कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नाक

nākaपुं · masc.

In 21 kośas: 27 synonym verses, 9 as a nānārtha head word, 14 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.1 · p. 7
स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः ॥ ८७ ॥देवाः सुपर्वसुरनिर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः ॥ ८८ ॥गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः ।
आर्या
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.6
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ।सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह व्योमवर्गः Amarakośa 1.2.1
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderअindecl.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.3 · p. 1
स्वः स्वर्गः सुरसद्म त्रिदशावासस्त्रिविष्टपं त्रिदिवम् ।द्यौर्गौरमर्त्यभुवनं नाकः स्यादूर्ध्वलोकश्च ॥ ३ ॥
आर्या
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.3 · p. 8
फलोदयः सुरावासः स्वर्गो नाकस्त्रिविष्टपम् ।बुधायनं महायामदिवसावासभूमिका ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.24 · p. 3
पर्यायान्मार्गपर्यायि दिगवस्थानमित्यपि ।सुरपर्यायलोकार्थो नाकः स्वर्गः स्वरव्ययम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.148 · p. 477
स्याच्छाटककुन्दुकयोर्नाकमञ्चकयोरपि ।विटङ्कशाकयोः सत्रा मेचकेन ततोऽपि च ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.1 · p. 7
स्वर्गोर्गौस्तविषवरो हताविषोर्ध्व-लोकाः स्युः सुरनिलयः सुपर्वलोकः ।पुंसि स्याद्रमति भुतिर्युतोऽप्यृभुक्षोनाकोऽस्त्री त्रिदिवयुतो दिवा सह द्यौः ॥ १ ॥
प्रहर्षिणी
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.3 · p. 93
बाधते प्रतिपदोक्तविधानंलिङ्गसंग्रहविधिं हि समस्तम् ।पुंसि नाम सभिदां निधि-नाक-भूभृदम्बुधि-मुखाग्नि-शराणाम् ॥ ३ ॥
स्वागता
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.33 · p. 111
genderपुंक्लीm. n.
एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः ।संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् ।नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.2 · p. 1
स्वर्गे नाकत्रिलोकाग्र्यसुधावासबुधालयाः ।मन्दाकिनीधरो दिव्यः खपुरं तं नपुंसकम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 56 · p. 30
सुतोऽदितेस्तडिद्धन्वा सेन्द्रो देवः सुरोऽमरः ।स्वर्द्यौः स्वर्गोऽथ नाकश्च तद्वासस्त्रिदशो मतः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.675 · p. 100
श्रावणे मासि वर्षास्वप्यजयस्तु पठत्यमुम् ।वृद्धेऽपि त्रिषु तत्र स्यादथ नाको नृलिङ्गकः ॥ ६७५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.49 · p. 11
नाकोर्ध्वलोकौ दिदिविर्दीदिविश्च सुरालयः ।देवा लेखाः सुपर्वाणः सुरनिर्जरनाकिनः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.6 · p. 211
हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः ।स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.130 · p. 227
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.9 · p. 2
नाकोऽम्बरं विष्णुतीर्थं निर्मोकः कञ्चुकोऽपि च ।कर्बुरं नभसः सोमं व्योमनं पिच्छमस्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.63 · p. 9
नाको जीवन्तिका माला चावरोधः फलोदयः ।नभो गुलूची दुर्वारा दूर्वा चिन्तितकामदा ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.331 · p. 23
आकाशो गगनं नाकः स्वर्गस्त्रिदिवमम्बरम् ॥ ३३१ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.38 · p. 5
स्वः स्वर्गं त्रिदिवं नाकः सुरलोकस्त्रिविष्टपम् ।सुरालयश्चोर्ध्वलोको द्यौर्गौस्तविषताविषौ ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.65 · p. 11
स्वर्गस्त्रिविष्टपं नाको देवलोकः सुरालयः ।त्रिदिवमूर्ध्वलोको गौर्द्योदिवौ द्युश्व दीदिविः ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.2 · p. 2
स्वरव्ययं देवलोक-सुरलोक-फलोदयाः ।स्वर्गावरोह-त्रिदिव-स्वर्लोक-नागमन्दराः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.169 · p. 12
नाक-विष्णुपद-व्योम-नभं पुस्करमक्षरम् ।विहायसमनङ्गञ्च खमनन्तत्रिपिष्टपम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.74 · p. 10
स्वर्गस्तु नाकस्त्रिदिवः सुरलोकः स्त्रियौ परे ।द्योदिवौ द्वे न त्रिषु स्वर्न द्वयोः स्यात् त्रिविष्टपम् ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
अगः शुचिश्च चन्द्रे तु खगो मृग इतीर्यते ।राजा वृष्णिस्तथाऽऽकाशे नाकशब्दः प्रकीर्तितः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.1 · p. 3
स्वर्गो नाकः सुरावास ऊर्ध्वलोकः फलोदयः ।सौरिको भोगभूमिः स्त्री दिवि द्यौश्च त्रिविष्टपम् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.2
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ।पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.801 · p. 92
संवर्तः परिवर्तश्च हायने कथ्यतेऽम्बरे नाकः ।परिमाणेऽपि प्रस्थः सर्वात्मनि सर्वसन्नाहः ॥ ८०१ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.2 · p. 2
स्तोकः स्याच्चातके स्वल्पे शूकोऽनुक्रोशशुङ्गयोः ।नाको गगने स्वर्गे च तर्क ऊहाभिकाङ्क्षयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.13 · p. 137
नाकोऽस्त्रियां व्योमदिवोः शिशौ तुनिष्ठा जरा क्लेदनम[त्र] पाकः ।शक्तौ नरि द्वीपभिदीह राज-भेदे द्रुभेदे[च]वदन्ति शाकम् ॥ १३ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.676 · p. 100
सूर्येऽन्तरिक्षे तु स्वर्गेऽप्येनं केचिन्नृशण्डयोः ।पुत्रयोस्तु द्वयोर्नागः पुनर्ना नागकेसरे ॥ ६७६ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.262 · p. 195
स्वर्गे व्योम्नि मतो नाको नीचः पामरखर्वयोः ।नाकुर्मुनीश्वरे रन्ध्रे पर्वते कृमिपर्वते ॥ २६२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.12 · p. 177
तोकं पुत्रदुहित्रोश्च त्विकः स्यात् कोककाकयोः ।न्यङ्कुर्ना मनिमृगयोः नाकः स्वर्गान्तरीक्षयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1946 · p. 237
नगः शिलोच्चये वृक्षे नाकः स्वर्गान्तरिक्षयोः ।नागः सर्पे गजे ग्राहे नरोऽर्जुनमनुष्ययोः ॥ १९४६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.29 · p. 216
लोहेऽर्थे गैरिकस्वर्णरेतोऽस्थिषु विशेषतः ।नरोऽर्जुने मनुष्ये च नाकः स्वर्गान्तरिक्षयोः ॥ २९ ॥
अनुष्टुप्

नाक as a meaning in nānārtha verses