कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मज्जन्

majjanपुं · masc.

In 19 kośas: 30 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.619 · p. 27
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ६१९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.628 · p. 27
मज्जा तु कौशिकः शुक्रकरोऽस्थ्नः स्नेहसंभवौ ॥ ६२८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1121 · p. 44
सारो मज्ज्ञि त्वचि च्छल्ली चोचं वल्कं च वल्कलम् ॥ ११२१ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.12
सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.183 · p. 23
त्वग्वल्कं वल्कलं प्रोक्तं मज्जा सार उदाहृतः ।करहाटं भवेत्कन्दः पादो मूलं जटा शिफा ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
मज्जाबन्तापि नान्तापि मज्वा(?) पुंलिङ्ग उच्यते ।अङ्गरोऽप्य(था?)ङ्गुरोङ्गूरो भवेदोषधिरोषधी ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.221 · p. 44
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.231 · p. 46
अष्ठीलं धारकं मांसपित्तं श्वदयितं पुनः ।कर्करो न पुमान्मज्जाऽप्यस्थिसारः षणस्थिजम् ॥ २३१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.23 · p. 251
पादपर्यायिमूलं स्यान्नेत्रं च चरणोऽस्त्रियाम् ।अग्रं क्लीबे शिरः पुंसि मज्जा सारश्च पुंस्युभौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.24 · p. 251
क्वचिन्मज्जा स्त्रियां त्वक् स्त्री त्वचा वल्कलमस्त्रियाम् ।चोलकं च स्त्रियां छल्लिश्छल्ली च वल्कलं च षण् ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 136
छल्ली त्वचश्चोचमन्त्ये न स्त्रियां वल्क-वल्कलौ ।मज्जायां सारमज्जानौ विस्तारो विटपोऽस्त्रियाम् ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 221
लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि ।लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् ।रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.33 · p. 55
सारो मज्जा पुमान्स्थाणुः शङ्कुर्ध्रुवक इत्यपि ।अंह्रिर्बुध्नः पुमान्मूले शिखरेऽग्रं शिरोऽपि च ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.275 · p. 135
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.283 · p. 136
करङ्कः स्याच्छरीरास्थि मज्जा शुक्रकरोऽपि च ।शुक्रं वीर्यं बलं रेतः पौरुषं किट्टवर्जितम् ॥ २८३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.132 · p. 42
गोर्दं मस्तिष्कमस्तिष्यमस्तकालयमस्तिकाः ।वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.998 · p. 153
रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.764 · p. 155
मज्जा शुक्रकरश्चेति मज्जानामानि मन्यते ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1969 · p. 324
सारो मज्जा द्वयं नाम वृक्षसत्त्वे निगद्यते ॥ १९६९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.21 · p. 58
सारो मज्जा च मज्जा स्त्री वृक्षादेः सारभागके ।त्वक् स्त्री त्वचा त्वचं चोचं वल्कं वल्कलचोलकम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.191 · p. 204
पृष्ठहड्डे कशेरुका कशारुकाऽस्थिसंभवे ।मज्जा नान्तो द्वयोर्मज्जाऽबन्तः स्त्री रेत्र-रेतसी ॥ १९१ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.128 · p. 228
मूले वृक्षस्य बुध्नः स्याद् ब्रध्नोऽह्रिरङ्घ्रिसंयुतः ।मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥ १२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह्रि (wrong syllable); pāda 3, syllable 4 न्तो (syllables merged)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.289 · p. 39
उपस्थं वागपानं चेत्येतत्कार्मणमिन्द्रियम् ।त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.447 · p. 59
अप्रकाण्डे स्तम्बगुल्मौ द्रुमाङ्कः कण्टकोऽस्त्रियाम् ।समौ स्कन्धप्रकाण्डौ द्वौ सारो मज्जा समावुभौ ॥ ४४७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 94 · p. 536
अथ मज्जा द्वयोः ॥ ९४ ॥
genderपुंस्त्रीm. f.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.49 · p. 39
वृषः श्वेतेश्वरः पीता मज्जा तृड्वामबाहुगः ।षडाननः षडाकारः ष-कारः कीर्त्तितो बुधैः ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्पलिनी Utpalinī · व्याडि Utpalinī 26 · p. 48
अथ मज्जा द्वयोरस्थिस्नेहशुक्रकरो बली ॥ २६ ॥
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.14 · p. 46
चोचं वल्कं च सारस्तु मज्जा स्नावः किनाटकम् ।निष्कुटः कोटरो न स्त्री विदलं दारु पाटितम् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.

मज्जन् as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) सारनिष्ठा क्लेशेऽवसाने च व्यवस्थोत्कर्षयोर्व्रते । श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥ Abhidhānaratnamālā (Halāyudha) 5.853
  • धरणिकोश सारभारः स्वर्णपलानां तु द्विसहस्रे च वीवधे । [79] सारो मज्ज्नि बले व्याधौ सारं न्याय्ये जले धने ॥ Dharaṇikośa 26.2.7
  • कोषकल्पतरु सारनारं तु नीरे कनकेऽथ सारो बले स्थिरांशेऽपि च मज्ज्नि पुंसि । न्याय्ये च नीरे द्रविणे च षण्ढे वरे पुनर्वाच्यसमं वदन्ति ॥ १६ ॥ Koṣakalpataru 6.27.16
  • नानार्थार्णवसंक्षेप वलीकारवेल्लविशेषे च बृहत्कर्कोटकाह्वये । शोणाम्लाने नालिकेरे माषधान्ये च मज्ज्ञि च ॥ ८४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.847
  • शब्दरत्नावली सारस्वरो नासानिलोदात्तध्वनिषड्जादिके पुमान् । सारो मज्जास्थिरांशे च बलेऽप्यतिदृढे पुमान् ॥ विपिनन्याय्यनीरेषु क्लीबलिङ्गं वरे त्रिषु । सान्द्रं स्निग्धे मनोज्ञे च नालवाले नपुंसकम् ॥ सिप्रो निदाघनीरे ना सिप्रा स्त्री सरिदन्तरे । सूत्रन्तु सूजनाग्रन्थे व्यवस्थायाञ्च तन्तुषु ॥ Śabdaratnāvalī 7.27.48