कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गव्यूत

gavyūtaक्ली · neut.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.737 · p. 35
चतुर्विंशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः ।तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ ॥गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.103 · p. 20
गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि ।कल्पद्रौ केशवकृते भूमिस्कन्धे गुणाद्भुते ।पूःप्रकाण्डो द्वितीयोऽयं साङ्गः प्रत्यक्षतां गतः ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.64 · p. 118
गव्यूतं गोकृतं गव्या गव्यूतिर्मिथुने तथा ।योजनं मार्गधेनुः स्त्री भवेत्क्रोशचतुष्टयम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.414 · p. 153
अङ्गुलानां चतुर्विंशत्या हस्तोऽथ चतुष्करः ।दण्डस्तत्सहस्रौ तु गव्यूतं क्रोश उच्यते ॥ ४१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 द (syllables merged)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1491 · p. 237
दण्डानान्तु द्विसहस्रं क्रोशो गव्यूतमुच्यताम् ।गव्यूतं गोरुतं गव्या गव्यूतिश्च द्विक्रोशकः ॥ १४९१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable); pāda 4, syllable 5 द्वि (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.329 · p. 215
गव्यागव्यूते, गोमति, गवीश्वर-गवेश्वरौ ।गोम्याभीरे तु गोपाल-गोपौ स्यातां कुटुम्बिनि ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 गो (wrong syllable)
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 83 · p. 535
धन्वन्तरसहस्रं तु क्रोशः क्रोशद्वयं पुनः ।गव्यूतं स्त्री तु गव्यूतिर्गोरुतं गोमतं च तत् ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.62 · p. 40
धन्वंतरसहस्रं तु क्रोशो गव्या तु तद्द्वयम् ।स्त्री गव्यूतिश्च गव्यूतं गोरुतं गोमतं च तत् ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.