कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāradīyākhyanāmamālā

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā

462 verses · 4,677 words tagged · 226 marked doubtful (dashed)

प्रथमः काण्डः · देववर्गः

वाग्देवी शारदा ब्राह्मी भारती गीः सरस्वती ।हंसयाना ब्रह्मपुत्री सा सदा वरदास्तु नः ॥ २ ॥
1.1.2 · p. 1
अनुष्टुप्
विनायकः पर्शुपाणिर्विघ्नराजो गजाननः ।द्वैमातुर एकदन्तो लम्बोदरगणाधिपौ ॥ ३ ॥
1.1.3 · p. 1
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र (wrong syllable)
गौरीसुतश्च हेरम्बस्तथा मूषकवाहनः ।कार्यारम्भेषु सर्वेषु सिद्धिबुद्धिप्रदोऽस्तु सः ॥ ४ ॥
1.1.4 · p. 1
अनुष्टुप्
परमात्मा परब्रह्म परं ज्योतिरगोचरः ।निरञ्जनश्चिरानन्दः परमः परमेश्वरः ॥ ५ ॥
1.1.5 · p. 1
अनुष्टुप्
देवाधिदेवः सर्वज्ञो वीतरागो जिनेश्वरः ।तीर्थंकरो जगन्नाथो जिनोऽर्हन्भगवान्प्रभुः ॥ ६ ॥
1.1.6 · p. 1
अनुष्टुप्
सुगतः श्रीघनो बुद्धो बोधिसत्त्वस्तथागतः ।द्वयवादी दशबलो जिनः सौ[शौ]द्धोदनिर्मुनिः ॥ ७ ॥
1.1.7 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ब्रह्मा प्रजापतिः स्रष्टा विधिर्वेधाः पितामहः ।हिरण्यगर्भो द्रुहिणः परमेष्ठी चतुर्मुखः ॥ ८ ॥
1.1.8 · p. 2
अनुष्टुप्
धाता विधाता लोकेशो विरञ्चिर्विश्वसृड्ध्रुवः ।सुरज्येष्ठः कमलभूः स्वयंभूर्नाभिभूरजः ॥ ९ ॥
1.1.9 · p. 2
अनुष्टुप्
पद्मनाभादियोनिः क आत्मभूः कमलासनः ।तत्पुत्रो नारदो वीणायुतो हंसश्च वाहनः ॥ १० ॥
1.1.10 · p. 2
अनुष्टुप्
श्रीपतिः केशवः कृष्णो गोविन्दो माधवोऽच्युतः ।दामोदरो दैत्यरिपुर्विष्णुर्नारायणो हरिः ॥ ११ ॥
1.1.11 · p. 2
अनुष्टुप्
जनार्दनश्चक्रपाणिर्वासुदेवश्चतुर्भुजः ।उपेन्द्रः पुण्डरीकाक्षो मुरारिः पुरुषोत्तमः ॥ १२ ॥
1.1.12 · p. 2
अनुष्टुप्
पीताम्बरः पद्मनाभो मुकुन्दो मधुसूदनः ।विश्वंभरो विश्वरूपो विश्व[ष्व]क्सेनो वृषाकपिः ॥ १३ ॥
1.1.13 · p. 2
metre not recognisednearly अनुष्टुप्
यदुनाथो हृषीकेशः शौरिः श्रीवत्सलाञ्छनः ।वैकुण्ठ इन्द्रावरजो वनमाली त्रिविक्रमः ॥ १४ ॥
1.1.14 · p. 2
अनुष्टुप्
अब्धिशायी शेषशायी श्रीधरो गरुडध्वजः ।जलशायी यज्ञमूर्त्यः[र्तिः] पुराणपुरुषः स्वभूः ॥ १५ ॥
1.1.15 · p. 2
metre not recognisednearly अनुष्टुप्
अधोक्षजः कैटभजिद्बलिभिद्विष्टरश्रवाः ।देवकीनन्दनः शार्ङ्गी कंसारिर्नरकान्तकृत् ॥ १६ ॥
1.1.16 · p. 2
अनुष्टुप्
गदाधरश्चक्रधरो गोवर्धनधरो विधुः ।गोपीप्रियो गिरिधरः श्यामो गरुडवाहनः ॥ १७ ॥
1.1.17 · p. 3
अनुष्टुप्
यशोदातनयो राधावल्लभो नन्दनन्दनः ।विठ्ठलो मोहनः कुञ्जविहारी द्वारकेश्वरः ॥ १८ ॥
1.1.18 · p. 3
अनुष्टुप्
महेश्वरो महादेवः श्रीकण्ठः शंकरः शिवः ।उग्रः शूली मृडः शंभुस्त्र्यम्बकश्चन्द्रशेखरः ॥ १९ ॥
1.1.19 · p. 3
अनुष्टुप्
रुद्रस्त्रिलोचनः शर्वः स्थाणुर्गङ्गाधरो हरः ।ईशान ईशो गिरिशो गिरीशः प्रमथाधिपः ॥ २० ॥
1.1.20 · p. 3
अनुष्टुप्
मृत्युंजयः पशुपतिः कृत्तिवासाः कपालभृत् ।वामदेवो भवो भर्गः पिनाकी वृषभध्वजः ॥ २१ ॥
1.1.21 · p. 3
अनुष्टुप्
व्योमकेशः क्रतुध्वंसी भूतनाथ उमापतिः ।अष्टमूर्तिर्नीलकण्ठः पुरभिन्नीललोहितः ॥ २२ ॥
1.1.22 · p. 3
अनुष्टुप्
षण्ढः कपर्दी सर्वज्ञो धूर्जटिस्त्रिपुरान्तकः ।कृशानुरेता दिग्वासा अन्धकारिविषान्तकृत् ॥ २३ ॥
1.1.23 · p. 3
अनुष्टुप्
ष[ख]ण्डपर्शुर्विरूपाक्षो वरदो भाललोचनः ।इन्दुमौलिः स्मरारिश्च भीमो वृषभवाहनः ॥ २४ ॥
1.1.24 · p. 3
अनुष्टुप्
रुद्राणी चण्डिका चण्डी मृडानी मैनाकस्वसा ।अपर्णार्या सती देवी गिरिजा सर्वमङ्गला ॥ २७ ॥
1.1.27 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ना (wrong syllable)
दाक्षायणी च शर्वाणी महामाया महेश्वरी ।भैरवी भूतनाथा च शंकरी सिंहवाहना ॥ २८ ॥
1.1.28 · p. 4
अनुष्टुप्
अनङ्गो मदनः कामो मारः पञ्चशरः स्मरः ।मनोभवो रतिपतिर्मन्मथो मकरध्वजः ॥ २९ ॥
1.1.29 · p. 4
अनुष्टुप्
पुष्पधन्वा मनसिजः कन्दर्पो विषमायुधः ।सम्बरारिः सूर्पकारिर्दर्पको मीनकेतनः ॥ ३० ॥
1.1.30 · p. 4
अनुष्टुप्
अनन्यजो मधुसखः प्रद्युम्नः कुसुमायुधः ।शृङ्गारयोनिः पुष्पेषुः संकल्पात्मा रमासुतः ॥ ३१ ॥
1.1.31 · p. 4
अनुष्टुप्
हृच्छयः कमनः कन्तुर्जराभीरुश्च तच्छराः ।मोहनोन्मादनौ शोषणश्च तापनमारणौ ॥ ३२ ॥
1.1.32 · p. 4
अनुष्टुप्
कार्त्तिकेयो गुहः स्कन्दः सेनानीः पार्वतीसुतः ।षाण्मातुरो महासेनः षण्मुखः शिखिवाहनः ॥ ३३ ॥
1.1.33 · p. 4
अनुष्टुप्
शरजन्माग्निभूः स्वामी विशाखः क्रौञ्चभेदनः ।तारकारिः शक्तिधरः कुमारो बहुलात्मजः ॥ ३४ ॥
1.1.34 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
विबुधा देवता देवास्त्रिदशा निर्जराः सुराः ।आदित्या मरुतो लेखा निलिम्पा नाकिनोऽमराः ॥ ३५ ॥
1.1.35 · p. 5
अनुष्टुप्
वृन्दारकाः सुमनसः सुपर्वाणः सुधाभुजः ।त्रिदिवेशा आदितेया अमर्त्या दानवारयः ॥ ३६ ॥
1.1.36 · p. 5
अनुष्टुप्
दिवौकसो दिविषदो गीर्वाणा अमृतान्धसः ।अस्वप्ना ऋभवो बर्हिर्मुखाः क्रतुभुजोऽरुजः ॥ ३७ ॥
1.1.37 · p. 5
अनुष्टुप्
स्वः स्वर्गं त्रिदिवं नाकः सुरलोकस्त्रिविष्टपम् ।सुरालयश्चोर्ध्वलोको द्यौर्गौस्तविषताविषौ ॥ ३८ ॥
1.1.38 · p. 5
अनुष्टुप्
इन्द्रः पुरंदरः शक्रो वासवः पाकशासनः ।संक्रन्दनः सहस्राक्षः सुत्रामा मघवा वृषा ॥ ३९ ॥
1.1.39 · p. 5
अनुष्टुप्
आखण्डलः सुनासीरः पुरुहूतः शतक्रतुः ।दिवस्पतिर्दुश्च[श्च्य]वनो जम्भारातिः शचीपतिः ॥ ४० ॥
1.1.40 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जिष्णुर्वृद्धश्रवा वज्री बिडौजा नाकनायकः ।बलारातिः सुरपतिर्मरुत्वान्मेघवाहनः ॥ ४१ ॥
1.1.41 · p. 5
अनुष्टुप्
प्राचीनबर्हिर्मघवाञ्शतमन्युः सुरर्षभः ।ऋभुक्षा नमुचिद्विट् च वृत्रहा कौशिको हरिः ॥ ४२ ॥
1.1.42 · p. 5
अनुष्टुप्
वास्तोष्पतिस्तुराषाट् च पुलोमारिर्मरुत्सखः ।गोत्रभेदी हरिहयो देवराजोऽस्य तु प्रिया ॥ ४३ ॥
1.1.43 · p. 5
अनुष्टुप्
पुलोमजा शचीन्द्राणी पीयूषममृतं सुधा ।हाहा हूहूश्च गन्धर्वो विश्वकर्मा तु शिल्पिकृत् ॥ ४४ ॥
1.1.44 · p. 6
अनुष्टुप्
सुतो जयन्तः प्रासादो वैजयन्तोऽमरावती ।पुरी सभा सुधर्मा च मातलिः सारथिर्हरेः ॥ ४५ ॥
1.1.45 · p. 6
अनुष्टुप्
ऐरावतो गजो वज्रमायुधं नन्दनं वनम् ।उच्चैःश्रवा हयो यानं विमानं व्योमगामि च ॥ ४६ ॥
1.1.46 · p. 6
अनुष्टुप्
द्वारपालो देवनन्दी बृहस्पतिः पुरोहितः ।स्वर्वैद्यावश्विनीपुत्रौ नारदाद्याः सुरर्षयः ॥ ४७ ॥
1.1.47 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्प (wrong syllable)
घृताची मेनका रम्भा मञ्जुघोषा तिलोत्तमा ।उर्वशी च सुकेशी चेत्याद्या अप्सरसः स्मृताः ॥ ४८ ॥
1.1.48 · p. 6
अनुष्टुप्
संतानः पारिजातश्च कल्पश्च हरिचन्दनः ।मन्दारश्चेति देवानां वृक्षाः पञ्च बुधैः स्मृताः ॥ ४९ ॥
1.1.49 · p. 6
अनुष्टुप्
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ५० ॥
1.1.50 · p. 6
अनुष्टुप्
कुबेरो धनदः श्रीदो यक्षराजो धनाधिपः ।किंनरेशो राजराजः पौलस्त्यो गुह्यकेश्वरः ॥ ५१ ॥
1.1.51 · p. 6
अनुष्टुप्
ऐलविलः शंभुसखः कुहः पुण्यजनेश्वरः ।एकपिङ्गो वैश्रवणो निधीशो नरवाहनः ॥ ५२ ॥
1.1.52 · p. 6
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ल (wrong syllable); pāda 3, syllable 5 वै (wrong syllable)
मनुष्यधर्मा कैलासनाथः किंपुरुषाधिपः ।उत्तराशापतिः शक्रकोशाध्यक्षोऽलकापतिः ॥ ५३ ॥
1.1.53 · p. 7
अनुष्टुप्
वरुणः पाशभृच्चैव प्रचेता अब्धिमन्दिरः ।यादःपतिर्जलपतिः पाशी पश्चिमदिक्पतिः ॥ ५४ ॥
1.1.54 · p. 7
अनुष्टुप्
यमः कृतान्तः शमनो धर्मराजः परेतराट् ।समवर्ती श्राद्धदेवः कालः सूर्यसुतोऽन्तकः ॥ ५५ ॥
1.1.55 · p. 7
अनुष्टुप्
यमराजः पितृपतिर्मृत्युर्दक्षिणदिक्पतिः ।कीनाशो यमुनाभ्राता दण्डभृन्माहिषध्वजः ॥ ५६ ॥
1.1.56 · p. 7
अनुष्टुप्
असुरा दानवा दैत्याः शुक्रशिष्याः सुरद्विषः ।पूर्वदेवा दितिसुता दैत्येन्द्रा दनुजा अपि ॥ ५७ ॥
1.1.57 · p. 7
अनुष्टुप्
असुरा राक्षसा जातुधाना रक्षांसि नैर्ऋताः ।रात्रिंचराः पुण्यजनाः पलादाश्रपरक्तपाः ॥ ५८ ॥
1.1.58 · p. 7
अनुष्टुप्