शर
śaraपुं · masc.In 27 kośas: 52 synonym verses, 7 as a nānārtha head word, 72 as a meaning of another word.
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः ।गुन्द्रो मुञ्जः शरो दूर्वा त्वनन्ता शतपर्विका ॥ ११९२ ॥हरिताली रुहा पोटगलस्तु धमनो नडः ।
अनुष्टुप्
genderपुंmasc.
ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः ।
अनुष्टुप्
genderपुंmasc.
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
अनुष्टुप्
genderपुंmasc.
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
जलन्तु सलिलं नीरं क्षीरं वारि शम्बरम् ।शरं सारं जडं कुम्भमम्भश्चापश्च कथ्यते ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
महामुखं मेघपुष्पं जीवनं जीवितं शरम् ।जीवनीयं शुचिः सारं शम्बरं चाप्यधोमुखम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
मातुलुङ्गे तु रुचको वराम्लिः केसरी शरः ।बीजपूरे मातुलुङ्गो लुङ्गस्तु फलपूरकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
क्षीरं शरः पयस्या स्यान्मस्तुन्यपि तु वाजिनम् ।इष्टं तुकार्त्तवं कर्म वापीकूपादिपूर्तकम् ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
विकर्षः पत्रवाहश्च चित्रपुङ्खः शरः खरुः ।सरः शरुर्मर्मभेदी वीरशङ्कुश्च लक्षहा ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
साधुवृक्षः पवित्रस्तु गर्भदः सिद्धिदः पुनः ।कुठजीवश्चाथ पुनः करहाटः क्षुरः शरः ॥ २१६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
genderपुंmasc.
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।इक्षुरिक्षुरिकापत्रो विशिखोऽथ महाशरः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
नादेयो लेखिनीकाण्डः कच्छालंकारकः पुनः ।सितपुष्पोऽप्यथाश्वालो नीरजः शर इत्यपि ॥ ३४२ ॥
अनुष्टुप्
genderपुंmasc.
इरा जडं जीवनीयं चलोदे संवरं कुशम् ।शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
सम्बर-शम्बर-कीलालान्न-प्राणद-पुष्कर-नीरापांसि ।पिप्पल-वैष्प(?)-कुलीनस-नारं शरमृत[63b]मूषः(?) सर्वग-तोयम् ॥ २ ॥
metre not recognised
genderक्लीneut.
इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका ।बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः ॥इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् ।रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ना (syllables merged)
genderपुंmasc.
शरस्तु न स्त्रियां रोपो विशिखः खग आशुगः ।अजिह्मगो गार्धपक्षः पत्रि-मार्गण-सायकाः ॥ २१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बाधते प्रतिपदोक्तविधानंलिङ्गसंग्रहविधिं हि समस्तम् ।पुंसि नाम सभिदां निधि-नाक-भूभृदम्बुधि-मुखाग्नि-शराणाम् ॥ ३ ॥
स्वागता
genderपुंmasc.
वलयमलयपूयारण्यसंख्यं हिरण्यंप्रमयसमयसाया जन्यवत्पारिहार्यम् ।शरशिशिरतुषारक्षीरनीहारवार-प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥
मालिनी
genderपुंक्लीm. n.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः ।संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् ।नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥
metre not recognised
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
शरे तु मुञ्जो बाणाख्यः स्थूलदर्भः पितामहः ।गुन्द्रस्तेजनको भद्रमुञ्जो याजनकः क्षुरः ॥ ३७६ ॥
अनुष्टुप्
genderपुंmasc.
हैयंगवीनं तक्रेजं नवनीतं घृताकरम् ।दधि विप्रप्रियं हृद्यं श्रीघनं क्षीरजं शरः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ ।काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
कर्पूरजठरौ तक्रशरीरे शरतोमरे ।आलवालं पलं भालं प्रवालकवले मलम् ॥ १५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शिखा मरीचिः ष्ट्यूमश्च स्थूमः शम्बः खरः शरः ।सूर्यसोमाग्निमुख्यानामंशुष्वेते प्रकीर्तिताः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
अतिभारवहे स्थौरी पृष्ठ्यः पटुकलः पटुः ।कर्कः सिताश्वे नीलाश्वे कलमः कन्धरः शरः ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
उपासनं शराभ्यासे शरः पत्री पुमान्खगः ।अजिह्मगः कलम्बश्च रोदो रोप इषुर्द्वयोः ॥ ३६१ ॥
अनुष्टुप्
genderपुंmasc.
कोदण्डमध्यं तलकः छुरिका खड्गधेनुका ।बाणः कलम्बो विशिखः शरः पत्री शिलीमुखः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः ।इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कङ्कपत्रः पृषत्कश्च वीरशङ्कुश्च सायकः ।आशुगोऽजिह्मगो रोपो गार्ध्रपक्षः शरः खगः ॥ १२७२ ॥
अनुष्टुप्
genderपुंmasc.
दर्भः कुथः कुशो बर्हिः पवित्रं नाम पञ्चमम् ।तेजनस्तु शरो गुन्द्रो मुञ्जो नाम चतुर्थकम् ॥ २१५१ ॥
अनुष्टुप्
genderपुंmasc.
ग्रन्थिर्ना परुषं क्लीबे परु पर्व च पर्वकम् ।शरो मुञ्जस्तेजनकः सरः स्यात् गुन्द्र इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
उपासनञ्च खुरली शास्त्राभ्यासो विकर्षणम् ।वाणः पत्री चित्रपुङ्खः सायको विशिखः शरः ॥
अनुष्टुप्
genderपुंmasc.
बाणे पृषत्कस्तात्कान्तः सायकः सायवत्सरः ।शरः शरुः स्वरुर्भल्लो भल्लिश्चापि कडम्बयुक् ॥ २७४ ॥
अनुष्टुप्
genderपुंmasc.
शम्बरं दन्त-तालव्यादिमं स्याच्छवरः शिवम् ।कृपीटं कृषीटमलं कमलं च शरं सरः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
genderक्लीneut.
दर्भः कुशं कुसो मुञ्जे शरस्तालव्यदन्त्यभाक् ।दूर्वायां हरितालीवद्धरिता, धमने नडः ॥ २७३ ॥
अनुष्टुप्
genderपुंmasc.
अश्ववालस्तु दर्भः स्यात् काशोऽस्त्री स्त्रीक्षुगन्धिका ।समाः काशः शरो मुञ्जो दर्भभेदे खरच्छदः ॥ ६६९ ॥
अनुष्टुप्
genderपुंmasc.
गुन्द्रः शरस्तेजनः स्यादिषीका कूलिका समे ।छत्राकश्छत्रपालघ्नौ पुंसि भूम्नि च बल्बजाः ॥ ६७२ ॥
अनुष्टुप्
genderपुंmasc.
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः ।जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
पाशाङ्कुशवराभीतिखड्गचर्मधनुःशराः ।मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
शस्त्राभ्यासश्च खुरली बाणः स्यादत्स्त्रकण्टकः ।स्थूलक्ष्वेडो विपाटश्च चित्रपुङ्खः शरः सरः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
जारवायुस्तु हेमन्ते शारदः सारणः शरः ।गोगन्धनः पुरोवात उत्तरस्तु हिमानिलः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
लताकुशे तु शीरी स्त्री धमने सुषिरो नलः ।शरो मुञ्जो भद्रमुञ्जो गुन्द्रस्तेजनकः खरः ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
चित्रपुंखो वीरशंकुः शरो रोध इषुर्न षण् ।प्रक्ष्वेलनस्तु नाराच एषणश्चायसे शरे ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः ।पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यपम् ॥ ६ ॥
अनुष्टुप्
meaningsगुन्द्र
शका तु गवयाभिख्यपशुजातौ स्त्रियामियम् ।शरः पुंसि शरद्वायौ क्षीरादेर्मुखबन्धने ॥ १३१९ ॥
अनुष्टुप्
इन्द्रसंज्ञतृणस्तम्बे हिंसामार्गणयोरपि ।क्ली तु ह्रीबेरजलयोः शतं त्वस्त्री बहुन्यपि ॥ १३२० ॥
अनुष्टुप्
doubtful
अगरुण्ययसो गुन्द्रे शरस्य मकरे त्वसेः ।शुभस्य फेनिले पुंसि कार्पासे वाससो नरः ॥ १६ ॥
अनुष्टुप्
meaningsमकर
शर as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सायकआकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥ Amarakośa 3.3.2
- नामलिङ्गानुशासनम् खगआशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥ Amarakośa 3.3.19
- नामलिङ्गानुशासनम् बाणभ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ ४५ ॥ Amarakośa 3.3.45
- नामलिङ्गानुशासनम् पत्रिन्ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ । Amarakośa 3.3.203
- हलायुधकोशः (अभिधानरत्नमाला) किंशारुश्वेतं रजतेऽप्युक्तं रजतं हारे शरेऽपि किंशारुः । दम्भेऽपि गह्वरं स्यादुपह्वरं सन्निधानेऽपि ॥ ७९१ ॥ Abhidhānaratnamālā (Halāyudha) 5.791
- धरणिकोश सायकआनकः पटहे भेर्यां सायकः शरखड्गयोः । अनूकं च कुले शीले अनीकं मृधसैन्ययोः ॥ Dharaṇikośa 1.1.6
- धरणिकोश पत्रिन्[श्येनाख्यो विहगः पत्री ?] पत्रिणौ शरपक्षिणौ । शाखिनः स्युः तुरुष्काख्या जना वृक्षाश्च शाखिनः ॥ Dharaṇikośa 19.2.11
- धरणिकोश गुन्द्रचन्द्रो हेम्नि च कर्पूरे चन्द्रः सोमे तथा विधौ । गुन्द्रः शरे तु गुन्द्रा तु प्रियङ्गौ मुस्तकेऽपि च ॥ Dharaṇikośa 26.2.13
- धरणिकोश प्रदरप्रदरो योषितां रोगः प्रदरः शरभङ्गयोः । अधरावोष्ठहीनौ तु अनूर्ध्वमधरं विदुः ॥ Dharaṇikośa 26.2.28
- कोषकल्पतरु शलाकाशल्ये शलाका स्मरसारिकायां शरे तथाक्षे खेचर?पञ्जरे च । स्यान्नर्तकीभ्यामपि लासिकायां ना चारणे पोटगले नटे च ॥ २६ ॥ Koṣakalpataru 6.1.26
- कोषकल्पतरु खगअगो नगोऽर्कद्रुमपर्वतेषु खगास्तु सूर्यग्रहदेवबाणाः । पक्षी शरोऽस्त्रीतु भगो वराङ्गै- श्वर्यप्रयत्नातिविरक्तिषु स्यात् ॥ ९१ ॥ Koṣakalpataru 6.3.91
- कोषकल्पतरु यष्टिवृद्धौ तु पुष्टिः परिपोषणे च यष्टिर्द्वयोर्हारशरे च शस्त्रे । ध्वजस्य दण्डे मधुके च भार्ङ्ग्यां मुष्टिः पले बद्धकरेऽपि युग्मे ॥ १७ ॥ Koṣakalpataru 6.10.17
- कोषकल्पतरु काण्डत्रय्यां मुण्डित ओषधौ तु वनिता मत्ते तु शौण्डोऽन्यवत् स्याच्चव्याकणयोः स्त्रियामथ शरे नीरे तरुस्कन्धके । स्तम्बे चावसरे रहस्यपि मितौ वर्गे च काण्डोऽस्त्रियां निन्द्ये च त्रिषु भाण्डमत्र वणिजां मूले धने भूषणे ॥ ७९ ॥ Koṣakalpataru 6.12.79
- कोषकल्पतरु पत्रिन्पत्री खगे श्येनशरद्रुमेषु स्यात्सायके स्यन्दनसंस्थिते वा । वज्री शरेऽश्वे षडभिज्ञ इन्द्रे विहंगमे कोकभुजंगयोस्तु ॥ ७६ ॥ Koṣakalpataru 6.21.76
- कोषकल्पतरु युध्मकर्पूरे सलिले तथा स्मरहरे स्याद्यज्ञनेत्र्योषधा- विष्मः कामवसन्तयोर्नरि मतो युध्मः शरे योद्धरि । युद्धे धन्वनि चाथ भीम उदितः शम्भौ बकद्वेषिणि स्यादम्लेऽपि च वेतसे त्रिषु पुनर्घोरेऽथ भामो रवौ ॥ ६५ ॥ Koṣakalpataru 6.25.65
- कोषकल्पतरु शल्यशरे च वंशादिकवंशिकायां क्ष्वेडेऽन्तिमे तोमरवाचकश्च । छिद्रेऽवधौ मद्रपतौ तु पुंसि गालद्रुमे श्वाविधि तद्वदुक्तः ॥ २९ ॥ Koṣakalpataru 6.26.29
- कोषकल्पतरु पत्रगात्रं तु देहेऽवयवे गजस्य जङ्घादिभागे नरलिङ्गहीनम् । पत्रं तु न स्त्री शरपक्षिपक्षे पर्णे तथा वाहन[ना]म्नि शस्तम् ॥ २६ ॥ Koṣakalpataru 6.27.26
- कोषकल्पतरु स्वरुवज्रे शरे चाथ खरुर्हरे स्या- द्दर्पे च दन्ते तुरगे स्त्रियां तु । पतिंवरायां त्रितये तु पाण्डौ भरुर्हरौ पुंसि हरे च हेम्नि ॥ ६३ ॥ Koṣakalpataru 6.27.63
- कोषकल्पतरु वीरतरविष्णौ मतश्चक्रधरो भुजङ्गे स्याद्ग्रामजालिन्यथ नागराजे । स्याद्वेसरे चाश्वतरोऽथ वीर- तरं शरे वीरणके च षण्ढे ॥ ६ ॥ Koṣakalpataru 6.27.6
- कोषकल्पतरु अक्षीवपद्मेऽन्त्येऽप्यथ कर्णवैरिधनुषि स्याद्गाण्डिवं न[79b]स्त्रियां गाण्डीवं च धनुष्यथो किल शरेऽक्षीवं भवेद्बान्तवत् । अन्यस्मिन्मदवर्जितेऽथ नृपतौ स्यात्पार्थिवो वाच्यवत् पृथ्व्युत्पातविकारयोर्जनकजागौर्योर्भवेद्योषिति ॥ २९ ॥ Koṣakalpataru 6.29.29
- नानार्थार्णवसंक्षेप पदशाखायां त्वपि वैचित्र्ये नान्तशब्दं प्रचक्षते । पदमङ्घ्रौ शरे त्राणे व्यवसायापदेशयोः ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 2.3.36
- नानार्थार्णवसंक्षेप काण्डक्ली तु ताम्रेऽथ काण्डोऽस्त्री दण्डे नाले जले शरे । शक्तिसंज्ञबले वर्गे स्तम्बेऽध्याये च कुत्सिते ॥ १९० ॥ Nānārthārṇavasaṃkṣepa 2.5.190
- नानार्थार्णवसंक्षेप खगहरेणुसंज्ञे कुन्तस्य पुनः सम्बन्धिनि त्रिषु । खगः पुंसि रवौ वायौ शरसङ्ग्रामयोरथ ॥ ३०० ॥ Nānārthārṇavasaṃkṣepa 2.5.300
- नानार्थार्णवसंक्षेप खरखरः शराख्यस्तम्बे ना ककुभाह्वयपादपे । रक्षोभेदे दशास्यस्य प्रवीरे दण्डनायके ॥ ३०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.305
- नानार्थार्णवसंक्षेप गुन्द्रगुन्द्रा फलिन्यां स्त्री भद्रमुस्तके क्षुद्रवान्यके । गवीथुसंज्ञे ना त्वेष स्तम्बभेदे शराह्वये ॥ ३५७ ॥ Nānārthārṇavasaṃkṣepa 2.5.357
- नानार्थार्णवसंक्षेप पत्त्रिन्पत्त्री पुंसि शरे द्वे तु श्येने सर्वखगेष्वपि । पत्त्रिणी तु स्त्रियां पत्न्याः कनिष्ठस्वसरि स्मृता ॥ ७४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.741
- नानार्थार्णवसंक्षेप बाणककुभाख्ये नृशण्डस्तु शरतद्भेदयोरथ । वाणा नृस्त्री नीलझिण्ट्यां बालस्तु शिशुमूर्खयोः ॥ ८५० ॥ Nānārthārṇavasaṃkṣepa 2.5.850
- नानार्थार्णवसंक्षेप वाजिन्गृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च । वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1246
- नानार्थार्णवसंक्षेप शिखिन्श्लिकुर्न ना विषादे ना ज्योतिषेऽपि मृगास्थनि । शिखी नाग्न्यंशुवृक्षेषु शरे केतुग्रहे द्विजे ॥ १३७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1371
- नानार्थार्णवसंक्षेप सृकसृकः पुंसि शरे वज्रे निरये द्वे पुनर्बके । सृगाले चाथ सृष्टं क्ली सर्जने त्रि तु निश्चिते ॥ १५५० ॥ Nānārthārṇavasaṃkṣepa 2.5.1550
- नानार्थार्णवसंक्षेप सेव्यउशीरे नि शरे दध्नि पत्राङ्गाह्वयभेषजे । अब्धिजे लवणे ना तु मध्वासव इति श्रुते ॥ १५५४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1554
- नानार्थार्णवसंक्षेप किंशारुकिंशारुस्तु शरे धान्यशूके च स्यात् तु कीचकः । वातोद्भूतस्वनद्वेणौ दैत्यभेदे च यः किल ॥ ७३ ॥ Nānārthārṇavasaṃkṣepa 3.2.73
- नानार्थार्णवसंक्षेप छित्वरछगणं पशुविष्ठेति च्छित्वरस्तु पुमाञ्छरे । हर्षनन्दी तु शठ इत्याह तत्रैष भेद्यवत् ॥ ७६३ ॥ Nānārthārṇavasaṃkṣepa 4.763
- नानार्थार्णवसंक्षेप तेजनधनदस्याथ वेणौ ना तेजनः शरसंज्ञके । स्तम्बे च स्त्री तु मूर्वायां ज्योतिष्मत्यां च तेजनी ॥ ८८७ ॥ Nānārthārṇavasaṃkṣepa 4.887
- नानार्थार्णवसंक्षेप नालीकनालीकमम्बुजे ना तु शरे नालीकिनी पुनः । पद्मिन्यां स्त्री त्रिषु पुनर्नालीकवति कीर्तिता ॥ १०१८ ॥ Nānārthārṇavasaṃkṣepa 4.1018
- नानार्थार्णवसंक्षेप रोपणकासीसे शूकशिम्ब्यां च रोपणस्तु शरे पुमान् । रोहणासाधने तु त्रिरथो स्याद्रोपणा न ना ॥ १५४० ॥ Nānārthārṇavasaṃkṣepa 4.1540
- नानार्थार्णवसंक्षेप सायकविश्वामित्रेण दृष्टे स्यादृग्भेदेऽनामिकाङ्गुलौ । सायकस्तु शरे खड्गे वज्रे ना त्रिस्तु (घा ? सा)तरि ॥ १९५२ ॥ Nānārthārṇavasaṃkṣepa 4.1952
- नानार्थार्णवसंक्षेप अमरसिंहउपक्रमश्चिकित्सायामुपधारम्भयोरपि । उपायपूर्वे त्वारम्भेऽमरसिंहः शरेप्यथो ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 6.36
- नानार्थार्णवसंक्षेप अजिह्मगअसर्पे तु द्वयोर्ना तुं शरेऽथो अर्शसानवाक् । नाग्नौ मनसि च द्वे तु ब्राह्मणे कश्चिदब्रवीत् ॥ ५२ ॥ Nānārthārṇavasaṃkṣepa 6.52
- नानार्थार्णवसंक्षेप शिलीमुखरश्मिभिर्वेष्टिते चाथ पुल्लिँङ्गः स्याच्छिलीमुखः । शरे मधुकरे तु द्वे शिंशुमारः पुनः पुमान् ॥ ६१० ॥ Nānārthārṇavasaṃkṣepa 6.610
- नानार्थार्णवसंक्षेप चतुरङ्गुलयस्येष्टा चन्द्रिका तत्र त्रिरथो चतुरङ्गुलः । पुमानारम्वधे मानविशेषे शरसंज्ञके ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 7.51
- परमानन्दीयनाममाला काञ्चनकाञ्चनं चम्पके नागकेसरे हाटके तथा । धत्तूरे किंशुके कालीये शरेऽपि तदेव च ॥ १२० ॥ Paramānandīyanāmamālā 5.7.120
- परमानन्दीयनाममाला द्रुणदंष्ट्राभिलाषयोर्दाढा दोग्धा बल्लववत्सयोः । द्रोणः काकान्तरे भूध्रकृपीपत्योर्द्रुणः शरे ॥ २३५ ॥ Paramānandīyanāmamālā 5.16.235
- परमानन्दीयनाममाला बाणवर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके । बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥ Paramānandīyanāmamālā 5.24.348
- परमानन्दीयनाममाला शरुशरुः कोपे शरे वज्रे शद्रिः कृष्णे तडित्वति । शम्भुर्बह्मणि रुद्रे च शुभो योगे शुभं सुखे ॥ ३५७ ॥ Paramānandīyanāmamālā 5.25.357
- शिवकोष तेजनतेजनो ना शरे वेणौ तेजोह्वामूर्वयोः स्त्रियाम् । दहनोऽरुष्करे चित्रे धमनो नडनिम्बयोः ॥ २५४ ॥ Śivakoṣa 16.1.254
- शिवकोष दीर्घमूलफणिज्जके च दमने दीर्घमूलो यवासके । दीर्घमूला स्थिरागोप्योः क्लीबं वेल्लन्तरे शरे ॥ ४८४ ॥ Śivakoṣa 23.3.484
- शब्दरत्नावली नालीकनन्दको विष्णुखड्गे स्यात् हर्षके कुलपालके । नालीकः शरशल्याङ्गेष्वब्जषण्डे तु न द्वयोः ॥ Śabdaratnāvalī 7.1.94
- शब्दरत्नावली शलाकाछत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः । शङ्खकः स्यात् शिरोरोगे शङ्खेऽस्त्रीवलयेऽपि च ॥ Śabdaratnāvalī 7.1.144
- शब्दरत्नावली सायकसायकस्तु शरे शङ्खे सायिका च क्रमस्थितौ । स्थासको ना तु चार्चिक्ये फेनादिबुद्बुदेऽपि च ॥ Śabdaratnāvalī 7.1.150
- शब्दरत्नावली वाजिन्वर्ष्म देहे प्रमाणेऽतिसुन्दरेऽपि च न द्वयोः । वाजी पक्षिशराश्वेषु वर्त्म नेत्रच्छदाध्वनोः ॥ वामनो दिग्गजे विष्णौ तथाङ्कोठद्रुमे पुमान् । अस्त्री रोगप्रभेदेऽपि त्रिषु स्यान्नीचखर्वयोः ॥ Śabdaratnāvalī 7.20.74
- शब्दरत्नावली शिखिन्शिखी वह्णिवलीवर्द-शर-केतुग्रहेषु च । मयूरे कुक्कुटे वृक्षे पुमान् शिखावति त्रिषु ॥ Śabdaratnāvalī 7.20.86
- शब्दरत्नावली कलम्बकलम्बी शाकभेदे स्त्री कदम्बे च शरे पुमान् । कादम्बः पक्षिभेदे स्यात्सायके च भवेत्पुमान् ॥ Śabdaratnāvalī 7.23.10
- शब्दरत्नावली प्रदरपवित्रं कुशताम्राप्सु क्लीबं मेद्ये तु वाच्यवत् । प्रदरो भङ्गशरयो रोगभेदविदारयोः ॥ Śabdaratnāvalī 7.27.83
- शब्दरत्नाकर काशकालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः । शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥ Śabdaratnākara 4.1.1880
- शब्दरत्नाकर बाणप्रतिबिम्बे प्रतिकृतौ बिम्बोऽस्त्री मण्डले समे । बाणः शरे बलिसुते वृक्षभेदे तु वा स्त्रियाम् ॥ १९६५ ॥ Śabdaratnākara 4.1.1965
- शब्दरत्नाकर कदम्बकबन्धोऽस्त्र्यपमूर्ध्न्यङ्गे षण्डेंऽभस्याशरे पुमान् । कादम्बः सायके हंसे कदम्बः शरभूरुहोः ॥ २०६९ ॥ Śabdaratnākara 4.1.2069
- शब्दरत्नाकर सायकसंभ्रमोऽत्यादरे भीतौ सायकः शरखड्गयोः । सामर्थ्ये शक्तिसंबन्धौ समितिर्युद्धसंसदोः ॥ २१८६ ॥ Śabdaratnākara 4.1.2186
- शब्दरत्नाकर शिलीमुखशंकुकर्णौ गर्दभोष्ट्रौ शरभृङ्गौ शिलीमुखौ । श्रीवत्साङ्कौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ॥ २२२८ ॥ Śabdaratnākara 4.1.2228
- त्रिकाण्डशेष कटसमये च क्रियाकारे किलिञ्जशरयोः कटः । कोटिः सङ्ख्याऽपि करटो वाद्यभाण्डविप्रयोः ॥ ९३ ॥ Trikāṇḍaśeṣa 3.3.93
- त्रिकाण्डशेष वाणछागेऽपि लम्बकर्णः स्याद्वेणुर्वंशे नृपान्तरे । वाणा झिण्ट्यां शरे वाणो वृष्णिर्यादवमेषयोः ॥ १३८ ॥ Trikāṇḍaśeṣa 3.3.138
- त्रिकाण्डशेष सुपर्वन्सीमाऽधाटे स्थितौ क्षेत्रे स्वामी भर्तरि षण्मुखे । धूमवंशशरामर्त्याः सुपर्वाणः प्रकीर्तिताः ॥ २७२ ॥ Trikāṇḍaśeṣa 3.3.272
- त्रिकाण्डशेष रोपशररोपणयो रोपो लेपो लेपनभोजने । विटपः पल्लवे स्तम्बे षिड्गे मेदोबिले वा ॥ २७९ ॥ Trikāṇḍaśeṣa 3.3.279
- त्रिकाण्डशेष कलम्बगजे ग्रीवालके कम्बुः कलम्बः शरनालयोः । वृन्दे कदम्बं नीपे ना कादम्बौ शरपक्षिणौ ॥ २८१ ॥ Trikāṇḍaśeṣa 3.3.281
- वैजयन्ती पत्रिन्पीयुः काल उलूके च पीलुः काण्डे गजे द्रुमे । पुण्ट्राः कृमीक्षुतिलकाः पत्री श्येने शरे खगे ॥ ३२ ॥ Vaijayantī 6.1.32
- वैजयन्ती वाजिन्विधी तु दैवकालौ च वाजी त्वश्वे शरे खगे । विधुर्निशाकरे काले विष्णौ वातेऽग्निरक्षसोः ॥ ५५ ॥ Vaijayantī 6.1.55
- वैजयन्ती पदपदं स्थाने शरे त्राणे पादांके पादचिह्नयोः । शब्देंऽशुवस्तुवाक्येषु व्यवसायापदेशयोः ॥ १८ ॥ Vaijayantī 6.3.18
- वैजयन्ती आशुगरुग्भीतितापेष्वातङ्क आशुगोऽर्के शरेऽनिले । तदात्वे पात आपात आकरो निकरे खनौ ॥ ९ ॥ Vaijayantī 7.1.9
- वैजयन्ती किंशारुकर्परोऽग्नौ कपालेऽपि करभोऽपि खरोष्ट्रयोः । शरे किंशारुकादंबौ कुरण्डस्तु झषेऽपि च ॥ १९ ॥ Vaijayantī 7.1.19
- वैजयन्ती सायकसंघर्षौ घर्षणं स्पर्धा शरखड्गौ तु सायकौ । समिकौ वृक्षवल्मीकौ सृदाकू व्याघ्रपावकौ ॥ ७७ ॥ Vaijayantī 7.1.77
- वैजयन्ती मार्गणमन्थरः सूचके कोपे मन्थाने मन्दगामिनि । मार्गणं मृगणायां स्यान्मार्गणो याचके शरे ॥ ६४ ॥ Vaijayantī 7.5.64
- वैजयन्ती विशिखविशिखा तु खनित्री च क्ली चित्ते ना त्वसौ शरे । विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि ॥ ८१ ॥ Vaijayantī 7.5.81