असि
asiपुं · masc.In 18 kośas: 24 synonym verses, 1 as a nānārtha head word, 10 as a meaning of another word.
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ७८१ ॥शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखड्गाः ।तरवारिकौक्षेयकमण्डलाग्रा असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः ॥ ७८२ ॥
metre not recognised
genderपुंmasc.
नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ ॥श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः ।धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ॥प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः ।करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ ॥चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका ।पत्त्रं च धेनुका पत्त्रपाले तु हुलमातृका ॥ १४४ ॥कुट्टन्ती पत्त्रफलाथ शक्तिः कासूर्महाफला ।अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ ॥लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
नाराचपुंलोहनालपुंअस्त्रसायकपुंअसिपुंसायकपुंश्रीगर्भपुंविजयपुंशास्तृपुंव्यवहारपुंप्रजाकरपुंधर्मपालपुंअक्षरपुंदेवपुंतीक्ष्णकर्मन्पुंदुरासदपुंप्रसङ्गपुंरुद्रतनयपुंमनुज्येष्ठपुंशिवङ्करपुंकरपालपुंविशसनपुंतीक्ष्णधारपुंविषाग्रजपुंधर्मप्रचारपुंधाराङ्गपुंधाराधरपुंकरालिकपुंचन्द्रभासपुंशस्त्रपुंक्षुरीस्त्रीअस्त्रीस्त्रीकोशशायिकास्त्रीपत्त्रक्लीधेनुकास्त्रीपत्त्रपालपुंहुलमातृकास्त्रीकुट्टन्तीस्त्रीपत्त्रफलास्त्रीशक्तिस्त्रीकासूस्त्रीमहाफलास्त्रीपट्टिसपुंदुःस्फोटपुंआराफलपुं
genderपुंmasc.
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
निस्त्रिंशः करबालः खड्गः कौक्षेयकः कृपाणः स्यात् ।रिष्टिरसिचन्द्रहासौ तरवारिर्मण्डलाग्रं च ॥ ४७२ ॥
metre not recognised
genderपुंmasc.
तूणी तूणा च तूणीर उपासङ्गो निषङ्गकः ।चन्द्रहासस्त्वसिः पुंसि प्रवालः सायकोऽपि च ॥ २८० ॥
अनुष्टुप्
genderपुंmasc.
नरासिराशिवमतिदुन्दुभीनामृषेरपि ।वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
निस्त्रिंशस्तरवारिश्छिदिरो धारापथस्त्रिमार्गोऽसिः ।खड्गश्च गाढमुष्टिर्लोहभुजंगो जयश्रीदः ॥ २८ ॥
आर्या
genderपुंmasc.
आत्म-मेघ-तरि-कूप-रिपूणांनिभ( ? )गाङ्गि-किरणासि-कफानाम् ।वृक्ष-तण्डुल-समास-कन्दुक-प्रोन्दुकाशनि-कपर्द-विषाणाम् ॥ ४ ॥
metre not recognisednearly स्वागता: pāda 2, syllable 1 नि (wrong syllable)
genderपुंmasc.
एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः ।संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् ।नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥
metre not recognised
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
कौक्षेयकासिनिस्त्रिंशकृपाणाः करवालकः ।तरवारिर्मण्डलाग्रं खड्गनामावलिं विदुः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निस्त्रिंशमण्डलाग्रौ चासिः कौक्षेयकसंज्ञकः ।करवालश्चन्द्रहास ऋष्टिरिष्टी त्सरुः पुनः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
वर्षश्वेतप्लवाः शोणः पङ्कमन्थजलाशयाः ।मुरजात्मासिमासाद्रिबाणध्वानाध्वराग्नयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
खड्गे तु मण्डलाग्रः स्यान्निस्त्रिंशो रिष्टिरित्यपि ।कौक्षेयकश्चन्द्रहासः कृपाणोऽसिरपि स्मृतः ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
लक्षं वेधनकं शक्यं कुठारः परशुः स्वधिः ।करवालो मण्डलाग्रः खड्गोऽसिर्ल्लोहपन्नगः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
करवालासिनिस्त्रिंशकृपाणतरवारयः ।मण्डलाग्रश्चन्द्रहासः खङ्गकौक्षेयरिष्टयः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
श्रीगर्भस्तीक्ष्णकर्मा च शस्त्रः कौक्षेयकोऽक्षरः ।व्यवहारश्च देवोऽसिः विजयश्च विषाग्रजः ॥ १२८४ ॥
अनुष्टुप्
genderपुंmasc.
सुरन्दाना च सुवला मालती च शरावती ।वेत्रवती चन्द्रभागा रथम्पा सरयूरसि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderस्त्रीfem.
कौक्षेयस्तरवारिः स्यात्तरवारः कृपाणकः ।निस्त्रिंशः करवारोऽसिः कृपाणी शस्त्र इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
प्रगे प्रातः प्रभाते स्यात् त्वन्मदर्थेऽसि चास्मि च ।पूर्वे वर्षे परुत् पूर्वतरे वर्षे परारि च ॥
अनुष्टुप्
genderअindecl.
मण्डलाग्रासिनिस्त्रिंशखड्गकौक्षेयरिष्टयः ।चन्द्रहासः कृपाणस्तु स्त्रियां च करवालवत् ॥ १३३६ ॥
अनुष्टुप्
genderपुंmasc.
ऋष्टिः खङ्गः प्रचारोऽसिर्धर्मपालः प्रजागरः ।धर्मो विशसनो देवो मनुष्येष्टः शिवंकरः ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
श्रीगर्भो विजयः शास्ता कृपाणासंगरिष्टयः ।कौक्षेयको भद्रसुतो ह्रस्वनिर्वंशकस्त्वसिः ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.
अगरुण्ययसो गुन्द्रे शरस्य मकरे त्वसेः ।शुभस्य फेनिले पुंसि कार्पासे वाससो नरः ॥ १६ ॥
अनुष्टुप्
meaningsफेनिल
असि as a meaning in nānārtha verses
- धरणिकोश चन्द्रहासचन्द्रहासो रावणासिरसिमात्रे च कीर्तितः । अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ॥ Dharaṇikośa 31.2.23
- कोषकल्पतरु खड्गखड्गस्तु बुद्धासिषु खड्गिशृङ्गे स्याद्गण्डकेऽथ त्रिषु दुर्गमे स्यात् । दुर्गः शिवानीलिकयोः स्त्रियां स्या- च्चापेऽपि शार्ङ्गं समुदीरयन्ति ॥ ६ ॥ Koṣakalpataru 6.3.6
- कोषकल्पतरु धाराङ्गगुह्ये गुडत्वचि शिरोगजयोर्वराङ्गं पत्राङ्गमाहुरिह पद्मकभूर्जयोश्च । कोके रथाङ्ग उदितश्चरमे तु चक्रे धाराङ्ग आदिमगतोऽप्यसितीर्थवाची ॥ २२ ॥ Koṣakalpataru 6.3.22
- नानार्थार्णवसंक्षेप चन्द्रहासचन्द्रहासोऽसिमात्रे स्याद् दशास्यस्याप्यतावसौ । खड्गभेदेऽपि तं प्राहुर्वैजयन्त्यां यथापठीत् ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 6.56
- नानार्थार्णवसंक्षेप व्यवहारव्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ १०६ ॥ Nānārthārṇavasaṃkṣepa 6.106
- शारदीयाख्यनाममाला सारङ्गवीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ Śāradīyākhyanāmamālā 3.5.127
- शब्दरत्नावली खङ्गखगो विहङ्गे देवे च ग्रहे सूर्ये च मङ्गले । खङ्गो गण्डशृङ्गेऽसिबुद्धभिद्गण्डकेषु च ॥ Śabdaratnāvalī 7.3.5
- शब्दरत्नाकर व्यवहारव्यवहारो वाक्प्रयोगे विवादे द्यूतदण्डयोः । शासने वित्तसंवादे संबन्धेऽसिवणिज्ययोः ॥ २२२५ ॥ Śabdaratnākara 4.1.2225
- वैजयन्ती कोशगुह्येऽण्डे वेष्टके पेश्यां पुस्तकासिपिधानयोः । कोलं बदरतक्कोलशुण्ठीव्योषेऽर्धकर्षके ॥ १६ ॥ Vaijayantī 6.5.16
- वैजयन्ती व्यवहारव्यवहारो वाक्प्रयोगे संबन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ ४३ ॥ Vaijayantī 8.1.43