कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अरि

ariपुं · masc.

In 22 kośas: 35 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.729 · p. 30
षण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः ।शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८ ॥दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः ।दुर्हृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती ॥ ७२९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.544 · p. 31
रथाङ्गं रथपादोऽरि चक्रं धारा पुनः प्रधिः ॥ ७५५ ॥नेमिरक्षाग्रकीले त्वण्याणी नाभिस्तु पिण्डिका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.63 · p. 3
सहायसाप्तपदीनौ सख्यावसुहृदप्यरौ ॥ ६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.11
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.455 · p. 52
अभियातिररातिरमित्ररिपू,प्रतिपक्षविपक्षविरोध्यरयः ।अहितोऽसहनश्च जिघांसुरिति,प्रथिताः परिपन्थिपरासुहृदः ॥ ४५५ ॥
तोटकम्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.44 · p. 3
अरिः षष्ठं विपक्षं च द्वेष्यः शत्रुश्च षट् द्विषन् ।विरोधी वैरिसंज्ञं च षट्कोणं चैव सप्तकं ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.19 · p. 91
स्थापत्यः सौविदोऽथ स्याद्भृत्यो भृतक इत्यपि ।सेवकोर्थानुजीवी स्याद्वैर्यरिर्द्वेषणो द्विषत् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.98 · p. 99
विजिगीषुः सप्तमः स्यात्पञ्चत्वस्तादयो मताः ।अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.100 · p. 100
विजिगीषुररिर्मित्रं पार्ष्णिग्राहश्च मध्यमः ।उदासीनात्पुलोमेन्द्रौ षट्कं मण्डलमूचतुः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.135 · p. 104
चक्रं पुमानरिर्द्धारानेमी स्त्री नेमिरित्यपि ।प्रधिरस्त्री द्वयोराणिः स्त्रियामाणीति चाप्यणी ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.309 · p. 283
मरुजः सारखदिरः कालस्कन्धोऽपि गोरटः ।बहुसारः पत्रतरुरम्भोजारिररिः स्त्रियाम् ॥ ३०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.31 · p. 454
सुनाभं पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः ।अन्यः स्यमन्तकः शार्ङ्गं धनुः कौमोदकी गदा ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.48 · p. 466
निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः ।रथाशनिश्वेतकण्टकफासीनामरेरपि ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.55 · p. 125
कपाटी च कवाटी च त्रिषु स्यादररी न ना ।अरिः स्त्रियामथैतस्य विष्कम्भिन्यर्गलस्त्रिषु ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 248
प्रत्यर्थी प्रत्यवस्थाता प्रतिपक्षः परोऽप्यरिः ।दस्युः सपत्नोऽसहनो विरोद्ध्रररु-दुर्हृदः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.78 · p. 261
तदा दृढधुराथाक्षो दृढधूरेव सम्मतः ।रथपादौ रथ्यमरि रथाङ्गं चक्रमस्त्रियाम् ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 265
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः ।संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् ।नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥
metre not recognised
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.161 · p. 28
शत्रुर्दस्युरमित्रोऽरिररातिरहितो द्विषत् ।द्वेषणः प्रत्यनीको द्विड्जिघांसुर्हिंसनो रिपुः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 44 · p. 22
वैर्यारातिरमित्रोऽरिर्द्विट् सपत्नो द्विषद्रिपुः ।भ्रातृव्यो दुर्जनः शत्रुर्दुष्टो द्वेषी खलोऽहितः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.349 · p. 145
घट्टशुल्कावुभौ तुल्यौ अरिशत्रू द्विषन्रिपुः ।विपक्षोऽसहनो दस्युर्द्विड्द्वेषी शात्रवोऽपि च ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.370 · p. 147
पाण्डुकम्बलसंवीते पाण्डुकम्बलिसंज्ञकः ।रथाङ्गं रथपादोऽरि चक्रं धारास्य तु प्रधिः ॥ ३७० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.6 · p. 211
हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः ।स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.260 · p. 58
शत्रौ विपक्षो दस्युश्च द्विषन्द्वेषण इत्यपि ।अभियातिः परोऽरिश्च प्रत्यर्थी चाभियातिथिः(भिः?) ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.31 · p. 3
शत्रुर्वैरी सपत्नोऽरिर्द्वेषणो दुर्हृदो द्विषत् ।द्विट्विपक्षोऽहितोऽराति[भि]रमित्रं सख्यहा रिपुः ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 भि]र (syllable split)
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.21 · p. 43
दस्युः शत्रुरमित्रारिररातिरहितो द्विषत् ।प्रत्यर्थी प्रत्यवस्थाता दूषणः शात्रवः परः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.20 · p. 36
अरिर्वैरी रिपुः शत्रुर्विपक्षो द्विट् द्विषत्परः ।प्रत्यर्थी प्रत्यवस्थाता सपत्नः शात्रवोऽहितः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1009 · p. 186
अरिर्वैरी जिघांसुश्च रिपोर्नामानि मन्यते ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.169 · p. 123
स पाष्णिग्राह इत्येवं पार्ष्णिग्राहक इत्यपि ।अथ शत्रुः सपत्नोऽरिर्विपक्षो द्वेषणो द्विषन् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.276 · p. 129
अरिश्चक्रं रथाङ्गञ्च रथचक्रे निगद्यते ।चक्रप्रान्ते प्रधिः पुंसि नेमिर्नेमी च सा स्मृता ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1283 · p. 156
विमताहितशात्रववैरिरिपुद्विषतो द्विडरात्यभिधात्यरयः ।प्रत्यनीकप्रतिद्वन्द्विप्रत्यवस्थातृदस्यवः ।द्वेष्यानिष्टप्रतिस्पर्धिप्रत्यवस्कन्दिनोऽपि च ॥ १२८३ ॥
तोटकम्two metres in one verse
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.48 · p. 69
नन्दीघोषोऽर्जुनरथो नीतिधोषस्तु गीष्पतेः ।चङ्कुरं घोरणं यानमात्रे चक्रं त्वरि स्मृतम् ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.40 · p. 107
उदासीनः परस्तस्मात् पार्ष्णिग्राहस्तु पृष्ठतः ।शत्रुर्दस्युमित्रारी अरातिरहितो द्विषन् ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श (syllables merged)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.134 · p. 115
अस्योच्चूडावचूडौ द्वावूर्ध्वाधोमुखचूडकौ ।अरि चक्रं रथपदं रथांगं केशवायुधम् ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.97 · p. 302
अरिस्तु शत्रौ चरमे तु चक्रेकरस्तु वर्षोपलपाणिवाची ।मयूखशुण्डानृपदेयभागेचरः स्पशे जङ्गमके चले च ॥ ९७ ॥
उपेन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.52 · p. 47
अरिस्तु शत्रौ ना द्वे तु मनुष्येऽथ त्रिरीश्वरे ।अञ्जिः शेफे पुमान्नागकेसराह्वयपादपे ॥ ५२ ॥
अनुष्टुप्

अरि as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् वृत्रध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ १६४ ॥ Amarakośa 3.3.164
  • धरणिकोश वृत्रछत्रा मधुरिका छत्रं धन्याके चातपत्रके । वृत्राः पर्वतमेघेन्द्रा वृत्रा ध्वान्तारिदानवाः ॥ Dharaṇikośa 26.2.20
  • कोषकल्पतरु केतुकुमारके देवलके च नाथ केतुः पुमान्केतनरुग्ग्रहेषु । उत्पातलक्ष्मारिषु चाथ सेतुः पुंस्यावलौ स्याद्वरुणेऽपि तद्वत् ॥ १६ ॥ Koṣakalpataru 6.16.16
  • कोषकल्पतरु छित्वरकट्वरस्तक्रके कुत्सिते वाच्यवत् चत्वरं स्थण्डिले चाङ्गनेऽध्वश्लिषि । कर्बरो द्वीपिनि स्यात्तथा राक्षसे छित्वरश्छेदनद्रव्यधूर्त्तारिषु ॥ २९ ॥ Koṣakalpataru 6.27.29
  • शब्दरत्नावली भूतक्लीबं त्रिषु चिते प्राप्ते वृत्ते सत्ये समेऽपि च । पुमान् कुमारयोगीन्द्रदेवयोन्यरेषु च ॥ Śabdaratnāvalī 7.16.35
  • शब्दरत्नाकर परपुङ्खः श्येने शराङ्गे च पविर्वज्रसमीरयोः । पशुरज्ञगवाद्योः स्यात् परोऽरिपरमात्मनोः ॥ १९५७ ॥ Śabdaratnākara 4.1.1957
  • वैजयन्ती परपरं दूरान्यमुख्येषु परोऽरिपरमात्मनोः । पार्ष्णिरुन्मत्तनार्यां स्त्री पादग्रंथेरधोऽपि च ॥ ४९ ॥ Vaijayantī 6.5.49