर्जन्यो गर्जदभ्रेऽभ्रध्वाने शक्रेऽस्त्रयन्त्रके ॥ ४२ ॥
अनुष्टुप्
पराग as a meaning in nānārtha verses
- धरणिकोश पुरुकृच्छ्रं दुःखं प्रायश्चित्तं सरः स्थाणुः सरो गतिः । ऐन्द्रिः काके जयन्ते च पुरुर्भूरिपरागयोः ॥ Dharaṇikośa 26.1.10
- कोषकल्पतरु पारपात्र्यां परागे गजपादरज्ज्वां स्यात्कर्करीपूरगतं तथैव । वारस्तु सूर्यादिदिने समूहे द्वारे तथैवावसरे च न स्त्री ॥ ९ ॥ Koṣakalpataru 6.27.9
- कोषकल्पतरु पुरुकारुस्तथा शिल्पिनि कारके च स्याद्विश्वकर्मण्ययमादिलिङ्गः । पुरुः पुमान्स्वर्नृपभित्परागे प्राज्ये पुरोगे च विशेष्यवत्स्यात् ॥ ६६ ॥ Koṣakalpataru 6.27.66
- कोषकल्पतरु रजस्रजो गुणे रेणुपरागयोश्च स्यादार्तवेऽन्त्येऽथ पुमानदन्तः । क्षीरे च नीरे च पयो वयस्तु खगे च बाल्यादिषु यौवने च ॥ २ ॥ Koṣakalpataru 6.31.2
- नानार्थार्णवसंक्षेप पुष्परजस्कुङ्कुमे च परागेऽथ सरले देवदारुणि । पूतिकाष्ठमथो शुण्ठ्यां लशुनेऽपि महौषधम् ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 6.38
- परमानन्दीयनाममाला पारीगुग्गुलेऽपि पुरः प्रोक्तः पुरुः स्वाद्रागपूरयोः । स्वर्लोके प्रचुरे चाथ पारी पूरपरागयोः ॥ २९२ ॥ Paramānandīyanāmamālā 5.19.292
- शिवकोष रजस्रजः परागे रेणौ च लाजः स्यादार्द्रतण्डुले । नपुंसकमुशीरेऽथ स्त्रियां पुं भूम्नि चक्षते ॥ १०७ ॥ Śivakoṣa 7.1.107
- शिवकोष रजस्पयः क्षीरे च नीरे च रजो रेणुपरागयोः । वायसो वृकधूपे च पुंसि स्यादगुरुद्रुमे ॥ ५२८ ॥ Śivakoṣa 27.2.528
- शब्दरत्नावली रजस्रजः परागे रेणौ च गुणभेदे तथार्त्तवे । रज्जुः स्त्रियां गुणे वैण्यां स्त्रीराजिः पंक्तिलेखयोः ॥ Śabdaratnāvalī 7.8.14
- शब्दरत्नावली पुरुपुरुः पुमान् देवलोकपरागनृपभित्सु च । प्रचुरे वाच्यलिङ्गं स्यान्नदीभेदेऽपि च स्त्रियाम् । रसभेदे पुमानेव स्याद्भटातुरयोस्त्रिषु ॥ Śabdaratnāvalī 7.27.24
- शब्दरत्नावली रजस्रहस्तत्त्वे च गुह्ये च सुरते च नपुंसकम् । रजः क्लीबं गुणभित्सपरागार्त्तवरेणुषु ॥ Śabdaratnāvalī 7.32.29