मांस
māṃsaक्ली · neut.In 19 kośas: 29 synonym verses, 4 as a nānārtha head word, 24 as a meaning of another word.
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ६१९ ॥
अनुष्टुप्
genderक्लीneut.
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
पललं जाङ्गलं मांसं पलं पिशितमामिषम् ।क्रव्यं तरसमेकार्थं विस्रं स्यादामगन्धिकम् ॥ ६३१ ॥
अनुष्टुप्
genderक्लीneut.
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥ २२१ ॥
अनुष्टुप्
genderक्लीneut.
तेजस्त्वक् क्षतजन्मार्थं काश्यपं मांसजो रसः ।मांससारोप्यथो मांसं पिशितं क्रव्यमामिषम् ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
निर्यासांसोपवासानां मांसवीतंसयोरपि ।चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि ।लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् ।रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पलमांसामिषाण्यस्त्री तन्त्रादौ पिशिमाविषम्(?) ।त्रिषु वल्लूरमुत्तप्तं शष्कुली शुष्कमामिषम् ॥ ३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
विषं मिषं करीषं च रोहिषं चामिषं तथा ।आसावतंस-वीतंस-मांसमासांस-चिक्कसाः ॥ ७२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderक्लीneut.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
माषस्तु मलदो मांसं घरी बीजवरो बली ।मुद्गस्तु प्रथनो लोह्यो बलाङ्गो हरितो हरिः ॥ २०९ ॥
अनुष्टुप्
genderक्लीneut.
जाङ्गलं पिशितं मांसं पलं पेशी च तत्प्रियः ।यातुधानस्तथा रक्षो रात्र्यादिचर इष्यते ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
पललं जङ्गलं क्रव्यं मांसं स्याद्रक्तसंभवम् ।काश्यपं रक्ततेजोऽपि मेदस्कृत्तरसं तथा ॥ २७९ ॥
अनुष्टुप्
genderक्लीneut.
द्यूतं मांसं परस्त्री च सुराचौर्यपणाङ्गनाः ।पापर्धिरथ वा राज्ञां मृगयाक्षाः स्त्रियः पुनः ॥ ३५८ ॥
अनुष्टुप्
genderक्लीneut.
माषाम्बरीषयूषाः प्रत्यूषोष्णीषकोषनिर्यासाः ।आमिषवर्षकर्षमांसा मासः पनसावतंसौ च ॥ १६२ ॥
metre not recognised
genderपुंक्लीm. n.
सिंहनादो वीरनादः क्ष्वेडा विजयनिःस्वनः ।आतो मृगव्यं मृगया मांसं पललमामिषम् ॥ २४३ ॥
अनुष्टुप्
genderक्लीneut.
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥
अनुष्टुप्
genderक्लीneut.
आमिषं पिशितं मांसं काश्यपं पललं पलम् ॥ १००२ ॥
अनुष्टुप्
genderक्लीneut.
मांसहासा वर्णलक्ष्यं खेटखल्ले च कुत्रचित् ।आमिषं मांसपिशिततरसं पललं पलम् ।क्रव्यञ्च त्रिषु वल्लूरमुत्तप्तं शुष्कमांसके ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
उपस्थं वागपानं चेत्येतत्कार्मणमिन्द्रियम् ।त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
क्रिया ककुदो मांसञ्च पिनाकी भूर्बलानुजः ।लम्पटः शक्रसंज्ञश्च वायवीयो ल-कारकः ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दो (wrong syllable)
genderक्लीneut.
मुण्डी ककुद्मतो मांसं पिनाकीशो बलानुजः ।क्रियेन्द्रौ लम्पटो भूमिर्वायवीयो ल-कारकः ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
युवगण्डोऽवगण्डः स्यात्पित्तं मायुः पलङ्करः ।श्लेष्मा बलाशो मांसं तु जरूथमथ शोणितम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
आग्नेयं प्राणदं विस्रं वासिष्ठं शोणितासृजी ।मांसं तु काश्यपं क्रव्यं तरसं पललं पलम् ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.
मांसं पिशि[104]तमुद्दिष्टं मांसी तु मांसिकौषधिः ।मिसिर्मधुरिकायां स्याच्छतपुष्पा मिसिः स्मृता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
meaningsपिशित
मृगस्य स्याद्विकारादौ मांसं तु पिशिते नपि ।वाक्पतिस्तु नरेऽप्याह निर्मूलत्वादसाधु तत् ॥ ९९१ ॥
अनुष्टुप्
meaningsपिशित
मांसं स्यादामिषे क्लीबं मांसी स्यादोषधिभिदि ।मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
meaningsआमिष
मांस as a meaning in nānārtha verses
- धरणिकोश पलदलं खण्डे दलं पर्णे डुलिः स्यात्कमठी मुनौ । छलं स्यात्स्खलितं छद्म पलं सम्मानमांसयोः ॥ Dharaṇikośa 27.1.3
- धरणिकोश पललमल्लश्च सुभटे पात्रे मल्लि च कुसुमान्तरम् । पललं तिलचूर्णे च पललं मांसमुच्यते ॥ Dharaṇikośa 27.2.15
- कोषकल्पतरु कुल्यबल्यं तु रेतस्यथ भेद्यलिङ्गं कुल्यं तु न स्त्री मतमस्थिवाचि । शूर्पेऽष्टकद्रोणिगतं च मांसे पयःप्रणा[ली]सरितो नसि(?) स्त्री ॥ ३१ ॥ Koṣakalpataru 6.26.31
- कोषकल्पतरु पलस्थौल्ये तु गन्धोपलसैन्ययोश्च रूपे च षण्ढे[65a]सहसि स्त्रियां न । वाट्यालके स्त्री पलमस्त्रियां स्या- दुन्मानमांसेऽपि च सूक्ष्मकाले ॥ ४७ ॥ Koṣakalpataru 6.28.47
- कोषकल्पतरु पललचूर्णे तिलानां पललं च मांसे पङ्केऽथ ना राक्षसवाचकं स्यात् । ना पूतिकाष्ठे सरलो वदान्ये- ऽवक्रार्थको भेद्यगतः प्रदिष्टः ॥ ९८ ॥ Koṣakalpataru 6.28.98
- कोषकल्पतरु जङ्गलमांसे त्वस्त्री मङ्गलोऽस्त्री शुभे सर्वार्थरक्षणे । स्त्री गौरीसितदूर्वार्थः पुंस्यङ्गारकनामसु ॥ १७ ॥ Koṣakalpataru 6.28.17
- नानार्थार्णवसंक्षेप पलपलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना । पलं नृशण्डयोर्मांसे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.716
- नानार्थार्णवसंक्षेप रसदेवमारिषसंज्ञेऽथ कश्चिदन्यः स्म मन्यते । मांसेक्षुसुरशुक्तेषु नागे चेति पुमान् परे ॥ १०८० ॥ Nānārthārṇavasaṃkṣepa 2.5.1080
- नानार्थार्णवसंक्षेप आमिषआमिषं त्वस्त्रियां मासे तथा स्याद्भोग्यवस्तुनि । उत्कोचे च स्त्रियां तु स्यान्मासीत्याख्ये तथामिषी ॥ १८५ ॥ Nānārthārṇavasaṃkṣepa 4.185
- नानार्थार्णवसंक्षेप काश्यपकाश्यपस्य तु पुत्रे द्वे काश्यपीति स्त्रियां भुवि । क्ली तु मासेऽथ काण्डीरस्त्रिषु काण्डवति स्मृतः ॥ ४५१ ॥ Nānārthārṇavasaṃkṣepa 4.451
- नानार्थार्णवसंक्षेप गृञ्जनविषदिग्धपशोस्तु क्ली मांसे ना तु गृहस्थवाक् । द्वितीयाश्रमिणि त्रिस्तु मन्दिरस्थेऽथ पुंस्ययम् ॥ ६८१ ॥ Nānārthārṇavasaṃkṣepa 4.681
- नानार्थार्णवसंक्षेप जङ्गलमेदके कितवे तु त्रि जङ्गलस्तु त्रि निर्जले । देशे क्लीबं तु मासेऽथ जम्बुको वरुणे पुमान् ॥ ७७५ ॥ Nānārthārṇavasaṃkṣepa 4.775
- नानार्थार्णवसंक्षेप पललपललं तिलचूर्णे क्ली मासकर्दमभेदयोः । पुमांस्तु तिलकाभिख्यवृक्षेऽथो पुन्नपुंसकम् ॥ १०६६ ॥ Nānārthārṇavasaṃkṣepa 4.1066
- नानार्थार्णवसंक्षेप पिशितद्राक्षायां स्यात् पियालाथ पिशितं स्यान्नपुंसकम् । मांसे स्त्रियां तु मास्या स्यात् पिण्डिलस्तु पुमानयम् ॥ ११६५ ॥ Nānārthārṇavasaṃkṣepa 4.1165
- परमानन्दीयनाममाला तरसतलिमं कुट्टिमे तल्पे विताने तलिमं तथा । तोदनं पीडने तोत्रे तरसं बलमांसयोः ॥ २२९ ॥ Paramānandīyanāmamālā 5.15.229
- परमानन्दीयनाममाला पलपल्लिर्भिल्लादिवासे स्यात्प्रजा संतानलोकयोः । पक्तिस्तु गौरवे पाके पलं मांसे मितावपि ॥ ३०१ ॥ Paramānandīyanāmamālā 5.19.301
- परमानन्दीयनाममाला पललपर्याप्तं तु निषेधे स्याद्यथेच्छापूर्णशक्तिषु । प्रदरो रोगभीत्योः स्यात्पललं मांसपङ्कयोः ॥ ३०७ ॥ Paramānandīyanāmamālā 5.19.307
- शब्दरत्नावली पिशितपिशितं पिण्डिते मांसे गणिते च घनेऽपि च । जटामांस्यान्तु पिशिता स्त्रियामेव निगद्यते ॥ Śabdaratnāvalī 7.16.118
- शब्दरत्नावली पलनीलः पुंसि कयौ श्याम नीली रागद्रुमेऽपि च । पलन्तु मानके मांसे पल्लं स्थूलकुशूलयोः ॥ Śabdaratnāvalī 7.28.22
- शब्दरत्नावली षण्डालीषण्डाली तु सरस्यां स्त्री कामुकी तैलमांसयोः । सरलः पूतिकाष्ठे स्यादुदारवक्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.28.100
- शब्दरत्नावली यवफलभद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् । महाकालो महादेवे किम्पाके प्रथमान्तरे ॥ भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि । महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः ॥ महानीलो भृङ्गराजे मणिनागविशेषयोः । मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे ॥ मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले । भवेद्यवफलो मांसकूटजप्लक्षवेणुषु ॥ रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥ Śabdaratnāvalī 7.28.112
- शब्दरत्नाकर पलपाने स्त्री पीतिरश्वे ना पोत्रं लाङ्गलदंष्ट्रिणोः । मुखाग्रदेशेऽथ पलं मांसे कर्षचतुष्टये ॥ १९६० ॥ Śabdaratnākara 4.1.1960
- त्रिकाण्डशेष आमिषअभिलाषेऽनुतर्षः स्यात्पानेच्छायामथामिषम् । सम्भोगोत्कोचमांसेषु उषा बाणात्मजा निशा ॥ ४३५ ॥ Trikāṇḍaśeṣa 3.3.435
- वैजयन्ती पललपललं तिलचूर्णे स्यान्मांसकर्दमभेदयोः । प्रयाणं गजदृक्पूर्वप्रदेशे मरणे गतौ ॥ २१ ॥ Vaijayantī 7.3.21