कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जडुल

jaḍulaपुं · masc.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.618 · p. 27
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ॥ ६१८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.49
जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.275 · p. 135
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.114 · p. 39
नीलबिन्दुस्त्वक्प्रदेशे तिलकस्तिलकालकः ।कालको जडुलः पिप्लुः कालः कालकरण्डकः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.997 · p. 153
तिलकश्चापि पिप्लुश्च जडुलोऽपि तथैव हि ।कालकश्चेति नामानि भवन्ति तिलकस्य वै ॥ ९९७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.187 · p. 203
तिलके कालकस्तद्वत् तिलकालक इत्यपि ।जडुलो जटुलो, मांसे पलं पललमामिषम् ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.