क्रोश
krośaपुं · masc.In 10 kośas: 9 synonym verses, 3 as a nānārtha head word.
चतुर्विंशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः ।तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ ॥गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् ।
अनुष्टुप्
genderपुंmasc.
हस्तो हस्तैश्चतुर्भिः स्याद्धनुर्दण्डश्च तैः पुनः ।द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुतं पुनः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
दण्डोऽस्त्रियां चतुर्हस्तो धनुरत्र न योषिति ।हस्तषोडशकोन्माने दण्डे काण्डं न योषिति ।धनुषां तु सहस्रे द्वे क्रोशः क्रोशद्वयं पुनः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गुलानां चतुर्विंशत्या हस्तोऽथ चतुष्करः ।दण्डस्तत्सहस्रौ तु गव्यूतं क्रोश उच्यते ॥ ४१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 द (syllables merged)
genderपुंmasc.
दण्डानान्तु द्विसहस्रं क्रोशो गव्यूतमुच्यताम् ।गव्यूतं गोरुतं गव्या गव्यूतिश्च द्विक्रोशकः ॥ १४९१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable); pāda 4, syllable 5 द्वि (wrong syllable)
genderपुंmasc.
धन्वन्तरसहस्रं तु क्रोशः क्रोशद्वयं पुनः ।गव्यूतं स्त्री तु गव्यूतिर्गोरुतं गोमतं च तत् ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
क्रोशस्ताभ्यान्तु गव्यूतिस्तद्द्वयं योजनं मतम् ।चतुरष्टशतग्रामान्तर्द्रोणमुखकर्वटौ ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कूजनं कूजितं गर्जा न क्लीबे गर्जना न ना ।क्रोश उच्चस्वने प्राणिस्वने त्वाराव आरवः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
धन्वंतरसहस्रं तु क्रोशो गव्या तु तद्द्वयम् ।स्त्री गव्यूतिश्च गव्यूतं गोरुतं गोमतं च तत् ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
योजनस्य तु तुर्यांशे क्रोशो ना क्रोशनेऽथ नप् ।सामान्तरेषु क्रोष्टा तु द्वे सृगालेऽथ सा स्त्रियाम् ॥ २९५ ॥
अनुष्टुप्
हिंसाव्यापारवैकल्यपरतन्त्रत्वपर्वसु ।क्षणोऽथ क्रोश आक्रन्दे गव्यूतिद्वयगर्हयोः ॥ १८९३ ॥
अनुष्टुप्
आह्वाने रोदने क्लेशस्त्वविद्याद्युपतापयोः ।खगाद्रिभेदयोः क्रौञ्च ऋषिभेदेऽध्वरे क्रतुः ॥ १८९४ ॥
अनुष्टुप्
doubtful