कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

योजन

yojanaक्ली · neut.

In 10 kośas: 10 synonym verses, 6 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.737 · p. 35
चतुर्विंशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः ।तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ ॥गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् ।
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.64 · p. 118
गव्यूतं गोकृतं गव्या गव्यूतिर्मिथुने तथा ।योजनं मार्गधेनुः स्त्री भवेत्क्रोशचतुष्टयम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.64 · p. 15
दीर्घवृन्ते रामपूगो लतापूगे तु योजनः ।भूपूगे तु लघूकः स्यात्क्षुद्रो भोधः कटुः खिलः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.415 · p. 153
क्रोशौ द्वौ गोरुतं गव्या गव्यूतिः स्त्री निशम्यते ।योजनं तु चतुष्क्रोशं गोमान्गोमी गवीश्वरे ॥ ४१५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1492 · p. 237
योजनं तु चतुष्क्रोशं मार्गमापनकर्म्मणि ॥ १४९२ ॥
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.405 · p. 54
वितस्तियुग्मं किष्कुः स्यान्नल्वः किष्कुचतुःशतम् ।गव्यूतिः क्रोशयुग्मं स्याद्योजनं योजनापि च ॥ ४०५ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.17 · p. 32
देवीकोटो बाणपुरं कोटीवर्षमुषावनम् ।स्याच्छोणितपुरं चाथ योजनं मार्गधेनुकम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.24 · p. 33
क्रोशस्ताभ्यान्तु गव्यूतिस्तद्द्वयं योजनं मतम् ।चतुरष्टशतग्रामान्तर्द्रोणमुखकर्वटौ ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.63 · p. 40
गव्यूतानि तु चत्वारि योजना कोसलादिषु ।गव्यूतिद्वयमेव स्याद्योजनं मगधादिषु ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.218 · p. 63
पक्वं जोडं खरं शुष्कं चिक्कणे चक्कचक्कणे ।दीर्घवृन्ते रामपूगो लतापूगे तु योजनः ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.59 · p. 255
न्यासे लिपेर्वाद्यगतं च तद्व-त्स्याद्योजनं क्रोशचतुष्टयेऽपि ।योगे परात्मन्यथ गर्जनं स्या-त्कोपे च हस्त्यम्बुदवाद्यशब्दे ॥ ५९ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1476 · p. 176
शूर्पाग्रे योषितो वस्त्रभेदे युक्ते तु भेद्यवत् ।युग्मावयवयोश्चाथ योजनं परमात्मनि ॥ १४७६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1477 · p. 176
क्ल्यध्वमाने चतुष्क्रोशे मगधादिषु भूमिषु ।अष्टक्रोशं तु देशेषु कोसलादिषु मन्वते ॥ १४७७ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1478 · p. 176
तथा युक्तिक्रियायां च लतापूगे तु पुंस्यथ ।पित्रादेः कन्ययाप्तार्थे लेख्ये च नपि यौतकम् ॥ १४७८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.68 · p. 240
मार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् ।मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् ।यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि ।यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥यापनं स्यान्निरसने कालक्षेपे च वर्त्तने ।युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि ।रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.254 · p. 178
यापनं स्यान्निरसने कालक्षेपे च वर्तने ।चतुःक्रोश्यां च योगे च योजनं स्यात्तु वाहने ॥ २५४ ॥
अनुष्टुप्

योजन as a meaning in nānārtha verses