देशिक
deśikaपुं · masc.In 7 kośas: 6 synonym verses, 1 as a nānārtha head word.
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ ।प्रवासी तद्गणो हारिः पाथेयं शम्बलं समे ॥ ४९३ ॥
अनुष्टुप्
genderपुंmasc.
प्राघूर्णकः प्राघुणकः प्राघुणो गाथ इत्ययम् ।गृहागतः स्यादतिथिर्द्वयोर्देशिक इत्यपि ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्ध्वंदमः स्थितोर्ध्वौ च प्रवासी देशिकोऽध्वगः ।अध्वन्यश्चाध्वनीनश्च पान्थो हारिस्तु तद्गणे ॥ १५७ ॥
अनुष्टुप्
genderविadj.
प्रवासी पथिकः पान्थोऽध्वनीनश्चाऽध्वगस्तथा ।अध्वन्यो देशिकश्चैव कथितो मार्गगन्तरि ॥ ७६७ ॥
अनुष्टुप्
genderपुंmasc.
स्यात् कृताभिषवः सुत्वा श्रोत्रियच्छान्दसौ समौ ।अध्यापक उपाध्याय आचार्यो देशिको गुरुः ॥ ११९४ ॥
अनुष्टुप्
genderपुंmasc.
सदस्या देशिकाः स्थेयाः सभास्ताराः सभासदः ।सभ्याः सामाजिकाश्चाथ गोष्ठ्यास्था परिषत् सभा ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.