पथिक
pathikaपुं · masc.In 14 kośas: 16 synonym verses, 7 as a meaning of another word.
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ ।प्रवासी तद्गणो हारिः पाथेयं शम्बलं समे ॥ ४९३ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
अभ्यागारिकमिच्छन्ति कुटुम्बव्यापृतं जनाः ।पान्थोऽध्वगोऽध्वनीनः स्यादध्वन्यः पथिकस्तथा ॥ ३५७ ॥
अनुष्टुप्
genderपुंmasc.
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।यातुर्गन्तुरथो हारिः पथिकानां च संहतौ ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्दैवतत्परोऽजिह्मः प्रगुणः प्राञ्जलोप्यृजुः ।सरलः प्रोष्यः पथिकः समीचीनः समञ्जसः ॥ ५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्यः (wrong syllable)
genderविadj.
पान्थोऽध्वगोऽत्कः पथिकोऽध्वनीनो-ऽध्वन्यः प्रवासागमथश्च गन्तुः ।स्याद्दैशिकोऽयं पथि[6b]लोऽपि गातुर्गोतुश्च पान्था पथिकी तथा स्त्री ॥ ६८ ॥
इन्द्रवज्राmetre not read in every line
genderपुंmasc.
त्रिषु सर्वपथव्यापी भवेत्सर्वपथीनकः ।पथिकः स्यात्पथिबुद्धिः पथिका योषिदीदृशी ॥ ७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थि (wrong syllable)
genderविadj.
पथिके पथिकः(लः?) पान्थोऽध्वनीनोऽध्वन्य इत्यपि ।पुरोहिताद्यभिप्रायपरीक्षकप्रकारके ॥ २६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable)
genderपुंmasc.
काश्या मृदन्नाश्चण्डाला भेकवैरिण इत्यपि ।शैक्रोटिकास्तु गुल्मिन्यः(?) पथिका रक्तपायिकाः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
सांदेशिको दौत्यकरो दूतः पान्थः प्रवासधृक् ।प्रवासी पथिकोऽध[ध्व]न्योऽध्वगो? मित्रं सखा सुहृत् ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
अवसर्पः स्पशश्चारो हेरिकः प्रण(णि)धिश्चरः ।संदेशहारको दूतः पान्थस्तु पथिकोऽध्वगः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
प्रवासी पथिकः पान्थोऽध्वनीनश्चाऽध्वगस्तथा ।अध्वन्यो देशिकश्चैव कथितो मार्गगन्तरि ॥ ७६७ ॥
अनुष्टुप्
genderपुंmasc.
भावे कर्मणि दूतस्य दूत्यमित्यभिधीयते ।पथिको मन्तुरध्वन्योऽध्वनीनो यातुरध्वगः ॥
अनुष्टुप्
genderपुंmasc.
ऊर्ध्वंदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् ।गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले ॥ १०५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 थि (wrong syllable)
genderपुंmasc.
संशप्तकाः स्युः समरात् समयादनिवर्तिनः ।पान्थाध्वनीनपथिकाध्वगाध्वन्यास्तु यात्रिकाः ॥ १३६१ ॥
अनुष्टुप्
genderपुंmasc.
लेखस्थानं ग्रन्थकुटी मुद्रा प्रत्ययकारिणी ।यातुर्गन्तुश्च पथिको हरिः पथिकसन्ततिः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
पथिक as a meaning in nānārtha verses
- कोषकल्पतरु समीरणस्याच्छाटके चाथ समीरणः स्या- द्वाते फणिज्जे पथिके च पुंसि । स्यात्पर्वरीणं दलनाडिकायां रसे दलादेर्घृतकम्बलेऽपि ॥ ५८ ॥ Koṣakalpataru 6.15.58
- कोषकल्पतरु अत्नवस्नो निमानेऽपि च वेतनेऽस्त्री क्लीबे तु वस्नं द्रविणार्थकं स्यात् । अत्नो रवौ ना पथिकेऽन्यवत्स्या- त्स्वप्नस्तु सुप्तावपि दर्शने न ॥ ९२ ॥ Koṣakalpataru 6.21.92
- नानार्थार्णवसंक्षेप गन्तृकुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः । लुप्तवर्णपदे वाक्ये गन्तुस्तु पथिकेऽतिथौ ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 2.4.7
- नानार्थार्णवसंक्षेप यातुयातु क्ली राक्षसे ना तु पाप्मन्यन्यस्तु मन्यते । पथिके त्रिष्विति स्त्री तु याता देवरयोषिति ॥ १०६१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1061
- शब्दरत्नावली समीरणघन्टापथे रणारम्भे असम्बादचमूपतौ । समीरणः समीरे स्यात्पयिके च फणिज्झके ॥ Śabdaratnāvalī 7.15.93
- शब्दरत्नावली प्रोथपीथः पुंसि भास्करेऽग्नौ सलिले तु न पुंसकम् । पृथुरग्नौ नृपे पुंसि निपुणे महति त्रिषु ॥ त्वक्पत्रीकृष्णजिराहिफेणेषु च भवे स्त्रियाम् । प्रोथोऽस्त्री वाजिघोणायां कटे ना पथिके त्रिषु ॥ Śabdaratnāvalī 7.17.4
- शब्दरत्नावली इत्वरआशरो राक्षसे पुंसि तथा वैश्वानरेऽपि च । इत्वरी कुलटायां स्त्री पथिकक्रूरयोस्त्रिषु ॥ ईश्वरः शङ्करे कामे नाट्ये स्वामिनि वाच्यवत् । ईश्वरा चेश्वरी गौर्य्यां लक्ष्मीवाण्यादिशक्तिषु ॥ Śabdaratnāvalī 7.27.58