कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

मर्त्यविभागः (7/13)

त्रिकं वंशाधस्तत् पार्श्वकूपकौ तु कुकुन्दरे ।कुकुन्दुरः कटीकूपौ उच्चिलिङ्गौ रतावुके ॥ ९८१ ॥
4.981 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)

* पुतनामानि *

स्फिजौ स्फिचौ कटिप्रोथौ पुतौ चेति हि कथ्यते ।
4.722 · p. 150
अनुष्टुप्

* योनिनामानि *

भगोऽपत्यपथो योनिः वराङ्गं स्मरमन्दिरम् ॥ ९८२ ॥
4.982 · p. 150
अनुष्टुप्
स्त्रीचिह्नं च च्युतिश्चापि बुलिश्च स्मरकूपिका ।एतानि मन्यते योनेर्नामानि पण्डितो जनः ॥ ९८३ ॥
4.983 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)

* लिङ्गनामानि *

पुंश्चिह्नं मेहनं मेढ्रः शिश्नं च शेपशेपसी ।लाङ्गूलं लङ्गुलं लिङ्गं नाङ्गूलं च शेफशेफसी ॥ ९८४ ॥
4.984 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कामलता च लिङ्गस्य नामानि कथितानि वैः ।
4.726 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)

* योनिलिङ्गनामानि *

गुह्यं प्रजननोपस्थां कथ्यते द्वयमप्यदः ॥ ९८५ ॥
4.985 · p. 151
अनुष्टुप्metre not read in every line

* गुह्यमध्यनामानि *

गुह्यस्य मध्यभागोऽपि गुह्यमध्यं गुलो मणिः ।
4.728 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)

* सीवनीनाम *

कथ्यते तदर्धः सूत्रं सीवनी साक्षरैः सदा ॥ ९८६ ॥
4.986 · p. 151
अनुष्टुप्metre not read in every line

* अण्डनामानि *

अण्डमाण्डोऽण्डकोशश्च मुष्कश्च वृषणोऽण्डकः ।पेलश्च पेलकश्चेति अण्डनाम निगद्यते ॥ ९८७ ॥
4.987 · p. 151
अनुष्टुप्

* गुदनामानि *

गुदं पायुरपानञ्च त्रिवलीकं च्युतिर्बुलिः ।शकृद्वारमधो मर्म गुदनामानि मन्यते ॥ ९८८ ॥
4.988 · p. 151
अनुष्टुप्

* विटपनाम *

अण्डमूलं महावीज्यं विटपञ्चापि कथ्यते ।
4.732 · p. 152
अनुष्टुप्metre not read in every line

* वङ्क्षणसक्थिनामानि *

उरुसन्धिर्वङ्क्षणः स्यादुररुः सक्थिस्तत् पर्व्व तु ॥ ९८९ ॥
4.989 · p. 152
अनुष्टुप्metre not read in every line

* जानुनामानि *

अष्ठीवान्नलकीलश्च जानुर्नाम त्रयं भवेत् ।पश्चाद्भागोऽस्य मन्दिरः कपोली त्वग्रिमः पुनः ॥ ९९० ॥
4.990 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्दि (wrong syllable)

* जङ्घानामानि *

जङ्घा च प्रसृता नाम नलकिनी निगद्यते ।अग्रजङ्घा प्रतिजङ्घा जङ्घाग्रभाग उच्यते ॥ ९९१ ॥
4.991 · p. 152
metre not recognised

* पिण्डिकानाम *

पिचण्डिका पिण्डिका च कथ्यते कोविदैः किल ।
4.736 · p. 152
अनुष्टुप्

* घुण्टकनामानि *

स्याद्गुल्फश्चरणग्रन्थिर्घुण्टको घुटिको घुटः ॥ ९९२ ॥
4.992 · p. 152
अनुष्टुप्

* चरणनामानि *

चरणश्चलनः पादः क्रमश्च क्रमणः पदः ।अंह्रिरङ्घ्रिस्तथा पत् पाद् चेति नामानि मन्यते ॥ ९९३ ॥
4.993 · p. 152
अनुष्टुप्
गोहरं पादमूलं स्यात् पार्ष्णिस्तु घुटयोरधः ।पादस्याग्रविभागो हि पादाग्रं प्रपदं तथा ॥ ९९४ ॥
4.994 · p. 153
अनुष्टुप्
कथ्यतेऽपि पुनः क्षिप्रमङ्गुष्ठाङ्गुलिमध्यतः ।कूर्चं क्षिप्रस्योपर्यंहिस्कन्धः कूर्चशिरः समे ॥ ९९५ ॥
4.995 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्यो (wrong syllable)
पादतलस्य मध्ये तत् स्यात् तलहृदयं तलम् ।
4.741 · p. 153
अनुष्टुप्metre not read in every line

* तिलकनामानि *

शरीरे कृष्णचिह्नं हि कथ्यते तिलकारकः ॥ ९९६ ॥
4.996 · p. 153
अनुष्टुप्metre not read in every line
तिलकश्चापि पिप्लुश्च जडुलोऽपि तथैव हि ।कालकश्चेति नामानि भवन्ति तिलकस्य वै ॥ ९९७ ॥
4.997 · p. 153
अनुष्टुप्
रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥
4.998 · p. 153
अनुष्टुप्

* रसनामानि *

अग्निसम्भव आत्रेयोऽसृक्करः षड्रसासवः ।मूलधातुर्महाधातुर्घनधातुस्तथा रसः ॥ ९९९ ॥
4.999 · p. 153
अनुष्टुप्
पुनश्चाऽऽहारतेलोऽपि रसनाम निगद्यते ।
4.746 · p. 153
अनुष्टुप्

* रक्तनामानि *

आग्नेयं रुधिरं रक्तं रसतेजश्च लोहितम् ॥ १००० ॥
4.1000 · p. 154
अनुष्टुप्
अस्रमसृक् च वाशिष्ठं प्राणदं क्षतजं तथा ।विस्त्रं रसभवं शोध्यं मांसकारि च शोणितम् ॥ १००१ ॥
4.1001 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
कीलालमाऽऽसुरं चेति रक्तनामानि सन्ति वै ।
4.749 · p. 154
अनुष्टुप्

* मांसनामानि *

आमिषं पिशितं मांसं काश्यपं पललं पलम् ॥ १००२ ॥
4.1002 · p. 154
अनुष्टुप्
जङ्गलं लेपनं कीनमुद्धसं तरसं तथा ।उद्धः रक्तभवं क्रव्यमाऽऽरटं च समारटम् ॥ १००३ ॥
4.1003 · p. 154
अनुष्टुप्
रक्ततेजश्च मेदस्कृत् मांसनामानि मन्यते ।पुनर्मांसलता नाम पेश्यः पेशी च कथ्यते ॥ १००४ ॥
4.1004 · p. 154
अनुष्टुप्
बुक्को बुक्का च वृक्का हृद् हृदयं सुरसं तथा ।अग्रमांसं हि नामानि मन्यते पण्डितो जनः ॥ १००५ ॥
4.1005 · p. 154
अनुष्टुप्
शुष्कमांसमुतप्तं च वल्लूरं वल्लुरं पुनः ।पूयं दुष्यं पण्डितेन र्दुर्गन्धमांसमुच्यते ॥ १००६ ॥
4.1006 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)

* मेदनामानि *

अस्थिकृन्मांसजं मेदो मांसतेजश्च गौतमम् ।तथा वपा वसा चेति मेदनामानि मन्यते ॥ १००७ ॥
4.1007 · p. 154
अनुष्टुप्

* मस्तिष्कनामानि *

मस्तिष्को मस्तकस्नेहो गोदं स्यान् मस्तुलुङ्गकः ।
4.756 · p. 155
अनुष्टुप्

* अस्थिनामानि *

अस्थि सारस्तथा कुल्यं कीकसं देहधारकम् ॥ १००८ ॥
4.1008 · p. 155
अनुष्टुप्
मेदस्तेजश्च मेदोजं मांसपित्तं च मज्जकृत् ।भारद्वाजं तथा हड्डं श्वदयितं च कर्करः ॥ १००९ ॥
4.1009 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
अस्थि नामानि सर्वाणि जानीयुः पण्डिताः सदा ।करोटिश्च करोटी च शिरसोऽस्थनि कथ्यते ॥ १०१० ॥
4.1010 · p. 155
अनुष्टुप्
कपालकर्परौ तुल्यौ शकलञ्चापि मन्यते ।कशारुका कशेरुका पृष्ठस्यास्थ्नि निगद्यते ॥ १०११ ॥
4.1011 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रु (wrong syllable)
नलकं कथ्यते शाखास्थनि वै वङ्क्रिपर्शुके ।पार्श्वास्थ्नि मन्यते देहाऽऽस्थि त्वस्थिपञ्जरः पुनः ॥ १०१२ ॥
4.1012 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable)
करङ्कश्चापि कङ्कालं कोविदैः कथ्यते किल ।
4.762 · p. 155
अनुष्टुप्

* मज्जानामानि *

अस्थिस्नेहोऽस्थितेजोऽस्थिसम्भवः कौशिकः पुनः ॥ १०१३ ॥
4.1013 · p. 155
अनुष्टुप्
मज्जा शुक्रकरश्चेति मज्जानामानि मन्यते ।
4.764 · p. 155
अनुष्टुप्

* शुक्रनामानि *

शुक्रं वीर्यं बलं बीजं पुंस्त्वं मज्जसमुद्भवम् ॥ १०१४ ॥
4.1014 · p. 156
अनुष्टुप्
आनन्दप्रभवं किट्टवर्जितं रेत इन्द्रियं ।प्रधानधातुः पौरुषं चेति शुक्रस्य कथ्यते ॥ १०१५ ॥
4.1015 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पौ (wrong syllable)

* रोमनामानि *

रोम लोम परित्राणं तनुरुहं तनूरुहम् ।कूपजो मांसनिर्यासः त्वग्मलं बालपुत्रकः ॥ १०१६ ॥
4.1016 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)

* त्वङ्नामानि *

असृग्धराऽजिनं चर्म त्वक् कृत्तिः छादनी छविः ।अजिनं चर्म कृत्तिस्तु नामानि मृगचर्मणः ॥ १०१७ ॥
4.1017 · p. 156
अनुष्टुप्

* स्नायुनामानि *

स्नायुः स्नसा नसा स्नावा वस्नसा सन्धिबन्धनम् ।तन्त्री तथा नखारुश्च स्नायुनामानि मन्यते ॥ १०१८ ॥
4.1018 · p. 156
अनुष्टुप्

* नाडीनामानि *

सिराः शिराश्च नाड्यश्च धमनयो भवन्ति वै ।नाटिका च नडिर्नाडिरित्यपि मन्यते बुधैः ॥ १०१९ ॥
4.1019 · p. 156
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)

* महास्नायुनाम *

कण्डरा च महास्नायुर्महानसा निगद्यते ।
4.771 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)

* मलनाम *

कथ्यते तन्मलं किट्टं दूषीका दूषिकाऽक्षिजम् ॥ १०२० ॥
4.1020 · p. 157
अनुष्टुप्metre not read in every line
जीह्वामलं कुलुकं स्याद् दन्त्यमलं तु पिप्पिका ।कर्णमलं हि पिञ्जूषः शिङ्घाणो नासिकामलम् ॥ १०२१ ॥
4.1021 · p. 157
metre not recognised
शिङ्घाणकश्च सिङ्घाणं सिंहाणं सिंहानं तथा ।सर्वाण्येतानि नामानि गीतानि पण्डितैः जनैः ॥ १०२२ ॥
4.1022 · p. 157
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 हा (wrong syllable); pāda 4, syllable 3 नि (wrong syllable)

* स्यन्दिनीनामानि *

सृणीका सृणिका लालाऽस्यास्रवः स्यन्दिनी तथा ।वै कफकूचिका चेति नामानि प्रथितानि हि ॥ १०२३ ॥
4.1023 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)

* मूत्रनामानि *

प्रस्रावो नृजलं मूत्रं मेहो बस्तिमलं स्त्रवः ।कथ्यन्ते मूत्रनामानि लिङ्गमलं तु पुष्पिका ॥ १०२४ ॥
4.1024 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)

* विष्ठानामानि *

उच्चारोऽवस्करो वर्चो वर्चस्कं शमलं शकृत् ।विट् विष्ठाऽशुचि गूथं वै पुरीषं चेति मन्यते ॥ १०२५ ॥
4.1025 · p. 157
अनुष्टुप्

* वेषनामानि *

वेषो नेपथ्यमाऽऽकल्पः वेशोऽपि च प्रयुज्यते ।परिकर्माऽङ्गसंस्कारः उद्वर्तनमुत्सादनम् ॥ १०२६ ॥
4.1026 · p. 157
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 5 मु (wrong syllable)
उच्छादनमपि ज्ञेयमङ्गरागो विलेपनम् ।स्यात् समालभनं चर्चा चर्चिक्यं चन्दनादितः ॥ १०२७ ॥
4.1027 · p. 158
अनुष्टुप्

* मण्डननामानि *

प्रसादनं मण्डनञ्च प्रतिकर्माऽपि ज्ञायताम् ।
4.780 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)

* मार्जनानामानि *

मृजा च मार्जना मार्ष्टिः देहस्वच्छक्रिया भवेत् ॥ १०२८ ॥
4.1028 · p. 158
अनुष्टुप्metre not read in every line

* चूर्णनामानि *

वासयोगश्च चूर्णं स्यात् पिष्टातपटवासकौ ।गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् ॥ १०२९ ॥
4.1029 · p. 158
अनुष्टुप्
निर्वेश उपभोगश्च स्त्र्याद्युपभोग उच्यते ।
4.783 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)

* स्नाननामानि *

आप्लाव आप्लवः स्नानं सवनं चापि मन्यते ॥ १०३० ॥
4.1030 · p. 158
अनुष्टुप्metre not read in every line

* यक्षकर्दमनाम *

कर्पूराऽगुरुकक्कोलकस्तूरीचन्दनद्रवैः ।स्याद्यक्षकर्दमो मिश्रैर्वर्त्तिर्गात्रानुलेपनी ॥ १०३१ ॥
4.1031 · p. 158
अनुष्टुप्
चन्दनाऽगरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ।स लेपः कथितः शास्त्रे प्रसिद्धोऽपि महीतले ॥ १०३२ ॥
4.1032 · p. 159
अनुष्टुप्

* अगरुनामानि *

अगुर्वगरु लोहं च कृमिजग्धं च जोङ्गकम् ।वंशकं वंशिका शृङ्गं वंशाभं शीर्षकं तथा ॥ १०३३ ॥
4.1033 · p. 159
अनुष्टुप्
अनार्यजं च राजार्हं कृमिजं च वरद्रुमः ।प्रकरं प्रवरं गन्धदारु च मृदुलं लघु ॥ १०३४ ॥
4.1034 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 रु (wrong syllable)
तथा परमदश्चेति नामान्यपि भवन्ति हि ।मल्लिगन्धि च मङ्गल्या विशिष्टमगुरुः पुनः ॥ १०३५ ॥
4.1035 · p. 159
अनुष्टुप्
कालागरुः काकतुण्डः कथ्यतेऽप्यगुरुर्बुधैः ।
4.790 · p. 159
अनुष्टुप्metre not read in every line

* चन्दननामानि *

एकाङ्गं गन्धसारश्च भद्रश्रीः फलकी तथा ।मलयजश्च श्रीखण्डं चन्दने रोहणद्रुमः ॥ १०३६ ॥
4.1036 · p. 159
अनुष्टुप्metre not read in every line
गोशीर्षस्तैलर्णिकः प्रख्यातं हरिचन्दनम् ।कुचन्दनं तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ॥ १०३७ ॥
4.1037 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (syllables merged)
तिलपर्णी ताम्रसारं पतङ्गं तिलपर्णिका ।सर्वाण्येतानि नामानि जानीयाच्चन्दनस्य हि ॥ १०३८ ॥
4.1038 · p. 159
अनुष्टुप्

* जातिफलनामानि *

जातिफलं जातीफलं पुटकं मदशौण्डकम् ।कोशफलं तथा जातिकोशं सौमनसं पुनः ॥ १०३९ ॥
4.1039 · p. 160
metre not recognised

* कर्पूरनामानि *

कर्पूरो घनसारश्च सिताभ्रो हिमवालुका ।चन्द्रः कर्पूरवाची वै प्रयोगे दृश्यते सदा ॥ १०४० ॥
4.1040 · p. 160
अनुष्टुप्

* कस्तूनामानि *

कस्तूरी गन्धधूली च कथ्यते मृगनाभिजा ।मृगनाभिर्पुनश्चैव मृगमदोऽपि मन्यते ॥ १०४१ ॥
4.1041 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)

* केशरनामानि *

केशरं कुङ्कुमं रक्तं कालेयं करटं वरम् ।कुसुमान्तं कुसुम्भं च सङ्कोचपिशुनं तथा ॥ १०४२ ॥
4.1042 · p. 160
अनुष्टुप्
जपापुष्पं जवापुष्पं पिशुनं वासनीयकम् ।कुसुमान्तं च संकोचं काश्मीरजन्म जागुडम् ॥ १०४३ ॥
4.1043 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
प्रियङ्गु पीतकाबेरं पीतनं चापि दीपनम् ।वाह्लीकं वाह्निकं वर्ण्यं वर्णं लोहितचन्दनन् ॥ १०४४ ॥
4.1044 · p. 160
अनुष्टुप्
घोरं च धुसृणं धीरं पुष्परजश्च गौरवम् ।असृक्संज्ञपकर्याये वह्निशिखं च कथ्यते ॥ १०४५ ॥
4.1045 · p. 161
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 शि (wrong syllable)

* लवङ्गनामानि *

श्रीसंज्ञं स्यात् लवङ्गं श्रीपर्यायं देवकुसुमम् ।
4.801 · p. 161
metre not recognised

* कोलकनामानि *

कक्कोलकं च कोलकं कोशफलं च कथ्यते ॥ १०४६ ॥
4.1046 · p. 161
metre not recognised

* कालीयकनामानि *

कालयकं तु कालानुसार्यं जायकजायके ।
4.803 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)

* विशिष्टधूपनामानि *

रालः स्यात् सालवेष्टश्च यक्षधूपोऽग्निवल्लभः ॥ १०४७ ॥
4.1047 · p. 161
अनुष्टुप्metre not read in every line
सर्जमणिर्बहुरूपः सर्जरसः सर्वरसः ।सिल्हस्तु सिल्हकश्चापि तुकष्को यावनस्तथा ॥ १०४८ ॥
4.1048 · p. 161
अनुष्टुप्metre not read in every line
वृकधूपश्च कृत्रिमधूपश्च पिण्डकः पुनः ।विशिष्टं गन्धवस्तुकं प्रसिद्धं कथ्यते बुधैः ॥ १०४९ ॥
4.1049 · p. 161
metre not recognised

* विविधधूपनामानि *

पायसो क्षीरधूपश्च दध्याह्वयो घृताह्वयः ।क्षीराह्वयश्च श्रीवासः श्रीवेष्टः सरलद्रवः ॥ १०५० ॥
4.1050 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्व (wrong syllable)
स्थानात् स्थानान्तरं गच्छन् धूपो गन्धपिशाचिका ।
4.808 · p. 162
अनुष्टुप्

* हस्तबिम्बनाम *

स्थासको हस्तबिम्बं च कथ्यते हस्तथापकः ॥ १०५१ ॥
4.1051 · p. 162
अनुष्टुप्

* अलङ्कारनामानि *

आभरणमलङ्कारः परिष्कारश्च भूषणम् ।ज्ञायतां भूषणं विश्वे विभिन्नभूषणं पुनः ॥ १०५२ ॥
4.1052 · p. 162
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 न्न (wrong syllable)

* विभिन्नभूषणनामानि *

चूडारत्नं चूडामणिः शिरोरत्नं शिरोमणिः ।तरलो नायकश्चापि हारान्तर्मणि उच्यते ॥ १०५३ ॥
4.1053 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 डा (wrong syllable)

* मुकुटनामानि *

उष्णीषं मुकुटं मौलिः किरीटं मकुटस्तथा ।कोटीरं चेति नामानि मन्यते मुकुटस्य हि ॥ १०५४ ॥
4.1054 · p. 162
अनुष्टुप्

* मालानामानि *

मूर्ध्नि माल्यञ्च माला च स्रक् तथा पुष्पदाम च ।तृतीयो मर्त्य विभागःकेशमध्यगतं माल्यं गर्भकं कथ्यते किल ॥ १०५५ ॥
4.1055 · p. 162
अनुष्टुप्metre not read in every line
प्रभ्रष्टकं शिखालम्बि पुष्पमाला निगद्यते ।ललामकं पुरोन्यस्तं पुष्पमाला हि मन्यते ॥ १०५६ ॥
4.1056 · p. 163
अनुष्टुप्
वैकक्षं वक्षसि तिर्यक् सापि माला हि कथ्यते ।प्रालम्बमृजुलम्बि च माला हि मन्यते बुधैः ॥ १०५७ ॥
4.1057 · p. 163
metre not recognised
सन्दर्भो श्रन्थनं गुम्फो ग्रन्थनं रचना पुनः ।प्रतियत्नः परिस्यन्दः पुष्पमालाविशेषकः ॥ १०५८ ॥
4.1058 · p. 163
अनुष्टुप्

* तिलकनामानि *

चित्रं च चित्रकं पुण्ड्रः तिलकं च विशेषकः ।पुनस्तमालपत्रं स्यात् केशरादिसमाञ्चितम् ॥ १०५९ ॥
4.1059 · p. 163
अनुष्टुप्

* अवतंसनामानि *

अवतंसो वतंसश्चाऽऽपीडश्च शेखरस्तथा ।उत्तंसोऽपि च नामास्ति शिरसः स्रजि कुत्रचित् ॥ १०६० ॥
4.1060 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* कर्णपूरनामानि *

उत्तंसश्चाऽवतंसश्च कर्णपूरः श्रुतेः सजि ।
4.819 · p. 163
अनुष्टुप्metre not read in every line

* पत्रलेखानामानि *

पत्रभङ्गिः पत्रभङ्गी पत्रलेखा पत्रलता ॥ १०६१ ॥
4.1061 · p. 163
अनुष्टुप्metre not read in every line
पत्रवल्लि पत्रवल्ली पत्राङ्गुली पत्राङ्गुलिः ।स्तनादिभूषणे पत्रवल्लरी पत्रमञ्जरी ॥ १०६२ ॥
4.1062 · p. 164
अनुष्टुप्metre not read in every line

* पत्रपाश्यानाम *

प्रोक्ता ललाटिका पत्रपाश्या च भालभूषणे ।
4.822 · p. 164
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)

* वालपाश्यानामानि *

पार्यातथ्या पारतथ्या वालपाश्याच कथ्यते ॥ १०६३ ॥
4.1063 · p. 164
metre not recognised
पुनः पर्यवतथ्या हि केशबन्धनभूषणम् ।
4.824 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 कि (wrong syllable)

* कर्णिकानाम *

कथ्यते कर्णिका किल कोविदैः कर्णभूषणम् ॥ १०६४ ॥
4.1064 · p. 164
अनुष्टुप्metre not read in every line

* कुण्डलनामानि *

कुण्डलं ताडपत्रं च ताडङ्कः कर्णवेष्टकः ।कर्णादर्शश्च सौवर्णः कर्णयोः स्वर्णभूषणे ॥ १०६५ ॥
4.1065 · p. 164
अनुष्टुप्
उत्क्षिप्तिका च कर्णान्दुः कर्णान्दूः कर्णभूषणे ।बालिका वालिका चाऽस्ति भूषणं कर्णपृष्ठगा ॥ १०६६ ॥
4.1066 · p. 164
अनुष्टुप्

* कण्ठभूषानाम *

ग्रैवेयकं कण्ठभूषा ग्रीवायाः भूषणं भवेत् ।ललन्तिका लम्बमाना हेम्ना प्रालम्बिका कृता ॥ १०६७ ॥
4.1067 · p. 164
अनुष्टुप्
मौक्तिकैश्च कृता माला स्यादुरःसूत्रिका किल ।
4.829 · p. 165
अनुष्टुप्metre not read in every line

* हारनामानि *

हारो मुक्ताप्रालम्बश्च मुक्तालता तथैव च ।मुक्तावली च मुक्तास्त्रक् मुक्ताकलाप उच्यते ॥ १०६८ ॥
4.1068 · p. 165
अनुष्टुप्metre not read in every line
देवच्छन्दः शतमिन्द्रच्छन्दः साष्टसहस्रकम् ।तस्यार्धं विजयछन्दो हारश्चाष्टोत्तरं शतम् ॥ १०६९ ॥
4.1069 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
रश्मिकलापस्तस्यार्धं द्वादशस्त्वर्धमाणवः ।चतुर्विंशत्यर्धगुच्छः पञ्च हारफलं लताः ॥ १०७० ॥
4.1070 · p. 165
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 श्मि (wrong syllable)
चतुःषष्टिरर्धहारः गुच्छः स्यात् षोडशद्वयम् ।माणवः षोडशश्चैव मन्दरोऽष्टयुतस्तथा ॥ १०७१ ॥
4.1071 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्टि (wrong syllable)
चत्वारो गोस्तनश्चैव गोपुच्छोऽपि द्विकः किल ।यष्टिभेदादिमे हाराः चतुर्युक्ता दशस्मृताः ॥ १०७२ ॥
4.1072 · p. 165
अनुष्टुप्
एकावली कण्ठिका च लतैका त्वेकयष्टिका ।कथ्यतेऽप्यत्र नक्षत्रमाला तत्सङ्ख्यमौक्तिकैः ॥ १०७३ ॥
4.1073 · p. 165
अनुष्टुप्

* केयूरनामानि *

अङ्गदं केयूरं चैव बाहुभूषा च मन्यते ।
4.836 · p. 165
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यू (wrong syllable); pāda 4, syllable 6 ति (wrong syllable)

* वलयनामानि *

अवापः पारिहार्यश्च परिहार्यः प्रतिसरः ॥ १०७४ ॥
4.1074 · p. 165
metre not recognised
कङ्कणं हस्तसूत्रं च कटकः करभूषणम् ।वलयं चेति नामानि वदन्ति विबुधाः सदा ॥ १०७५ ॥
4.1075 · p. 166
अनुष्टुप्

* ऊर्मिकानाम *

भवेदङ्गुलिभूषायामङ्गुलीयकमूर्मिका ।पुनश्च साक्षरा सापि भवत्यङ्गुलिमुद्रिका ॥ १०७६ ॥
4.1076 · p. 166
अनुष्टुप्

* कटिसूत्रनामानि *

कटीसूत्रं कलापश्च काञ्ची च कटमालिका ।रशना रसना चैव सारसनं च सप्तकी ॥ १०७७ ॥
4.1077 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)