All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
चतुर्थः परिच्छेदः (4/4)
स मन्त्रस्त्वषडक्षीणो यत्तृतीयाद्यगोचरः ।एकान्तालोचनं मन्त्रो रहस्यं गुह्यमुच्यते ॥ ३६१ ॥
4.361 · p. 146
अनुष्टुप्
छन्नं रहो विविक्तं चैकान्तं विजनं च तत् ।न्याय्यं समञ्जसं देश[80]रूपाभ्रेषौ नयः पुनः ॥ ३६२ ॥
4.362 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
साम्प्रतं तूचितं युक्तं योग्ये द्वे वाच्यलिङ्गगे ।मर्यादा स्थितिसंस्थे तु धारणापि निगद्यते ॥ ३६३ ॥
4.363 · p. 147
अनुष्टुप्
अपराधो व्यलीकं च मन्तुः स्याद्विप्रियागसी ।भागधेयो बलिश्चैव करे सेना पताकिनी ॥ ३६४ ॥
4.364 · p. 147
अनुष्टुप्
ध्वजिनी वाहिनी तन्त्रं चमूर्दण्डो वरूथिनी ।अनीकं चक्रसैन्ये च कटकं पृतना पुनः ॥ ३६५ ॥
4.365 · p. 147
अनुष्टुप्
तत्स्थितिः स्कन्धवारः स्याद्रचना शिबिरे मता ।अक्षौहिण्यादयो भेदा ज्ञेया ग्रन्थान्तरात्स्वयम् ॥ ३६६ ॥
4.366 · p. 147
अनुष्टुप्
पताका वैजयन्ती च केतनं ध्वज उच्यते ।पत्ती रथो गजो वाजी सेनाङ्गं तु चतुर्विधम् ॥ ३६७ ॥
4.367 · p. 147
अनुष्टुप्
युद्धार्थं चक्रवद्यानं विशेषोऽयं विभाव्यताम् ।स्यन्दनस्तु शताङ्गः स्यात्कर्णीरथरथावपि ॥ ३६८ ॥
4.368 · p. 147
अनुष्टुप्
डयनं रथगर्भः स्यात्कूवरी रथनाम च ।शकटोऽनोऽथ गन्त्री स्यात्तथा कम्बलिवाह्यकम् ॥ ३६९ ॥
4.369 · p. 147
अनुष्टुप्
पाण्डुकम्बलसंवीते पाण्डुकम्बलिसंज्ञकः ।रथाङ्गं रथपादोऽरि चक्रं धारास्य तु प्रधिः ॥ ३७० ॥
4.370 · p. 147
अनुष्टुप्
नेमिरक्षाग्रकीले स्यात्कूबरं तु युगंधरम् ।शम्या स्याद्युगकीले तु सारथिः प्राजिताथ वा ॥ ३७१ ॥
4.371 · p. 148
अनुष्टुप्
अश्वारोहोऽश्ववारोऽपि तुरगी सादिनि स्मृतः ।हस्त्यारोहे महामात्रो निषादी सादिना सह ॥ ३७२ ॥
4.372 · p. 148
अनुष्टुप्
आघोरणो गजाजीवो यन्तृहस्तिपकावपि ।योधा भटाश्च योद्धारः सैनिकाः सैन्यरक्षकाः ॥ ३७३ ॥
4.373 · p. 148
अनुष्टुप्
योद्धारस्तु सहस्रेण साहस्राश्च सहस्रिणः ।छायाकरश्छत्रधारी पताकी ध्वजधारकः ॥ ३७४ ॥
4.374 · p. 148
अनुष्टुप्
सन्नाहो जगरो दंशः कङ्कटश्च [81] निचोलकः ।कञ्चुकः कवचो वर्म वारबाण उरश्छदः ॥ ३७५ ॥
4.375 · p. 148
अनुष्टुप्
अधिकाङ्गं तथा सारसनं हृदयकञ्चुकः ।शिरस्कं शीर्षकं तुल्यं शीर्षण्यं मस्तकावनम् ॥ ३७६ ॥
4.376 · p. 148
अनुष्टुप्
नागोदजठरत्राणे मत्कुणं जङ्घयोर्विदुः ।बाहुलं च भुजत्राणं जालप्राया तु जालिका ॥ ३७७ ॥
4.377 · p. 148
अनुष्टुप्
शस्त्रजीव्यायुधीयोऽपि काण्डपृष्ठोऽपि कथ्यते ।कौन्तिकः प्रासिकश्चापि --------------------- ॥ ३७८ ॥
4.378 · p. 148
अनुष्टुप्metre not read in every line
परश्वधायुधः पारश्वधः स्यात्पर्शुधारकः ।तथा याष्टीकशाक्तीकनैस्त्रिंशिकमुखा नराः ॥ ३७९ ॥
4.379 · p. 149
अनुष्टुप्
धनुर्धरस्तु धानुष्कतूणिनावथ काण्डवान् ।काण्डीरः कृतहस्तस्तु सुप्रयुक्तशरो हि यः ॥ ३८० ॥
4.380 · p. 149
अनुष्टुप्
लघुहस्तः शीघ्रवेधी शास्त्रं हेतिस्ततायुधम् ।अस्त्रं प्रहरणं तुल्यमथ भेदान्ब्रुवे गुरुन् ॥ ३८१ ॥
4.381 · p. 149
अनुष्टुप्
कोदण्डं कार्मुकं चाप इष्वासोऽस्त्रं धनुस्तथा ।जीवा मौर्वी गुणो गव्या ज्या शिञ्जा शिञ्जिनी द्रुणा ॥ ३८२ ॥
4.382 · p. 149
अनुष्टुप्
लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ ।काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥
4.383 · p. 149
अनुष्टुप्
कलम्बमार्गणौ रोपः कङ्कपत्रशिलीमुखौ ।अजिह्मगश्चित्रपुङ्ख एषणः सर्वलौहकः ॥ ३८४ ॥
4.384 · p. 149
अनुष्टुप्
प्रक्ष्वेडनश्च नाराचो विषाक्ते विषलिप्तकः ।पत्रणा पक्षवाजौ तु पुङ्खन्यासावुभौ समौ ॥ ३८५ ॥
4.385 · p. 149
अनुष्टुप्
कलापे तु निषङ्गः स्यात्तूणीरशरधी समौ ।शराश्रय उपासङ्गतूणौ खड्गे कृपाणकः ॥ ३८६ ॥
4.386 · p. 149
अनुष्टुप्
निस्त्रिंशमण्डलाग्रौ चासिः कौक्षेयकसंज्ञकः ।करवालश्चन्द्रहास ऋष्टिरिष्टी त्सरुः पुनः ॥ ३८७ ॥
4.387 · p. 150
अनुष्टुप्
प्रत्याकारपरीवारौ कोशः स्यादसिसंवृतौ ।खोटकः फलकं चर्माड्डनं चावरणं तथा ॥ ३८८ ॥
4.388 · p. 150
अनुष्टुप्
संग्राहस्त्वस्य मुष्टिः स्याद्भिन्दिपा[82]लः सृगोऽपि सः ।प्रासकुन्तावथो दण्डो यष्टिः स्याल्लगुडोऽपि च ॥ ३८९ ॥
4.389 · p. 150
अनुष्टुप्
कृपाणिका छुरी शस्त्र्यसिपुत्री च क्षुरी समा ।मुद्गरे तु घनः प्रोक्तो द्रुघणः परशुर्यथा ॥ ३९० ॥
4.390 · p. 150
अनुष्टुप्
परश्वधः कुठारोऽपि पर्शुः स्वधितिपर्श्वधौ ।शूले त्रिशीर्षकं प्रोक्तं तोमरे सर्वला मता ॥ ३९१ ॥
4.391 · p. 150
अनुष्टुप्
खुरली तु श्रमः प्रोक्तस्तद्भूमिः स्यात्खलूरिका ।जित्वरो जेतृजिष्णू तु सांयुगीनो रणे क्षमः ॥ ३९२ ॥
4.392 · p. 150
अनुष्टुप्
बलं द्युम्नं तरः स्थाम शौर्यं शुष्मं पराक्रमः ।ओजः प्राणः सहः शक्तिरूर्जः शुष्म च कथ्यते ॥ ३९३ ॥
4.393 · p. 150
अनुष्टुप्
संग्रामसमरे युद्धं द्वन्द्वसङ्ख्ये कलिः समित् ।अजन्यायोधने संयद्रणो विग्रह इत्यपि ॥ ३९४ ॥
4.394 · p. 151
अनुष्टुप्
आहवः संप्रहारोऽपि संस्फोटकलहौ समौ ।अनीकं प्रधानाजी वाक्रन्दः संयुगमित्यपि ॥ ३९५ ॥
4.395 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
संगरः समिति राटिः समुदायो विदारणम् ।अभ्यामर्दः समीकं च सम्परायो मृधं च युत् ॥ ३९६ ॥
4.396 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अग्रयाने तु नासीरं जयो विजय इत्यपि ।पराजयस्तु भङ्गः स्याड्डमरे डिम्बविप्लवौ ॥ ३९७ ॥
4.397 · p. 151
अनुष्टुप्
वैरप्रतिक्रिया वैरनिर्यातनमपि स्मृतम् ।प्रसभं हठबलात्कारौ छलं स्यात्स्खलितं च तत् ॥ ३९८ ॥
4.398 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जितः पराजितो भग्नः पराभूतोऽपि कथ्यते ।नष्टः पलायितोऽप्यात्तदिक्तिरोहित इत्यपि ॥ ३९९ ॥
4.399 · p. 151
अनुष्टुप्
प्रस्कन्नपतितौ तुल्यौ जितकाशी जिताहवः ।कारा बन्दी तथा चारगुप्ती प्रग्रहनाम च ॥ ४०० ॥
4.400 · p. 151
अनुष्टुप्
वैश्यशूद्रद्विजक्षत्राश्चातुर्वर्ण्यं नृणां मतम् ।ब्रह्मचारी गृही तस्माद्वानप्रस्थोऽथ भिक्षुकः ॥ ४०१ ॥
4.401 · p. 151
अनुष्टुप्
आश्रमाः स्युश्चतुःसंख्या ब्रह्मचारी तु वर्णिनि ।गृहस्थो गृहमेधी तु गृही स्नातक इत्यपि ॥ ४०२ ॥
4.402 · p. 152
अनुष्टुप्
वानप्रस्थे तु वैखानसो यतिर्भिक्षुनामकः ।सांन्यासिको रक्तवस्त्रः कर्मन्दी तापसोऽपि सः ॥ ४०३ ॥
4.403 · p. 152
अनुष्टुप्
पारिका[83]ङ्क्षी परिव्राट् च पाराशरिणि मस्करी ।जितेन्द्रियः शान्तदान्तौ तपःक्लेशसहोऽपि सः ॥ ४०४ ॥
4.404 · p. 152
अनुष्टुप्
ब्राह्मणो वाडवो विप्रः सूत्रकण्ठस्त्रयीमुखः ।भूदेवो वर्णज्येष्ठश्च द्विजातिश्चाग्रजस्तथा ॥ ४०५ ॥
4.405 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ण (wrong syllable)
षट्कर्मा च द्विजन्मा स्याद्विजः स्यान्मुखसंभवः ।सावित्रो वेदगर्भश्चैतसमैत्रावपि स्मृतौ ॥ ४०६ ॥
4.406 · p. 152
अनुष्टुप्
बटुर्माणवकस्तुल्यौ पुल्लिङ्गौ हीनवाडवौ ? ।वहनं यानपात्रं च वोहित्थं स्याद्वहित्रकम् ॥ ४०७ ॥
4.407 · p. 152
अनुष्टुप्
पोतः पोतवणिक्पोतवाहः सांयात्रिकोऽपि सः ।नाविकः कर्णधारोऽपि निर्यामः स्यान्नियामकः ॥ ४०८ ॥
4.408 · p. 152
अनुष्टुप्
काष्ठाम्बुवाहिनी द्रोणी तरी बेडा तरिण्यपि ।क्षेपणी तु [त?]रीदण्डः कूपको गुणवृक्षकः ॥ ४०९ ॥
4.409 · p. 152
अनुष्टुप्
पोलिन्दास्त्वन्तरादण्डा मङ्गः स्यात्तरिणीशिरः ।सेचनं सेकपात्रे स्यादरित्रे केनिपातकः ॥ ४१० ॥
4.410 · p. 153
अनुष्टुप्
गुञ्जा स्यात्पञ्चभिर्माषैः कर्षः षोडशमाषकैः ।पलं कर्षचतुष्केन तुला पलशतं मतम् ॥ ४११ ॥
4.411 · p. 153
अनुष्टुप्
तुलानां विंशतिर्भार आचितः शाकटोऽपि च ।कुडवानां चतुष्केन प्रस्थः स्यात्पुंसलिङ्गकः ॥ ४१२ ॥
4.412 · p. 153
अनुष्टुप्
आढकस्तु चतुर्भिः स्यात्प्रस्थैरथ तथाढकैः ।चतुर्भिर्द्रोणनामाथ खारी षोडशभिश्च तैः ॥ ४१३ ॥
4.413 · p. 153
अनुष्टुप्
अङ्गुलानां चतुर्विंशत्या हस्तोऽथ चतुष्करः ।दण्डस्तत्सहस्रौ तु गव्यूतं क्रोश उच्यते ॥ ४१४ ॥
4.414 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 द (syllables merged)
क्रोशौ द्वौ गोरुतं गव्या गव्यूतिः स्त्री निशम्यते ।योजनं तु चतुष्क्रोशं गोमान्गोमी गवीश्वरे ॥ ४१५ ॥
4.415 · p. 153
अनुष्टुप्
आभीरो वल्लवो गोपो गोपालोऽपि निवेदितः ।कृषीवलो हली क्षेत्री कार्षकः कर्षकोऽपि च ॥ ४१६ ॥
4.416 · p. 153
अनुष्टुप्
सीरस्तु लाङ्गलं प्रोक्तं हलं गोदारणं समे ।दात्रं लवित्रमप्युक्तं खनित्रं त्ववदारणम् ॥ ४१७ ॥
4.417 · p. 153
अनुष्टुप्
आबन्धो योक्त्रयोत्रे च प्रतोदः प्राजने मतः ।तोदनं च प्रवयणं लोष्टभेदनकोटिशौ ॥ ४१८ ॥
4.418 · p. 153
अनुष्टुप्
वृषलोऽन्त्यवर्णशूद्रौ च कारुः प्रकृतिकारिणौ ।[85] शिल्पी शिल्पं कला ज्ञानं विपूर्वं लिखनादि तत् ॥ ४१९ ॥
4.419 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मालिकारामिकौ मालाकारः स्यात्पुष्पजीविनि ।तस्य स्त्री पुष्पलावी स्यात्पुष्पाणामवचायिनी ॥ ४२० ॥
4.420 · p. 154
अनुष्टुप्
कलादो मुष्टिकः स्वर्णकारो नाडिंधमोऽपि सः ।कर्मप्रसेविका मूषा तैजसावर्तनी च सा ॥ ४२१ ॥
4.421 · p. 154
अनुष्टुप्
चर्मप्रसेविका भस्त्रा विशिष्यैव विभाव्यताम् ।वेधिन्यास्फोटिनी तुल्ये शाणे तु निकषः कषः ॥ ४२२ ॥
4.422 · p. 154
अनुष्टुप्
स्यात्कङ्कमुखः संदंशे भ्रमः कुन्दं च यन्त्रकम् ।मणिकारे वैकटिकस्ताम्रकुट्टकशौल्विकौ ॥ ४२३ ॥
4.423 · p. 154
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 खः (wrong syllable); pāda 3, syllable 5 वै (wrong syllable)
सौचिकस्तुन्नवायः स्यात्कर्तरी कल्पनी समे ।सूची तु सेवनी प्रोक्ता तर्कुः कर्तनकारणम् ॥ ४२४ ॥
4.424 · p. 154
अनुष्टुप्
कुविन्दस्तन्तुवायः स्यास्त्रसरः सूत्रवेष्टने ।व्यूतिर्वाणिर्वानदण्डो वेमा सूत्राणि तन्तवः ॥ ४२५ ॥
4.425 · p. 154
अनुष्टुप्
निर्णेजकः स्याद्रजकः कुलालो दण्डभृत्पुनः ।कुम्भकारश्चक्रजीवी शस्त्रमार्जोऽसिधावकः ॥ ४२६ ॥
4.426 · p. 155
अनुष्टुप्
चर्मकृत्पादुकाकृच्चारा स्याच्चर्मप्रभेदिका ।पन्नद्धा पादुकोपानत्पादूः पादावनं स्मृतम् ॥ ४२७ ॥
4.427 · p. 155
अनुष्टुप्
धूसरस्तैलिकः प्रोक्तः खलः पिण्याक इत्यपि ।काष्टतड्वर्धकिस्त्वष्टा रथकृत्स्थपतिः पुमान् ॥ ४२८ ॥
4.428 · p. 155
अनुष्टुप्
वासी तु तक्षणी तुल्ये क्रकचं करपत्रकम् ।पाषाणदारणष्टङ्को व्योकारो लोहकारिणि ॥ ४२९ ॥
4.429 · p. 155
अनुष्टुप्
कान्दविकभक्ष्यकारौ रङ्गाजीवस्तु तौलिकः ।चित्रकृत्कूचिका तूलिका चित्रालेख्य इत्यपि ॥ ४३० ॥
4.430 · p. 155
अनुष्टुप्metre not read in every line
लेप्यकृत्पलगण्डोऽसौ पुस्तं लेप्यादिकं मतम् ।दिवाकीर्तिः क्षुरी मुण्डकश्च नापितचण्डिलौ ॥ ४३१ ॥
4.431 · p. 155
अनुष्टुप्
क्षुरमर्द्यन्तावसायी भद्राकरणमुण्डने ।कुसृतिः कुहकजाले त्विन्द्रजालं तथोच्यते ॥ ४३२ ॥
4.432 · p. 155
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 क (wrong syllable)
कौतूहलं च कु[84]तुकं कौतुकं तु कुतूहले ।पुलिन्दा वरुटा भिल्ला नाहलाः शबरा अपि ॥ ४३३ ॥
4.433 · p. 155
अनुष्टुप्
जनङ्गमदिवाकीर्तिनिषादश्वपचादयः ।इत्यादयो म्लेच्छभेदास्तत्तद्देशेषु सम्मताः ॥ ४३४ ॥
4.434 · p. 156
अनुष्टुप्
पापर्धिर्मृगयुर्व्याधो लुब्धको मृगघातकः ।कैवर्तो धीवरो दाशो बडिशं मीनबन्धने ॥ ४३५ ॥
4.435 · p. 156
अनुष्टुप्
शौण्डिकः कल्यपालः स्यात्सुराजीवी तु मण्डकः ।ध्वजः पानवाणिग्वारिवासश्चाप्यासुतीबलः ॥ ४३६ ॥
4.436 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
मद्यं कादम्बरी कश्यं मदिरा कापिशायनम् ।मदिष्ठा मधुकल्ये तु शुण्डा गन्धोत्तमापि च ॥ ४३७ ॥
4.437 · p. 156
अनुष्टुप्
हाला हलिप्रिया हारहूरं माध्वीकमित्यपि ।अब्धिजाः मदना सीधुः कापिशं वारुणी सुरा ॥ ४३८ ॥
4.438 · p. 156
अनुष्टुप्
आसवश्च तथा स्वादुरसेरा च परिप्लुता ।किण्वं तु नग्नहुर्मद्यबीजं स्यान्नग्नहूस्तथा ॥ ४३९ ॥
4.439 · p. 156
अनुष्टुप्
गल्वर्कचषकौ तुल्यौ शुण्डा पानमदास्पदम् ।सहपानं सपीतिस्त्वापानं पानस्य गोष्ठिका ॥ ४४० ॥
4.440 · p. 156
अनुष्टुप्
इत्थं शब्दास्त्रिधा रूढमिश्रयौगिकसंज्ञकाः ।सामस्त्येनाभिधातुं तान्न शक्तेर्वाक्पतिर्यतः ॥ ४४१ ॥
4.441 · p. 156
अनुष्टुप्
विश्वहेमामरानन्तनामपारायणेषु ये ।दृष्टास्तान् शिशुबोधाय परमानन्द उक्तवान् ॥ ४४२ ॥
4.442 · p. 157
अनुष्टुप्