कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वसा

vasāस्त्री · fem.

In 16 kośas: 18 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.624 · p. 27
मेदोऽस्थिकृद्वपा मांसात्तेजोजे गौतमं वसा ॥ ६२४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.64
बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.635 · p. 72
मस्तिष्कं मस्तकस्नेहो वपा मेदो वसा स्मृता ।अन्त्रं पुरीतत्कथितं कालखण्डं यकृन्मतम् ॥ ६३५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.229 · p. 45
गौतमं मांसतेजोजं हृन्मेदः स्त्री वसा वपा ।मांसपर्यायतः स्नेहपर्यायमथ गोदकम् ॥ २२९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.36 · p. 222
दन्तमांसे तु वेला स्त्री पूयो दूष्यं नपुंसकम् ।वसा शुद्धामिषस्नेहोऽथान्तिमे मेद-मेदसी ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
एते पटादयः शब्दाः पुंसि भवन्ति । अयं पटः प्रावरणः । पुटः पत्रस्य । कटस्तृणस्य । कटो गजकुम्भश्च घटः कलशः । चण्टः फलनिबन्धनम् । वाटः मार्गः । जूटः केशबन्धनम् । वटो वृक्षविशेषः । अवटः कूपः । खटः शिरसि प्रहारः । पट्टः राजप्रसादः । किराटो वणिक् । कीटः कृमिः । कूटतटशब्दौ नपुंसके भवतः । इदं कूटं द्रव्यस्थानम् । इदं तटं नदीकूटम् ।घण्टाजटासटानां प्रथमाप्रकृतिर्वसाशिफानां च ।स्वर्नाम्नां पुंयोगस्त्रिविष्टपं स्यादुभयहीनम् ॥ २९ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.285 · p. 136
छादिनी त्वक् छविश्चापि वस्नसा स्नसया सह ।स्नायुर्धमनयो नाड्यः कण्डरा महती वसा ॥ २८५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.132 · p. 42
गोर्दं मस्तिष्कमस्तिष्यमस्तकालयमस्तिकाः ।वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1007 · p. 154
अस्थिकृन्मांसजं मेदो मांसतेजश्च गौतमम् ।तथा वपा वसा चेति मेदनामानि मन्यते ॥ १००७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.253 · p. 99
वुक्का वुक्काऽग्रमांसं हृत् हृदयं वुक्क इत्यपि ।वपा वसा च मेदस्तु मेद इत्यपि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.189 · p. 204
वुक्काग्रमांसाग्रमांसे वृक्कः स्य्यात्पुंस्त्रिर्योर्वसा ।मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः ॥ १८९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 स्त्रि (wrong syllable); pāda 3, syllable 5 मे (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.539 · p. 70
देवी मूर्वा मधुश्रेणी गोकर्णी मोरटा वसा ।मधूलिका तिक्तवल्का पीलुनी तेजनी च सा ॥ ५३९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1117 · p. 138
मेदो वपा वसा नाडीसिराधमनयः समाः ।पश्चाद्ग्रीवासिरा मन्या किट्टं तु मलमस्त्रियाम् ॥ १११७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1799 · p. 218
सुदर्शनायां चक्राङ्गी दध्याली वृषपर्ण्यपि ।कलम्ब्यां शतपर्वा स्यात् कलम्बूर्वायसी वसा ॥ १७९९ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्पलिनी Utpalinī · व्याडि Utpalinī 25 · p. 47
शिरसस्तु महाचित्ता स्मृता काकलिका वसा ।मारिचिसूचिका चैव विद्युत्पर्णा तिलोत्तमा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.114 · p. 182
अग्रमांसं तु हृदयं हृद्वसा त्वामिषो रसः ।कङ्कालोऽस्त्री तनोरस्थि करङ्कोऽप्यस्थिपञ्जरम् ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.

वसा as a meaning in nānārtha verses