कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गो

goस्त्री · fem.

In 25 kośas: 88 synonym verses, 21 as a nānārtha head word, 88 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.1 · p. 7
स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः ॥ ८७ ॥देवाः सुपर्वसुरनिर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः ॥ ८८ ॥गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः ।
आर्या
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.100 · p. 8
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.241 · p. 14
वाग्ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती ।श्रुतदेवी वचनं तु व्याहारो भाषितं वचः ॥ २४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1 · p. 37
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा ।धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ॥ ९३५ ॥क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही ।गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ ॥सर्वंसहा रत्नगर्भा जगती मेदिनी रसा ।काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ९३७ ॥विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1257 · p. 48
गर्दभस्तु चिरमेही वालेयो रासभः खरः ।चक्रीवाञ्शङ्कुकर्णोऽथ ऋषभो वृषभो वृषः ॥ १२५६ ॥वाडवेयः सौरभैयो भद्रः शक्वरशाक्वरौ ।उक्षानड्वान्ककुद्मान्गौर्बलीवर्दश्च शांकरः ॥ १२५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.78 · p. 49
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी ।उस्राघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुह्युषा ॥ ॥ १२६५ ॥तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा ।
अनुष्टुप्doubled daṇḍa: ॥ ॥
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.1
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.104
त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा ।उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.66
माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.3 · p. 1
स्वः स्वर्गः सुरसद्म त्रिदशावासस्त्रिविष्टपं त्रिदिवम् ।द्यौर्गौरमर्त्यभुवनं नाकः स्यादूर्ध्वलोकश्च ॥ ३ ॥
आर्या
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.8 · p. 2
वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ।ओङ्कारः प्रणवः प्रोक्तस्त्रयो वेदास्त्रयी स्मृताः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.39 · p. 6
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
स्वागता
genderपुंस्त्रीm. f.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.56 · p. 8
पविरशनिः शतधारं वज्रं कुलिशं च भवति दम्भोलिः ।गौर्भिदुरं व्याधामः स्वरुरिन्द्रप्रहरणं तथा शम्बः ॥ ५६ ॥
गीतिः
genderपुंस्त्रीm. f.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.156 · p. 20
भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.263 · p. 32
उक्षानड्वान्वलीवर्दः ककुद्मान्वृषभो वृषः ।ऋषभः सौरभेयो गौर्वाडवेयोऽथ शाक्वरः ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.268 · p. 32
अघ्न्या गौर्माहेयी सुरभिर्बहुला च सौरभेयी च ।उस्रार्जुनी च रोहिण्युक्तानडुही बुधैरनड्वाही ॥ २६८ ॥
गीतिः
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.324 · p. 95
करेणुका करिण्यां स्याद्वमथुः करशीकरः ।सौरभेयी शृङ्गिणी गौः शुभार्धा लम्बिका मही ॥ ३२४ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.326 · p. 95
उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वसी ।गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।छागो रङ्गस्तु छगणो लम्बकर्णः स्तबः पशुः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 60 · p. 6
माहेयी वीरमाता च शुभा वञ्जुलिकापि च ।गौ रोहिणी महार्घ्या च सरसा नैचिकीति च ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.26 · p. 2
गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा ।शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.36 · p. 2
अजक्रियो मेषसंज्ञा प्रोक्ता बुधैश्च गोवृषम् ।मिथुनो वैणिको युग्मो प्रोक्तो कर्कश्व कीटकः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नृचतुष्पदजलकीटसरीसृपसंज्ञा Gaṇitanāmamālā 30.115 · p. 7
गोसिंहाजमृगाद्यर्द्धं धनुरन्त्यं चतुष्पदा ।कीटस्तु कर्कटो राशिर्वृश्चिकोऽपि सरीसृपः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.5 · p. 26
गौमयी शुभार्घ्या सा बहुक्षीरा तु वञ्जुला ।समांसमीना सा गौर्या प्रतिवर्षं प्रसूयते ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.14 · p. 2
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.146 · p. 36
ज्योतिश्च देवदीपो ना रूपपर्यायतो ग्रहः ।अस्त्रियामीक्षणं नेत्रं स्त्रियां दृष्टिश्च गौरपि ॥ १४६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.439 · p. 181
गौरनड्वान् सौरभेयः ककुद्मान् पुंगवो वृषा ।उक्षा भद्रो वलीवर्दः शष्करिर्गन्धमैथुनः ॥ ४३९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.456 · p. 183
शृङ्गी शृङ्गिश्च माहेयी पुनरघ्न्या च गौः स्त्रियाम् ।कर्वुरा पाटला श्वेता शवली च निलिम्पिका ॥ ४५६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.22 · p. 320
खड्गो वाध्रीणसः क्रोडी मालशृङ्गो वलीत्यपि ।खड्गी शूरोऽप्यथोष्ट्रोग्रे प्रोक्तो गौर्महिषोऽपि च ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.7 · p. 344
स्त्रियां तृप्तिरिरापः स्त्री भूम्नि पुंसि रसो द्वयोः ।गौः क्लीबे प्राणदं क्षीरं वाश्चापि सलिलं जलम् ॥ ७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.13 · p. 345
काण्डोऽस्त्रियां घनरसो नरा नारा अपि स्त्रियाम् ।भूम्नि गावः स्त्रियां भूम्नि गौः स्त्रियामपि सर्वतः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.38 · p. 384
वैजयन्तौ तु प्रासादध्वजौ वज्रोऽस्त्रियां पुनः ।गिरिकण्टकपर्यायः शतकोटिश्च गौः पुमान् ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.2 · p. 436
मिहिरोऽर्कोंशुमानद्रिर्हरिर्हेलिर्विरोचनः ।गौर्द्यौर्भगः पुनस्त्वष्टा ग्रहमुट् किरणः खगः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.19 · p. 438
रोचिः शोचिः पुनश्चार्चिर्न ना पृश्निः शुचिश्च सा ।गौर्मरीचिर्नोमनिधिर्मृगतृष्णा मरीचिका ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्नो (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.25 · p. 441
अपि स्याद्गीर्गिरा वाक् च स्त्रियां लापः पुमानयम् ।स्याद्वादरेला धिषणा गौर्जूः श्रीः पद्मलाञ्छना ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.1 · p. 7
स्वर्गोर्गौस्तविषवरो हताविषोर्ध्व-लोकाः स्युः सुरनिलयः सुपर्वलोकः ।पुंसि स्याद्रमति भुतिर्युतोऽप्यृभुक्षोनाकोऽस्त्री त्रिदिवयुतो दिवा सह द्यौः ॥ १ ॥
प्रहर्षिणी
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.109 · p. 19
भिदुरं चरमे भिद्रं गौः पेषिर्ह्रादिनी च सा ।भिदुर्ना कुलिशेन स्यान्निवृत्ते कौलिशायनिः ॥ १०९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.44 · p. 31
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
मालिनीmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.55 · p. 59
ब्राह्मी भाषा ब्राह्मणी गौर्गिरा गीर्-वाणी वाचा वाक्सरस्वत्यपीडा ।भारत्युक्ता शारदा शब्ददेवीभेद्याधीनं वाङ्मयं तद्विकारे ॥ ५५ ॥
शालिनी
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.3 · p. 113
भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धराभूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा ।गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा-ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.47 · p. 147
गुन्द्रा गोविन्दिनी गौरी गौः प्रियङ्गुश्च विन्दिनी ।गन्धप्रियङ्गुः फलिनी फली च प्रियकश्च सः ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 284
वृषः ककुद्मानृषभोऽप्यनड्वान्स्याद्वाडवेयो वृषभश्च भद्रः ।गौः सौरभेयो वहतुश्च धाको-ऽप्युक्षा बलीवर्द इहापि शक्वा ॥ २८ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.40 · p. 285
नाथस्तु नासारज्जुर्या सास्ना तु गलकम्बलः ।गौरुस्राध्न्याप्यनड्वाही माता माहानडुह्यपि ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.19 · p. 109
genderपुंस्त्रीm. f.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderपुंस्त्रीm. f.
एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः ।
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.84 · p. 18
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.90 · p. 19
आपीनमूधो वृन्तस्तु स्तनो वत्सस्तु तर्णकः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वशी ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 6 · p. 3
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 45 · p. 23
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 163 · p. 78
शृङ्गो दृतिहरिर्नाथहरिस्तिर्यक्च शृङ्गिणः ।गौश्चतुष्पात्पशुः तत्र महिषी नाम देहिका ॥ १६३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.27 · p. 9
सरस्वती श्रुतदेवी ब्राह्मी गौर्गीश्च भारती ।भाषा वाणी तु वाग्वाक्यं व्याहारवचने वचः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.48 · p. 11
स्वर्गः फलोदयो मेरुपृष्ठं तविषताविषौ ।त्रिविष्टपं भुविर्गौः स्वः द्योदिवौ त्रिदिवं मतम् ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.228 · p. 33
पृथ्वी पर्वताधारा गौर्या सागरमेखला ।सर्वंसहा धरित्री च क्ष्मानन्ता धरणी तथा ॥ २२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 पृ (syllables merged)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.166 · p. 72
अनङ्वान्वाडवेयोऽपि उक्षा शक्करशाक्करौ ।सौरभेयः ककुद्मांश्च भद्रो गौः शाङ्करस्तथा ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.174 · p. 73
सुरभिः सौरभेयी तु माहेयी गौस्तथार्जुनी ।निलिम्पा शृङ्गिणी चोषानङ्वाह्यनडुही समा ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.117 · p. 225
एर्वारुः काकुकिष्कू च गवेधुर्बाहुना सह ।राभागौरेवमाद्याः स्युः शब्दाः पुंसि स्त्रिया(8)मपि ॥ ११७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.487 · p. 88
गवीनं चाथ वृषभे तूक्षा गौः सौरभेयकः ।गव्या गोत्रा चौक्षकं च गोवृन्दे वात्सकं त्विह ॥ ४८७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.496 · p. 89
गोजातीयस्त्रियां प्रोक्ता माहेयी शृङ्गिणी च गौः ।अघ्न्या माहा रोहिणी च सौरभेयापि(य्यपि?) चार्जुनी ॥ ४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.3 · p. 1
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.129 · p. 9
उक्षा वृषो बलीवर्द्दो वृषभो गौर्विषाणभृत् ।धेनुर्गौः सुरभिर्गृष्टिर्वत्सकस्तर्णकोऽर्णकः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.38 · p. 5
स्वः स्वर्गं त्रिदिवं नाकः सुरलोकस्त्रिविष्टपम् ।सुरालयश्चोर्ध्वलोको द्यौर्गौस्तविषताविषौ ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.71 · p. 9
पादो गभस्तिरुस्रो गौर्ज्योतिर्धामांशुरश्मयः ।अर्चिः पृष्णिर्घृणिस्तेजो भाः प्रभा त्विट् छविर्द्युतिः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.107 · p. 12
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.160 · p. 17
अयनं सरणिः पथ्या रथ्या वीथी च संचरः ।उक्षा गौर्वृषभोऽनड्वान्भद्रः शार्करशर्करौ ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.161 · p. 18
बलीवर्दः सौरभेयः ककुद्माञ्शांकरो वृषः ।सुरभिर्गौरनड्वाही सौरभेयी च रोहिणी ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.65 · p. 11
स्वर्गस्त्रिविष्टपं नाको देवलोकः सुरालयः ।त्रिदिवमूर्ध्वलोको गौर्द्योदिवौ द्युश्व दीदिविः ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.342 · p. 45
देवी सरस्वती ब्राह्मी श्रुतदेवी च भारती ।वाग्गीर्वाणी तथा गौश्च भाषा च वचनं तु वै ॥ ३४२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1589 · p. 255
गोत्रा सागरनेमी च गोत्रकीला जगद्वहा ।अवनिश्चावनी गोर्गौः बीजसूः रत्नसूस्तथा ॥ १५८९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2270 · p. 369
ककुद्मान् वाडवेयो गौश्चेति नामानि सन्ति वै ।उक्षा यस्य समुत्पन्नः स जातोक्षो युवा वृषः ॥ २२७० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2282 · p. 371
अर्जुनी रोहिणी गौश्च शृङ्गिणी सुरभिस्तथा ।उस्राऽघ्न्या सौरभेया च तम्बा तम्पा निलिम्पिका ॥ २२८२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.117 · p. 9
अस्त्रियौ वज्रकुलिशौ भिदुरं भिदिकञ्च गौः ।द्वयोरशनिरभ्रोत्थं मेघभूतिर्गिरिज्वरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.170 · p. 12
दिक् दिशा स्यात् ककुप् काष्ठा ककुभा हरिता हरित् ।आशा गौरिति शब्दाः स्युः स्त्रियां दिग्वाचका अमी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.5 · p. 46
अचलाऽचलकीला गौरब्धिद्वीपा द्विरा स्थिरा ।इडा स्यादिडिका चेति इला स्यादिलिकेति च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.131 · p. 146
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.8 · p. 308
नदी सरित् शैवलिनी वाणी गीर्गोश्च वागपि ।वीणा विपञ्ची दिक्ककुप् स्याद्भूर्भूमिरवणि क्षितिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.309 · p. 243
शृङ्गं शृङ्गः शृङ्गी विषाणोक्ता विषाण्यपि ।विषाणं विपाणो गव्यां गौर्द्वयोरनुडुह्यहो ॥ ३०९ ॥
metre not recognised
genderपुंस्त्रीm. f.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.12 · p. 2
ब्राह्मी गौर्भारती भाषा वाग्वाणी गीः सरस्वती ।मरीचिरङ्गिरा दक्षः पुलस्त्यः पुलहः क्रतुः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.73 · p. 10
वज्रोऽस्त्री शतकोटिस्वरुपविदम्भोलिशम्बनिर्घाताः ।कुलिशं भिदुरं ह्रादिन्यशनि गौरुभे द्वयोः ॥ ७३ ॥
metre not recognised
genderपुंस्त्रीm. f.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.169 · p. 23
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.366 · p. 49
भूर्भूमिर्वसुधा मही वसुमती विश्वंभरा मेदिनीगोत्रा गौर्धरणी समुद्ररशना सर्वंसहोर्वी क्षमा ।पृथ्वी क्ष्मा पृथिवी रसा क्षितिरिलानन्ताचला काश्यपीक्षोणी ज्या जगती स्थिरा कुरुवनी धात्री धरित्री धरा ॥ ३६६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.749 · p. 95
शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः ।अर्जुन्यघ्न्या रोहिणी सौरभेयीमाहेय्युस्रा शृङ्गिणी गौश्च माता ।गव्या गोत्रा गोगणे वत्सधेन्वो-र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥
अनुष्टुप्two metres in one verse
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.758 · p. 97
ऋषभस्तु बलीवर्दः पुंगवो वृषभो वृषः ।उक्षा भद्रः ककुद्मान् गौः सौरभेयश्च शाक्वरः ॥ ७५८ ॥
अनुष्टुप्
genderपुंmasc.
गः पञ्चान्तः पृथग्रूपः शिवदर्शनसंज्ञकः ।गणेश्वरो द्विजाख्यश्च गौरवो गौश्च स्वर्गगः ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्च (wrong syllable)
genderपुंmasc.
घः संहर्ता दक्षकरः काम(ल)रूपी शिवोत्तमः ।खड्गी सव्यो घोरनामा मेधा गौश्च घ-कारकः ।शिवाख्यो लाङ्गली मूलं दन्तुरो घुर्घुरोऽपि च ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.2 · p. 3
अमर्त्यभवनं गौश्च त्रिदिवः स्यात् खरव्ययम् ।देवा निलिंपा मरुतो गीर्वाणा वायुनाः सुराः ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.9 · p. 3
पद्मभूः प्राणदो वेधा द्रुघणो नाभिजो विधिः ।वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.41 · p. 68
नीलशीर्षोऽप्यथ क्ष्विंको वानरो रोहिताननः ।शृंगिणी सौरभेयी गौरर्घ्या माहेय्युषा शुभा ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.52 · p. 69
विषाणी वृषभः शृंगी वाहो गौरक्षधूर्तिलः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वही ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.25
स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले ।लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.854 · p. 98
दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु ।भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास गश्लोकः Dharaṇikośa 3.3.1 · p. 24
गोशब्दः पशुभूम्यंशुवाग्दिगर्थः प्रयुज्यते ।स्वर्गलोचनबाणाम्बुकुलिशार्थोऽपि दृश्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.90 · p. 163
गौरर्वनाकक्रतुभेदरश्मि-दृग्धेनुलोमाशनिनीरभूषु ।दिग्बाणवाणीवृषभेषु गस्तुगणेशगन्धर्वकगातृषु स्यात् ॥ ९० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.3 · p. 7
गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः ।स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि ॥ ३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.4 · p. 8
नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु ।अश्वानां प्रग्रहेऽप्येष यत्साधारणनामसु ॥ ४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.5 · p. 8
प्रग्रहस्य मरीचेश्च समाम्नायेऽमुमामनत् ।धनुर्गुणे सुषुम्णाख्यरश्मिभेदे च भास्वतः ॥ ५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.6 · p. 8
द्वयोस्त्वश्वे तथा ह्याह स्कन्दस्वाम्यृक्षु भूरिशः ।माधवाचार्यसूरिश्च को अद्येत्यृचि भाषते ॥ ६ ॥
अनुष्टुप्
meaningsअश्व
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.7 · p. 8
समाम्नाये समाम्नातः स्तोत्रनामसु स त्रिषु ।विकारयोर्लक्षणया दुग्धाभिषवचर्मणोः ॥ ७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.8 · p. 8
चर्मणो गोविकारस्य विकारे श्लेष्मसंज्ञके ।नृस्त्रियोरविशेषेण कश्चिदेनं समामनत् ॥ ८ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.13 · p. 2
गीतगात्रोरथाख्यातो गौर्जले वज्रबाणयोः ।वृषधेन्वोर्गिरौ वाचि नेत्रदिग्भूमुखेषु च ॥ १३ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.14 · p. 3
रश्मिवह्न्योश्च सत्याक्षिस्वर्गमातृषु भाषितः ।गीश्च वाण्यां दिशाब्राह्म्योर्दुर्गायामथ घो घटे ॥ १४ ॥
अनुष्टुप्
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.130 · p. 47
दिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु ।भूमौ पशौ च गोशब्दो विद्वद्भिर्दशधा मतः ॥ १३० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.1 · p. 191
गौ पुंसि वृषभे रश्मौ कुलिशे त्रिदिवेऽपि च ।स्त्रियां गवीषु दृग्-वाग्-भूदिक्षु वारिणि भूम्नि च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2241 · p. 271
कः समीरार्कवेधःसु खमुडौ व्योम्नि चेन्द्रिये ।गौवृषे ना स्त्रियां गोभूवाग्दिग्दृष्टिमरीचिषु ॥ २२४१ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2242 · p. 272
द्वयोः सायकवज्राम्बुस्वर्गयज्ञेषु लोम्न्यपि ।ज्या शिज्जिनीवसुधयोस्त्विड्ज्वालादीप्तिकान्तिषु ॥ २२४२ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.9 · p. 24
गो गणपतिरुद्दिष्टो गो गन्धर्वः प्रकीर्त्तितः ।गं गीतं गा च गाथा स्याद् गौर्धेनुर्गौ सरस्वती ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.10 · p. 24
गौर्मातापि समुद्दिष्टा पृथिव्यां गौः प्रकीर्त्तिता ।घो घण्टायां समाख्यातः किङ्किणी घा प्रकीर्त्तिता ॥ १० ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.59 · p. 111
त्रिषु दक्षे विदग्धे च खड्गौ निस्त्रिंशगण्डकौ ।स्वर्गे वज्रे च रश्मौ च बलिवर्दे च गौः पुमान् ॥ ५९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.60 · p. 112
स्त्रीबाणरोहिणीदृग्दिग्वाग्भूमिष्वप्सु भूम्नि च ।वैधव्ये नृपनाशे च छत्रभङ्गः प्रकीर्तितः ॥ ६० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.37 · p. 280
द्युपश्विष्वंशुवज्रांबुभूवाग्दिग्दृक्षु गौर्न षण् ।दृक् स्त्री स्याद्दर्शने बुद्धौ नेत्रे द्रष्टरि तु त्रिषु ॥ ३७ ॥
अनुष्टुप्

गो as a meaning in nānārtha verses