गव्या
gavyāस्त्री · fem.In 13 kośas: 25 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.
मौर्वी जीवा गुणो गव्या शिञ्जा बाणासनं द्रुणा ।शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥ ७७६ ॥
अनुष्टुप्
genderस्त्रीfem.
चतुर्विंशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः ।तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ ॥गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि ।कल्पद्रौ केशवकृते भूमिस्कन्धे गुणाद्भुते ।पूःप्रकाण्डो द्वितीयोऽयं साङ्गः प्रत्यक्षतां गतः ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
दीपकर्पूरजोपि स्यात्स च कर्पूरनामकः ।पीता तु गौतमी गव्या वन्दनीया च काञ्चनी ॥ ३९० ॥
अनुष्टुप्
genderस्त्रीfem.
अटनी धनुषो मध्ये लस्तको ना गुणालयः ।मौर्वी ज्या सिञ्जिनी जीवा न ना गव्या गुणो द्वयोः ॥ २६३ ॥
अनुष्टुप्
genderस्त्रीfem.
वृद्धोक्षश्चापि जातोक्षः संजातोक्षश्च नूतने ।गव्या गोत्रा च धेनूनां संहतौ धैनुकं पुनः ॥ ४४२ ॥
अनुष्टुप्
genderस्त्रीfem.
धूम्या पाश्या तथा गण्या गव्या साहस्रमित्यपि ।कारीषं वार्मणं चाथाथर्वर्णं चापि वार्द्धकम् ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
गव्यूतं गोकृतं गव्या गव्यूतिर्मिथुने तथा ।योजनं मार्गधेनुः स्त्री भवेत्क्रोशचतुष्टयम् ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
गलिः शक्तोऽप्यधूर्वोढा त्रिषु स्युः स्कान्धिकादयः ।औक्षकं तूक्षवृन्देऽन्त्येऽथोक्ष्णः स्यादिदमादिषु ।औक्षमौक्ष्णं त्वपत्येऽस्य गव्या गोत्रे गवां व्रजे ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
मौर्वी जीवा गुणो गव्या ज्याऽलिर्भृङ्गः शिलीमुखः ।भ्रमरः षट्पदो ज्ञेयो द्विरेफश्च मधुव्रतः ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
वातूलं वात्यया साकं गोत्रं गव्या गवां चयः ।खल्या च खलिनी पाश्या बन्धुता जनता मता ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोदण्डं कार्मुकं चाप इष्वासोऽस्त्रं धनुस्तथा ।जीवा मौर्वी गुणो गव्या ज्या शिञ्जा शिञ्जिनी द्रुणा ॥ ३८२ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रोशौ द्वौ गोरुतं गव्या गव्यूतिः स्त्री निशम्यते ।योजनं तु चतुष्क्रोशं गोमान्गोमी गवीश्वरे ॥ ४१५ ॥
अनुष्टुप्
genderस्त्रीfem.
गवीनं चाथ वृषभे तूक्षा गौः सौरभेयकः ।गव्या गोत्रा चौक्षकं च गोवृन्दे वात्सकं त्विह ॥ ४८७ ॥
अनुष्टुप्
genderस्त्रीfem.
गुणो गव्या द्रुणा मौर्वी जीवा शिञ्जा च शिञ्जिनी ।ज्या च बाणासनं चेति जीवारज्जुर्निगद्यते ॥ १२६८ ॥
अनुष्टुप्
genderस्त्रीfem.
दण्डानान्तु द्विसहस्रं क्रोशो गव्यूतमुच्यताम् ।गव्यूतं गोरुतं गव्या गव्यूतिश्च द्विक्रोशकः ॥ १४९१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable); pāda 4, syllable 5 द्वि (wrong syllable)
genderस्त्रीfem.
गवां तु समवाये स्याद् गव्या गोत्रा द्वयं पुनः ।पाश्या च पाशसङ्घाते खल्या खलनरव्रजे ॥ २५८१ ॥
अनुष्टुप्
genderस्त्रीfem.
उक्ष्नां बृन्दे चौक्षकं स्याद् गव्या गोत्रा गवां स्त्रियाम् ।वत्सबृन्दे वात्सकन्तु धेनुवृन्दे च धैनुकम् ॥
अनुष्टुप्
genderस्त्रीfem.
गव्यागव्यूते, गोमति, गवीश्वर-गवेश्वरौ ।गोम्याभीरे तु गोपाल-गोपौ स्यातां कुटुम्बिनि ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 गो (wrong syllable)
genderस्त्रीfem.
शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः ।अर्जुन्यघ्न्या रोहिणी सौरभेयीमाहेय्युस्रा शृङ्गिणी गौश्च माता ।गव्या गोत्रा गोगणे वत्सधेन्वो-र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥
अनुष्टुप्two metres in one verse
genderस्त्रीfem.
ग्रामता जनता गव्या धूम्या पाश्या सहायता ।माणव्यं बन्धुता च स्युर्ग्रामादीनां कदम्बके ॥ १७३९ ॥
अनुष्टुप्
genderस्त्रीfem.
धन्वंतरसहस्रं तु क्रोशो गव्या तु तद्द्वयम् ।स्त्री गव्यूतिश्च गव्यूतं गोरुतं गोमतं च तत् ॥ ६२ ॥
अनुष्टुप्
genderस्त्रीfem.
भैक्षसाहस्रकारीषवार्मणानि च तद्गणे ।रथकड्या तु रथ्या स्याद् गोत्रा गव्या च गोगणे ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
पुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि ।क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् ।कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि ।कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु ।कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् ।गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्य (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
meaningsगोसंहति
गव्या as a meaning in nānārtha verses
- शब्दरत्नावली गोत्रात्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10