कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पङ्क

paṅkaपुं · masc.

In 18 kośas: 31 synonym verses, 6 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.29 · p. 43
जम्बालेचकिलौ पङ्कः कर्दमश्च निषद्वरः ।शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः ॥ १०९० ॥भिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1381 · p. 52
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.23
अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम् ।कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.9
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.678 · p. 77
पिच्छिलं स्याद्विजपिलं पङ्कः शादो निषद्वरः ।जम्बालः कर्दमः प्रोक्तो बुधैरिचिकिलस्तथा ॥ ६७८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर दशमोपदेशः Bālaprabodhikā 10.177 · p. 82
परागः कर्दमे तु स्यात्कीर्तिस्यूदश्च सूदकः ।पारिवत्परिवत्पङ्कं शादावलिकशाड्वला ॥ १७७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.24 · p. 346
अपि तु स्यात्पत्रयुक्ते पङ्कः कर्वटिकोऽस्त्रियाम् ।दमः कर्दमशादौ च कूपकास्तु विदारकाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.85 · p. 415
दैनन्दिनः प्राकृतश्च स च स्याद्द्विविधोऽथ च ।किल्विषं कल्मषं किण्वं कल्कः पङ्कश्च न स्त्रियाम् ॥ ८५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.49 · p. 466
वोलप्रवालमुरजद्विपानामभ्रपङ्कयोः ।सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.144 · p. 477
वल्कवल्मीकमरककल्कानां पुलकस्य च ।करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥ १४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.37 · p. 5
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
मालिनी
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.37 · p. 102
पङ्काम्बुकल्कौ न स्त्रीत्वे जम्बालः कृमिवल्लभः ।निषद्वरः कर्द्दमश्च शादश्चावकि[की]लो दमः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.35 · p. 111
genderपुंक्लीm. n.
एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः ।संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् ।नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥
metre not recognised
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 20 · p. 10
परिषत्कर्दमः पङ्कः तज्जम् तामरसं विदुः ।कमलं नलिनं पदम् सरोजं सरसीरुहम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 152 · p. 73
कलङ्कावद्यमलिनं किञ्जल्कं लक्ष्म लाञ्छनम् ।निबोधमधमं पङ्कं मलीमसमपि त्यजेत् ॥ १५२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.370 · p. 50
पङ्को निषद्वरः शादो मृच्चते स्वल्पवारितः ।हिरण्यबाहुरुक्तास्तु शोणे नदे वहोऽपीरितः ॥ ३७० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.270 · p. 86
अंहो दुष्कृतमेनश्चाघं कल्कं तमसा सह ।दुरितं किल्बषं चापि पङ्कः कलुषमेव च ॥ २७० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.8 · p. 212
वर्षश्वेतप्लवाः शोणः पङ्कमन्थजलाशयाः ।मुरजात्मासिमासाद्रिबाणध्वानाध्वराग्नयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.128 · p. 227
मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च ।कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.39 · p. 127
जम्बाले पङ्किलः पङ्कः कर्दमः शाद इत्यपि ।निषद्वरश्च भेकालं भेकालयमरिंदमम् ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.132 · p. 32
किल्बिषं कल्मषं पापमेनः पाप्मा च पातकम् ।दुरितं वृजिनं पङ्कमघमंहश्च दुःकृतम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.77 · p. 42
पाषाणः प्रस्तरो ग्रावा दृषदश्मोपलः शिला ।रेणुर्धूली रजः पांशुः पङ्कश्चिखिल्लकर्दमौ ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्चि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1904 · p. 312
कर्दमश्चिकिलः पङ्कश्चिक्खल्लश्च निषद्वरः ॥ १९०४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2509 · p. 407
पापं च पातकं पाप्मा पङ्कः किण्वं च किल्विषम् ।कल्मषं कलुषं कल्कं दुष्कृतं दुरितं तमः ॥ २५०९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.301 · p. 21
दुरितं पातकं तूस्तं कल्कं दुष्कृतकिल्विषम् ।एनः शल्यं पङ्कमस्त्री पाप्मा पापकमित्यपि ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.50 · p. 40
कर्दः कर्कटशादौ च पङ्कोऽस्त्री दम इत्यपि ।पूरोढिः पत्रसङ्कारो रायभाटीसमाह्वये ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.286 · p. 39
दुष्कृतमघमेनोंऽहः किल्बिषमलदुरितपापरेपांसि ।दुष्कर्म कलुषरजसी वृजिनं पाप्मा तु पुंसि पङ्कोऽस्त्री ॥ २८६ ॥
गीतिः
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.314 · p. 42
नदी पुरी च नागानां भोगवत्यथ कर्दमः ।पुमान्निषद्वरः शादो जम्बालः पङ्कमस्त्रियाम् ॥ ३१४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.26 · p. 125
दारिपत्परिपत्पंकचिकिलाश्च निषद्वरः ।शादावकीलजंबाला वप्रोऽस्त्री पालिराल्यपि ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.3 · p. 2
तोके दुहितृपुत्रौ स्तः शल्के शकलवल्कयोः ।वल्कं स्याद्वल्कले खण्डे पङ्कं कर्दमपापयोः ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.718 · p. 104
त्रि पुराणे छन्दसि तु क्लीबं पञ्चाशदक्षरे ।पङ्कोऽस्त्री कर्दमे पापे पण्डा स्त्रीपुंसयोर्गतौ ॥ ७१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 छ (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.15 · p. 177
पङ्कोऽस्त्री कर्दमे पाके भूकः स्यात् कालरन्ध्रयोः ।वकः कह्वे धनेशे च बहुपुष्पे च रक्षसि ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1958 · p. 238
पिण्डिर्ना तैलकल्के स्त्री रथनाभौ च पिण्डिका ।पयः पाथसि च क्षीरे पङ्कोऽस्त्री कर्दमांहसोः ॥ १९५८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.29 · p. 101
नालीकौ पद्मनाराचौ वृन्देऽपि पेटकोऽस्त्रियाम् ।सौभाग्येऽपि पताका स्यात्पङ्कोऽस्त्री कर्दमांहसोः ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.48 · p. 234
पद्मोऽस्त्र्यब्जेष्टकायां क्ली संख्यायां गजबिंदुषु ।ना तु नागे निधौ व्यूहे पंकोऽस्त्री कर्दमैनसोः ॥ ४८ ॥
अनुष्टुप्
doubtful

पङ्क as a meaning in nānārtha verses