कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

त्रिविष्तप

triviṣtapaक्ली · neut.

In 3 kośas: 4 synonym verses.

एते पटादयः शब्दाः पुंसि भवन्ति । अयं पटः प्रावरणः । पुटः पत्रस्य । कटस्तृणस्य । कटो गजकुम्भश्च घटः कलशः । चण्टः फलनिबन्धनम् । वाटः मार्गः । जूटः केशबन्धनम् । वटो वृक्षविशेषः । अवटः कूपः । खटः शिरसि प्रहारः । पट्टः राजप्रसादः । किराटो वणिक् । कीटः कृमिः । कूटतटशब्दौ नपुंसके भवतः । इदं कूटं द्रव्यस्थानम् । इदं तटं नदीकूटम् ।घण्टाजटासटानां प्रथमाप्रकृतिर्वसाशिफानां च ।स्वर्नाम्नां पुंयोगस्त्रिविष्टपं स्यादुभयहीनम् ॥ २९ ॥
metre not recognised
genderक्लीneut.doubtful
एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः ।संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् ।नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥
metre not recognised
genderक्लीneut.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.38 · p. 5
स्वः स्वर्गं त्रिदिवं नाकः सुरलोकस्त्रिविष्टपम् ।सुरालयश्चोर्ध्वलोको द्यौर्गौस्तविषताविषौ ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.doubtful
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.1 · p. 177
स्वर्गे स्वस्त्रिदिवोऽस्त्री द्युर्दीदिविर्दिदिविर्दिविः ।द्यो-दिवौ दिवमित्युक्तं त्रिविष्टप-त्रिविष्टपे ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
genderक्लीneut.doubtful