कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रस

rasaपुं · masc.

In 26 kośas: 93 synonym verses, 19 as a nānārtha head word, 55 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.255 · p. 17
मरको मारिस्त्रयस्त्रिंशदमी स्युर्व्यभिचारिणः ।स्युः कारणानि कार्याणि सहचारीणि यानि च ॥ ३२५ ॥रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ।विभावा अनुभावाश्च व्यभिचारिण एव च ॥ ३२६ ॥व्यक्तः स तैर्विभावाद्यैः स्थायी भावो भवेद्रसः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 शद (syllable split)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.404 · p. 20
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.619 · p. 27
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ६१९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.620 · p. 27
रस आहारतेजोऽग्निसंभवः षड्रसासवः ।आत्रेयोऽसृक्वरो धातुर्घनमूलमहापरः ॥ ६२० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1050 · p. 41
पारदः पारतः सूतो हरबीजं रसश्चलः ॥ १०५० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.23 · p. 44
कुड्मले मुकुलं गुञ्छे गुच्छस्तबकगुत्सकाः ।गुलुञ्छोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥ ११२६ ॥मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.12
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.99
क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.90 · p. 11
बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् ।स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.646 · p. 73
ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.127 · p. 77
रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.276 · p. 91
जीरके तु जया तु स्यात् सूक्ष्मसौदो रसः कणः ।कृष्णे तु जीरके पृथ्वी रोहिण्यां कटुरोहिणी ॥ २७६ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात षट्संख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 6.15 · p. 200
रस-राग-चक्रकोणास्त्रिशिरोनेत्रा-ऽन्तराणि गुण-तर्काः ।दर्शन-गृहमुख-भूषण्ड-चक्रिणः स्युरिह षट् संख्याः ॥ १५ ॥
आर्या
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात नवसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 9.19 · p. 200
भूखण्ड-कृत्तरावणमुण्ड-सुधाकुण्ड-जैनपद्मानि ।ग्रैवेय-रस-व्याघ्रीस्तन-गुप्ति-निधि-ग्रहास्तु नवसंख्याः ॥ १९ ॥
गीतिः
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.24 · p. 2
षष्ठसंज्ञा षड्रत्वं गरसा प्रोक्ता मनीषिभिः ।मुनिपर्वतशैलादि सप्ताचालनगा स्मृताः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.221 · p. 44
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.223 · p. 45
पुंसि क्लीबे च चर्माम्भो रसो नर्यथ शोणितम् ।आसुरं प्राणदं रक्तमाग्नेयं मांसकार्यपि ॥ २२३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.233 · p. 46
स्याद्बीजमिन्द्रियं रेतो रोहणं किट्टर्जितम् ।पुमानन्नविकारः स्यादपि मज्जारसोरसः ॥ २३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.332 · p. 169
कषायोथाम्ललवणमधुतिक्तेभ्य इत्ययम् ।षट्क एको रसाः षट् ते पुंस्येते स्युस्त्रिषष्टिकाः ॥ ३३२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.584 · p. 197
अमृतोत्थं च सूतस्तु पारदः पारतो रसः ।रसराजो महातेजा रससिंहो महारसः ॥ ५८४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.299 · p. 282
रक्तोत्पलस्तूलवृक्षो रम्यपुष्पः कटुद्रुमः ।मोतोऽप्यथ श्रवः शृङ्गो रसो मोचा ततः पुनः ॥ २९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.7 · p. 344
स्त्रियां तृप्तिरिरापः स्त्री भूम्नि पुंसि रसो द्वयोः ।गौः क्लीबे प्राणदं क्षीरं वाश्चापि सलिलं जलम् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.90 · p. 427
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.156 · p. 434
शब्दस्पर्शरूपरसगन्धा भूतगणाः क्रमात् ।विषयाः स्युरमी ह्येषामिन्द्रियार्थश्च गोचरः ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्श (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.47 · p. 466
पुंलिङ्गमृतुहस्तौष्ठकोष्ठाधूनां नखस्य च ।कपोलकेशदिवसरसानां स्तनगुच्छयोः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.191 · p. 482
वर्षावतंसमासानां विसविष्कसयोरपि ।रसकर्पासपनसमासानां दिवसस्य च ॥ १९१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.46 · p. 58
न स्त्री रसः पुंसि तु रासनः[37b] स्या-दास्वादसंज्ञोऽथ मनाक्तथान्ते ।स्फुटोऽस्फुटश्चानुरसः प्रदिष्टःषोढा मतोऽसौ मधुरादिभेदात् ॥ ४६ ॥
उपजातिःmetre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.194 · p. 96
देवनं कूर्द्दनं खेला खेलो विहृतिरित्यपि ।क्रीडा च ललनं चाथ तस्यां प्रहरणं यदा ॥दण्डा हि(दि?)स्यात्तदा दाण्डा मौष्टा याष्टैवमुन्नयेत् ।आवीनकं तर्णकानां स्थालीषु क्रीडनं मतम् ॥रासो रासे रसो गो(?)धुग्जनस्य क्रीडनं मतम् ।विप्रलम्भो विसंवादोऽभ्युपपत्तिरनुग्रहः ॥ १९४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.3 · p. 99
वार्जीवनं जीवनीयं दगर्णे(?) सर्वतोमुखम् ।गवं(?)सरः कर्बुरं च पवित्रं पूतमङ्कुरः ।कम्बलं तामरं कृत्स्नं क्षणदं स्यन्दनं मधु ।क्षरं कंत्वलिगं * * न स्त्री कोडं(?)रसं विषम् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.47 · p. 131
रसो रसेन्द्रः सूतश्च पारदः पारतोऽस्त्रियाम् ।हरबीजं च चपलः स्वामी स्नेहनिधिश्चलः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 177
रसगन्धो गन्धरसो बोलो जातीरसो रसः ।प्राणः शशश्च पिण्डश्च गोप-गोपरसावपि ॥गञ्जा पिका मातुलानी भङ्गिका विजया जया ।उन्मादि[नी] हर्षिणी स्याद्भङ्गराजस्तु मार्कवः ॥ १७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 221
लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि ।लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् ।रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 282
पायसं परमान्नं स्यात्प्रहितं त्ववरान्नकम् ।सूदः सूपः कूलकोऽस्त्री बुस्तं मांसजलं रसः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.10 · p. 282
यूर्ना रसो यूषमस्त्री पक्वमुद्गादिजे जले ।खलः पक्वैर्मूलफलैरथ काम्बलिको भवेत् ।समांसकट्वम्लयुतो रसाद्यास्त्वकृताः कृताः ॥ १० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.92 · p. 291
एकादशादयस्त्रय्यां पङ्क्तिस्तु दशवाचिका ।आब्धिभूतरसादीनां ज्ञेयाः संख्या हि लोकतः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.31 · p. 304
हालाहलं हालहलं काकोलं च हलाहलम् ।कालकूटं रसस्तीक्ष्णं क्लीबे मधुरकं च तत् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.93 · p. 315
पाण्डुकं नवकं तुल्यलोहचूर्णं नवायसम् ।रसस्तु स्वरसोऽथासौ स्थितो रात्रिंदि( द्र )वे हिमः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.96 · p. 315
रसः कल्कः शृतः शीतः फाण्टश्चेति कषायकाः ॥ ९६ ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.5 · p. 94
इन्द्रियार्थ-रथ-वायु-रदानांकण्ठ-देश-रस-गण्ड-नदानाम् ।ओष्ठ-कोष्ठमिति-धान्य-कचानांपाणि-पाणिज-कुठार-कुचानाम् ॥ ५ ॥
स्वागता
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.73 · p. 116
कार्पास-कांस-चमसाः पनसोपवासौस्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि ।दोर्वद्विहाय उदितं हृदये तु वत्संमाघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.227 · p. 37
रक्षितं तूद्धृतं स्नेहान्मथितात्तु प्रमाथितम् ।पयो दुग्धं च पीतं च स्तन्यं पुंसवनं रसः ॥ २२७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.330 · p. 45
हरबीजं रसो लोलो गन्धिको गन्धकोऽपि च ।शुकपुच्छस्ताम्रशत्रुः पामारिः कुष्ठनाशनः ॥ ३३० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.276 · p. 86
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ।गोचरा इन्द्रियार्थाश्च विशिष्यैवं विभाव्यताम् ॥ २७६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.72 · p. 110
यूर्यूषरससंज्ञा हि रससब्दाः प्रकीर्तिताः ।क्षीरदुग्धे पयःपुंसवने सोमजमित्यपि ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.275 · p. 135
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.276 · p. 135
स्नायुत्वग्रोमभिः सार्धं धातवो दशधा स्मृताः ।रस आहारतेजोऽग्निसंभवः षड्रसासवः ॥ २७६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.6 · p. 211
हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः ।स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.183 · p. 48
बहुधूपः सर्वरसो निर्यासः सज्जकोऽपि च ।रसोऽपि स्यात्सज्जु(र्ज?)रसे चाथ पिण्डकयावकौ(नौ?) ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.545 · p. 95
क्षारस्तु काचेऽथ स्यात्तु पारदे पारतोऽपि च ।रसः सूतश्च चपलं गवलं त्वथ इष्यते ॥ ५४५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.553 · p. 96
रसो गोपश्चाथ रम्यं डिण्डीरो डिण्डिरोऽपि च ।फेनश्चाब्धिकफश्चाब्धिफेने चाथ तु सिन्दुरम् ॥ ५५३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.29 · p. 126
संवरं शम्बरं चापि संभारं सर्वतोमुखम् ।पुष्पं च मेघपुष्पं च रसं घनरसं तथा ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.248 · p. 17
हेमरुक्पित्तलं रीतिः लोहोऽयस्तीक्ष्णमायसम् ।सूतो रसः शम्भुशुक्रं पारदो रसराजकः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.9 · p. 38
रसस्तु पारदो राजा महाजीवो महादनः ।तद्भेदे दरदो हिंगी शिखाग्नी रसजिह्विका ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.149 · p. 16
विषस्तु गरलं क्ष्वेडो रसस्तीक्ष्णश्च तद्भिदः ।हालाहलः कालकूटो वत्सनागः प्रदीपनः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.111 · p. 30
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्चेत्येते नव रसाः स्मृताः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.480 · p. 59
विभावाश्चाऽनुभावाश्च व्यभिचारिणः एव वै ।व्यक्तः स तैर्विभावाद्यैः स्थायिभावो भवेद्रसः ॥ ४८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 णः (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.132 · p. 78
शीखण्डं कथ्यते लोके यूर्यूषश्च रसोऽन्यथा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.604 · p. 78
ऊधस्यममृतं गव्यं स्तन्यं योग्यं रसोत्तमम् ।बालसात्म्यं मधुज्येष्ठं जीवनीयं सरं रसम् ॥ ६०४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.998 · p. 153
रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.999 · p. 153
अग्निसम्भव आत्रेयोऽसृक्करः षड्रसासवः ।मूलधातुर्महाधातुर्घनधातुस्तथा रसः ॥ ९९९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1818 · p. 297
पारतः पारदः सूतश्चलश्च चपलो रसः ॥ १८१८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1839 · p. 300
बोलो गोपरसो गोपो गन्धरसो रसः शसः ॥ १८३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2157 · p. 354
विषस्तीक्ष्णं रसः क्ष्वेडो गरलोऽपि च नाम वै ॥ २१५७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.46 · p. 408
स्पर्शो रसश्च गन्धश्च रूपं शब्दश्च पञ्चमः ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.60 · p. 409
प्रसिद्धो लवणश्चैव रसः सर्वरसस्तथा ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.329 · p. 23
अविद्याऽहंमतिः स्त्री स्यादज्ञाने परिकीर्तिता ।रूपः शब्दस्तथा गन्धो रसः स्पर्शस्तु पञ्च वै ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.192 · p. 150
रसो रसेन्द्रश्चापलः सूतपारदसूतकाः ।हरवीजं सिद्धधातुः पारतोऽपि च कुत्रचित् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 श्चा (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.199 · p. 151
रसगन्धो गन्धरसः प्राणः पिण्डो रसः शशः ।वोलो गोपो गोपरसो वोलजो गोपकोऽपि च ।हिण्डीरः स्यादब्धिकफः फेणो हिण्डिर इत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.48 · p. 192
मर्जिता, मुद्गादिरसे यूर्यूषस्त्रिषु जुषयुक् ।दुग्धे गव्यं गोरसश्च रसोत्तमरसे समे ॥ ४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्गा (syllables merged)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.86 · p. 225
बोले गोपरसो गोपो रसो गन्धरसान्वितः ।रत्ने मणिश्च माणिक्यं वैडूर्यं वालवायजे ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.287 · p. 39
शब्दस्पर्शरसा रूपं गन्धश्च विषया अमी ।इन्द्रियार्था इन्द्रियं तु स्यादक्षं करणं च तत् ॥ २८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.424 · p. 56
परासं हेमजं रङ्गं वङ्गं तमरुकं शठम् ।काचः क्षारोऽथ चपलो रसः सूतश्च पारदः ॥ ४२४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.430 · p. 57
शुक्लधातौ पाकशुक्ला कंटिनी कर्कटी कटी ।बोलः पिण्डः शशः प्राणो गोलो गण्ड(न्ध?)रसो रसः ॥ ४३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.956 · p. 119
स्थायिभावो विभावाद्यैः स्थायितां प्रापितो रसः ।रतिर्हासक्रोधशोकजुगुप्सोत्साहविस्मयाः ॥ ९५६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1697 · p. 204
हवो हूतौ तथा गीर्णिर्गिरौ गुरणमुद्यमे ।क्षिपा क्षेपे नयो नाये रसे रासः स्नवः स्रवे ॥ १६९७ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.57 · p. 40
शिखी गोत्रा तोय-शून्ये जवी द्युतीरभिस्मृतः ।भूमी रसो नभश्चैव व्याप्तं दाहो रसाऽम्बु चा ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्यु (wrong syllable)
genderपुंmasc.
दीर्घबाहू रसो रूपं नादाख्यश्चातिचञ्चलः ।ञो धर्मः सुखदो ज्ञानी वामकराङ्गुलीनखः ।एकपादः कुण्डली च वामपाणिस्तथा नखः ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.59 · p. 60
जलं वारि वनं वा कं पाथस्तोयं रसोऽम्बु हृत् ।दशानां जलवर्णानां संज्ञोक्ता पूर्वसूरिभिः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात जलवर्णाः Tantrābhidhāna 9.4.1 · p. 60
जलं-ऋ, वारि-ॠ, वनं-औ, वाः-घ, कं-झ, पाथः-ढ, तोयं-ध, रसः-भ, अम्बु-व, हृत्-स
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.2 · p. 31
कणिर्ह्रादो रसो ध्रूणा घोषो गुंजनमुंजने ।गंजनं मशनं कानं गानं कोरणरेदभणे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.15 · p. 42
बोलो गोलः शशः पिण्डः प्राणो गन्धरसो रसः ।अभ्रकं व्योममेघाख्यं चक्रसंज्ञं नु माक्षिकम् ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.44 · p. 44
कुलुत्थिका तु चक्षुष्या कुम्भकारी कुलालिका ।रसस्तु पारतः सूतो हिंगुलो दारदो रसः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.49 · p. 49
कृतमालः सुपर्णश्च मदने तु फणी रसः ।पिण्डीतके मरुवक इक्ष्वाकुर्गालवामनौ ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.205 · p. 62
जीर्णकं च पलाण्डुस्तु श्वेतकन्दो मुकुन्दकः ।हरितेऽस्मिन् लतार्कः स्यात् फरुण्डो दुद्रुमो रसः ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.30 · p. 74
कैवर्ती बुरुलं भिल्ली शनकं शनकी रसम् ।श्वपाकी गर्मुटं घोली घर्घरं द्रमिडी कणम् ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.111 · p. 132
तुरुष्कः पावनश्चाथ सर्ज्जनो लालनो रसः ।बहुरूपो यक्षधूपोऽप्यरालोऽप्यथ कृत्रिमे ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.74 · p. 142
रसभावांगहाराद्यैः शास्त्रोक्तैरूपकाश्रयम् ।नृत्तमाभ्यन्तरं नाम स्थायिभावात्मको रसः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.104 · p. 181
रसस्तु घनधातुः स्यादात्रेयः षड्रसासवः ।मूलधातुर्वह्निसुतो महाधातुरसृक्करः ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्व (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.114 · p. 182
अग्रमांसं तु हृदयं हृद्वसा त्वामिषो रसः ।कङ्कालोऽस्त्री तनोरस्थि करङ्कोऽप्यस्थिपञ्जरम् ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.2 · p. 196
खादीनां तु गुणाः शब्दः स्पर्शो रूपं रसः क्रमात् ।गंधश्चेतीन्द्रियार्थास्ते विषया गोचराश्च ते ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.442
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.861 · p. 98
शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे ।निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास सश्लोकः Dharaṇikośa 31.3.2 · p. 225
रसः शृङ्गारादौ द्रवगरलरागेष्वपि रसोरसस्तिक्तादौ च…तनुधात्वोरपि रसः ।रसो वीर्ये सूते चपलजलस्वादेष्वपि रसा[106] रसा पाठाशल्लक्यवनिरपि धीरैर्निगदिता ॥
metre not recognisednearly शिखरिणी: pāda 1, syllable 11 ल (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.74 · p. 377
देहधातौरसोऽस्त्रियां स्वादविषे च रागे ॥ ७४ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.3 · p. 377
तिक्तादिके बोलकपारदे चद्रवेषु शृङ्गारमुखेषु वीर्ये ।स्त्री सल्लकीकङ्गुमहीवृकीषुजिह्वासु रास्नास्वपि कीर्तितोऽयम् ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1077 · p. 135
यौनं स्याद्योनिसम्बन्धे क्ली गर्भाधानसंस्कृतौ ।रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ॥ १०७७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1078 · p. 135
रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ।देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1079 · p. 135
कषायभोजनान्नेषु स्नेहे हिङ्गुलबोलयोः ।लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ १०७९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1080 · p. 135
देवमारिषसंज्ञेऽथ कश्चिदन्यः स्म मन्यते ।मांसेक्षुसुरशुक्तेषु नागे चेति पुमान् परे ॥ १०८० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास रकारादयः Paramānandīyanāmamālā 5.22.346 · p. 205
रसस्तु पारदे वीर्ये घृते शृङ्गारिके तथा ।रथ्या प्रतोल्यां मार्गे च राशिर्मेषादिपूरयोः ॥ ३४६ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र सद्विः Śivakoṣa 27.1.526 · p. 48
मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ।मृत्सा काक्षीश्रेष्ठमृदो रसो सूते विषे बले ॥ ५२६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.8 · p. 294
रसो गन्धरसे नीरे शृङ्गारादौ विषे द्रवे ।रागवीर्यदेहधातुप्रभेदास्वादपारदे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्य (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.9 · p. 294
तिक्तादौ च गुणे पुंसि द्रवे क्लीबन्तु कुत्रचित् ।रसा स्त्री रसना पाठाशल्लकीभूमिकङ्गुषु ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.52 · p. 297
रासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः ।राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1985 · p. 241
रसो रागे विषे वीर्ये शृङ्गारादौ पराक्रमे ।तक्तादौ पारदे शब्दे रेतस्यास्वादनेऽमृते ॥ १९८५ ॥
अनुष्टुप्
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 254 · p. 543
शृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः ।तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥
अनुष्टुप्
doubtful
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 231 · p. 543
आस्वादे च रसं प्राहुः … ॥ २३१ ॥
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.449 · p. 252
राजहंसो नृपाग्र्ये च जिह्वाभूः शल्लकी सा ।जले शरीरधातौ च पारदस्वादयोः रसः ॥ ४४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.49 · p. 218
रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ।रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥ ४९ ॥
अनुष्टुप्

रस as a meaning in nānārtha verses