मेदस्
medasक्ली · neut.In 15 kośas: 20 synonym verses, 1 as a nānārtha head word, 9 as a meaning of another word.
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ६१९ ॥
अनुष्टुप्
genderक्लीneut.
मेदोऽस्थिकृद्वपा मांसात्तेजोजे गौतमं वसा ॥ ६२४ ॥
अनुष्टुप्
genderक्लीneut.
बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
मस्तिष्कं मस्तकस्नेहो वपा मेदो वसा स्मृता ।अन्त्रं पुरीतत्कथितं कालखण्डं यकृन्मतम् ॥ ६३५ ॥
अनुष्टुप्
genderक्लीneut.
वल्लूरमपि वल्वूरा हृदयं हृदपि स्मृतम् ।[वुक्कं] वुक्का च वुक्की च मेदः स्यान्मेदसा सह ॥ १७३ ॥
अनुष्टुप्
genderक्लीneut.
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥ २२१ ॥
अनुष्टुप्
genderक्लीneut.
लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि ।लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् ।रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दन्तमांसे तु वेला स्त्री पूयो दूष्यं नपुंसकम् ।वसा शुद्धामिषस्नेहोऽथान्तिमे मेद-मेदसी ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
मेदो मांसस्य तेजो हि मांसजं गौतमं बसा ।कर्परं तु कपाले स्यात्पृष्ठास्थि स्यात्कशेरुका ॥ २८२ ॥
अनुष्टुप्
genderक्लीneut.
रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥
अनुष्टुप्
genderक्लीneut.
अस्थिकृन्मांसजं मेदो मांसतेजश्च गौतमम् ।तथा वपा वसा चेति मेदनामानि मन्यते ॥ १००७ ॥
अनुष्टुप्
genderक्लीneut.
वुक्का वुक्काऽग्रमांसं हृत् हृदयं वुक्क इत्यपि ।वपा वसा च मेदस्तु मेद इत्यपि कुत्रचित् ॥
अनुष्टुप्
genderक्लीneut.
वुक्काग्रमांसाग्रमांसे वृक्कः स्य्यात्पुंस्त्रिर्योर्वसा ।मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः ॥ १८९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 स्त्रि (wrong syllable); pāda 3, syllable 5 मे (wrong syllable)
genderक्लीneut.
उपस्थं वागपानं चेत्येतत्कार्मणमिन्द्रियम् ।त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
पक्षभागः पार्श्वभागो मेदः स्थूलोच्चयो गतेः ।तत् फलं त्वंसयोर्मध्यं विस्तारो गजशास्त्रकम् ॥ ७०७ ॥
अनुष्टुप्
genderक्लीneut.
मेदो वपा वसा नाडीसिराधमनयः समाः ।पश्चाद्ग्रीवासिरा मन्या किट्टं तु मलमस्त्रियाम् ॥ १११७ ॥
अनुष्टुप्
genderक्लीneut.
वाली वामांसनिलयो मेदो वारिद्र-वारुणौ ।हृ(उ)त्कारी जलसंज्ञश्च चण्डीशोऽपि व-कारकः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
बालो वामांश-खड्गीशावुत्कारी वरुणो जलम् ।लान्तश्च वारिदो मेदः सुधा धेनुर्व-कारकः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
रक्ततेजो रक्तभवं पिशितं कीनमामिषम् ।मेदस्करं च मेदस्तु पलतेजः पलोद्भवम् ॥ १०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderक्लीneut.
मेदस् as a meaning in nānārtha verses
- धरणिकोश वपारेपः स्यादधमे क्रूरे छुपः स्पर्शे क्षुपे तथा । कृपा दया कृपो व्यासो वपा विवरमेदसोः ॥ Dharaṇikośa 20.1.2
- कोषकल्पतरु वपास्रुवेऽपि शिल्पं कृतिकौशले च व्यासे कृपो द्रोणजमातुले च । स्त्रियां दयायां कुलटाह्रियोस्तु त्रपा वपा मेदसि गर्त्तके च ॥ ८ ॥ Koṣakalpataru 6.22.8
- कोषकल्पतरु धरकार्पासके स्यादपि कूलके च स्त्रियां तु गर्भाशयभूमिवाची । मेदस्यथाम्भोमुचि च क्षरः स्या- न्नीरेऽन्तिमेऽथ त्रिषु रन्ध्रभीत्योः ॥ ४ ॥ Koṣakalpataru 6.27.4
- नानार्थार्णवसंक्षेप वपारन्ध्रे मेदसि च व्रज्या वर्गे पर्यटने गतौ । वलिर्जठररेखायां जराप्रशिथिलत्वचि ॥ ९४ ॥ Nānārthārṇavasaṃkṣepa 2.1.94
- नानार्थार्णवसंक्षेप शितामसोपाने स्याद्धस्तिनखे पक्षिणामपि पञ्जरे । अथो शिताम(१) दोष्णि स्याद् योनौ यकृति मेदसि ॥ ८० ॥ Nānārthārṇavasaṃkṣepa 3.3.80
- शब्दरत्नावली लेपलेपः स्याद्भोजने लिप्तौ वयाच्छिद्रे च मेदसि । वाष्पो ना स्रेऽप्युष्मयुते शष्पं ह्रासे तृणेऽपि च ॥ Śabdaratnāvalī 7.21.12
- शब्दरत्नावली धराधरा मेदसि मेदिन्यां स्त्री गर्भाशययोषितीः । धात्री पृथिव्यामामलक्यामुपमातरि मातरि ॥ Śabdaratnāvalī 7.27.16
- तन्त्राभिधान वल-कारश्च पिनाकीश इन्द्रांशौ स्वर्बलानुजः । व-कारो वरुणो बालो मेदः खड्गीश्वरोऽजरः ॥ २६ ॥ Tantrābhidhāna 1.26
- तन्त्राभिधान ऋएकपादः शिरो माला मण्डला शान्तिनी जलम् । कर्णः कामलभा मेदो निवृत्तिर्गणनायकः ॥ २४ ॥ Tantrābhidhāna 2.8.24