अस्थि
asthiक्ली · neut.In 15 kośas: 20 synonym verses, 19 as a meaning of another word.
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ६१९ ॥
अनुष्टुप्
genderक्लीneut.
अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ॥ ६२५ ॥मांसपित्तं श्वदयितं कर्करो देहधारकम् ।मेदोजं कीकसं सारं करोटिः शिरसोऽस्थनि ॥ ६२६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
आर्या
genderक्लीneut.
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥ २२१ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्रीशिरोर्थतः स्नेहो मस्तिक्को मस्तुलुङ्गकः ।मेदोजमस्थि कुल्यं स्याद्भारद्वाजं च देहतः ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् ।भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि ।लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् ।रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
स्वागता
genderक्लीneut.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderक्लीneut.
एतान् शब्दान् यथासङ्ख्यं स्त्रीपुन्नपुंसकेषु विद्धि । इयं तनुः । अयं कायः । इदं शरीरम् । दधिसक्थ्यस्थिशब्दा नपुंसके स्युः । यथा इदं दधि क्षीरविकारः । इदं सक्थि उर्वोर्मध्यम् । इदमस्थि कीकसम् । कक्षाशब्दः स्त्रियां भवेत् यथा इयम् कक्षा बाहुमूलम् । अन्यच्च । "जघनाभरणे स्त्रीणां करीणां मध्यबन्धने । अवस्थासु च हर्म्यानां नित्यं कक्षा व्यवस्थिता ।"सुमनोऽप्सरोविरहितमद्व्यच्कमसन्तन्तु पुंसि स्यात् ।द्व्यच्कं पुनर्नपुंसकप्रकृतादन्यत्र वै जरसः ॥ २४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.doubtful
शिलाभवस्थानकभेषजास्थि-रुचत्वचद्वारहलासृजां च ।फलप्रसूनद्रवतां सुखादि-धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥
उपेन्द्रवज्रा
genderक्लीneut.
रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
अस्थि कुल्यं कीकसञ्च कङ्कालो देहकीकसे ।कशेरुका कशेरुः स्त्री पृष्ठास्थनि भवेद्द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
उपस्थं वागपानं चेत्येतत्कार्मणमिन्द्रियम् ।त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
स्यादस्थि कीकसं कुल्यं करोटिः स्त्री शिरोस्थनि ।कर्परस्तु कपालोऽस्त्री नलकं त्वस्थि बाहुजम् ॥ ११२० ॥
अनुष्टुप्
genderक्लीneut.
मृत्युर्बको वृ(वि)षघ्नश्च हृदो दक्षकरस्थितः ।शङ्ख(ङ्कु)कर्णोऽस्थिसंज्ञश्च श-कारो विद्भिरीरितः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
विस्रमस्थिकरं स्नेहवरं गौतममित्यपि ।अथास्थि कीकसं विड्डं कललं क्रूरमाढिकम् ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
अस्थि as a meaning in nānārtha verses
- धरणिकोश धातुधातुः श्लेष्मादिरूप्यादिपृथ्व्यादिचक्षुरादिषु । मनःशिलादिभूवाद्योर्विशेषादस्थ्नि गैरिके ॥ Dharaṇikośa 15.3.7
- धरणिकोश कुल्यकुल्या नदी कुल्यमस्थि कुल्या नीरप्रणालिका । कुलस्यापि हितः कुल्यः कुल्यश्च कुलसंभवः ॥ Dharaṇikośa 25.3.3
- धरणिकोश कीकससारसो विहगे चन्द्रे सारसं सरसीरुहम् । कीकसाः कृमयः सूक्ष्मा अस्थि कीकसमिष्यते ॥ Dharaṇikośa 31.2.12
- कोषकल्पतरु करङ्कपर्यङ्कः पल्यङ्को द्वौ पर्यङ्के च मञ्चे च । मुन्यासने च सक्थ्या- मथो करङ्कः पुटोदकेऽस्थ्नि स्यात् ॥ Koṣakalpataru 6.1.104
- कोषकल्पतरु धातुवातादिदोषेषु रसादिकेषु श्रोण्यादिभूषास्तिपचादिषु स्यात् । विशेषतस्त्वस्थिनि गैरिकेऽथ देहेऽप्तुराद्ये परगस्त्वभीष्टे ॥ १८ ॥ Koṣakalpataru 6.16.18
- कोषकल्पतरु कुल्यबल्यं तु रेतस्यथ भेद्यलिङ्गं कुल्यं तु न स्त्री मतमस्थिवाचि । शूर्पेऽष्टकद्रोणिगतं च मांसे पयःप्रणा[ली]सरितो नसि(?) स्त्री ॥ ३१ ॥ Koṣakalpataru 6.26.31
- कोषकल्पतरु कीकससंक्षेपणे द्वंद्वमुखादिषु स्या- न्ना कीकसः स्यात्कृमिजातिवाची । अस्थ्न्यन्तिमे पायस ईरितो ना श्रीवासवृक्षे परमान्नकेऽन्त्ये ॥ ९१ ॥ Koṣakalpataru 6.31.91
- नानार्थार्णवसंक्षेप धातुस्वर्णे रेतसि पाषाणे शरीरे गैरिके रसे । अस्थ्नि स्वभाव आकारे स्याद्भूवादिसुबन्तयोः ॥ ६५ ॥ Nānārthārṇavasaṃkṣepa 2.2.65
- नानार्थार्णवसंक्षेप कुल्यनीरप्रणालिकायां च कृत्रिमाल्पसरित्यपि । कुलस्त्रियां कण्टकार्यामस्थ्नि तु क्ली पुमांस्तु सः ॥ २३८ ॥ Nānārthārṇavasaṃkṣepa 2.5.238
- नानार्थार्णवसंक्षेप क्रूरउष्णे च कठिने च स्यात् पूगवृक्षे स्त्रियां तु सा । बदरीकण्टकार्योः क्ली त्वस्थ्नि कूर्मस्तु कच्छपे ॥ २६० ॥ Nānārthārṇavasaṃkṣepa 2.5.260
- नानार्थार्णवसंक्षेप बलबलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूप्वथ । बलभद्रे यावकाख्ययवभेदे च नाथ तम् ॥ ८३३ ॥ Nānārthārṇavasaṃkṣepa 2.5.833
- नानार्थार्णवसंक्षेप कर्करकर्करस्तु पुमानस्थ्नि पाषाणे दर्पणेऽपि च । दृढे तु भेद्यलिङ्गः स्यादित्याहुरथ कर्करी ॥ ३२५ ॥ Nānārthārṇavasaṃkṣepa 4.325
- नानार्थार्णवसंक्षेप कललमलीमसे तु त्रिः क्ली तु कललं चर्मकोशके । अस्थन्यप्यथ न स्त्री स्याद् रेतसो गर्भता यतः ॥ ३३० ॥ Nānārthārṇavasaṃkṣepa 4.330
- शिवकोष धातुतेजोवती करञ्ज्यो रक्तो ना भल्लके दृढस्कन्धे । धातुः शिलादौ श्लेश्मादौ रसादौ गैरिकेऽस्थ्नि च ॥ १८० ॥ Śivakoṣa 12.1.180
- शब्दरत्नावली करङ्कनैयायिकादिदोषोक्त्यां रोमाञ्चे च द्रुमाङ्गके । करङ्को मस्तकेऽशस्यनारिकेलफलेऽस्थनि ॥ Śabdaratnāvalī 7.1.42
- तन्त्राभिधान शशः सव्यञ्च कामरूपी कामरूपो महामतिः । सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः ॥ १५३ ॥ Tantrābhidhāna 2.47.153
- तन्त्राभिधान शअस्थि धातुर्वराहश्च लक्ष्मीशः शंकु-कर्णिके । तथा नयः समिधश्च साम्बकः शा-र्णकः स्मृतः ॥ ४६ ॥ Tantrābhidhāna 6.46
- वैजयन्ती धातुलोहेऽर्थे गैरिकस्वर्णरेतोऽस्थिषु विशेषतः । नरोऽर्जुने मनुष्ये च नाकः स्वर्गान्तरिक्षयोः ॥ २९ ॥ Vaijayantī 6.1.29
- वैजयन्ती बलअर्केऽग्नौ क्ली तु वेदेऽन्नं स्वाध्यात्मात्मतपःसु च । बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च ॥ ५४ ॥ Vaijayantī 6.5.54