कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आस्था

āsthāस्त्री · fem.

In 14 kośas: 12 synonym verses, 10 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.278 · p. 16
संवित्संधाऽऽस्थाऽभ्युपायः संप्रत्याङ्भ्यः परः श्रवः ।अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ २७८ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 22
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 235
आस्थाऽऽस्थानी-परिषदः समज्या गोष्टिका च सा ।आस्थानं च सदः पुंसि स्त्रीनपुंसकयोः सदः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.15 · p. 31
आक्रोशनमभिष्वङ्गो निवेशो रचना स्थितिः ।आस्यासनास्था-स्थितयोऽभ्युपपत्तिस्त्वनुग्रहः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.194 · p. 28
अङ्गीकाराभ्युपायास्थाः संधा संविच्च संश्रवः ।प्रतिश्रवाभ्युपगमौ प्रतिज्ञासंगराश्रवाः ॥ १९४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.146 · p. 119
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.58 · p. 8
प्रमथाः स्युः पारिषदाः परिकाः शासनप्रियाः ।नान्द्यः सभायामास्थानी चास्था वैखी विघट्टिनी ॥ ५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.402 · p. 51
अथाऽऽस्था संश्रवः सन्धा संवित् प्रतिश्रवाऽऽश्रवौ ।आगूश्चापि प्रतिज्ञा वै समाधिः सङ्गरस्तथा ॥ ४०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.743 · p. 104
सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.331 · p. 443
स्थितिरास्था भवेदास्या तथैवाऽसना किल ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.97 · p. 196
आस्थानमास्था, दैवज्ञे नैमित्तिको निमित्तवित् ।नैमित्तोऽपि च मौहूर्तो मौहूर्तिकेऽथ लेखके ॥ ९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्ति (wrong syllable); pāda 4, syllable 3 र्ति (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.13 · p. 124
सदस्या देशिकाः स्थेयाः सभास्ताराः सभासदः ।सभ्याः सामाजिकाश्चाथ गोष्ठ्यास्था परिषत् सभा ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.169
आस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास थार्धश्लोकः Dharaṇikośa 16.2.1 · p. 89
आस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः ।संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥
अनुष्टुप्
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.109 · p. 246
तुर्याश्रमे संनिपरः स विरोधे तु तिष्ठतिः ।पर्यवात्प्रत्यवाच्चाङो यत्ने प्रात्तु गतौ नितः ॥ १०९ ॥
अनुष्टुप्
meaningsयत्न
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.99 · p. 231
आस्थावलम्बस्थितियत्नवाञ्छा-सूक्ता च संस्था स्थितिनाशतौल्ये ।व्यक्तौ च यूथं तु गणे तिरश्चांबृंहेऽस्त्रियां स्त्री कुसुमप्रभेदे ॥ ९९ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.6 · p. 10
जानुकूर्परयोरस्थ्नोरन्दूस्तु गजशृङ्खले ।पादभूषणभेदे च स्यादास्था त्ववलम्बने ॥ ६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.7 · p. 10
प्रतिज्ञायत्नतात्पर्यगोष्ठीषु स्यादथापरे ।आह्वा कण्ठे कथायां चेत्याहुराह्वा तु नामनि ॥ ७ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.2 · p. 227
अथोऽर्थने च विषये धने वस्तुनि कारणे ॥अभिधेये निवृत्तौ च कुशले च प्रयोजने ।आस्था चालम्बनास्थानयत्नापेक्षास्वपि स्त्रियाम् ॥कन्था मृण्मयभित्तौ तु स्त्रियां प्रावरणान्तरे ।क्वाथोऽतिदुःखे मूर्छायां निष्काके च द्रवस्य च ॥कुथो वर्णे कथने स्यान्न क्लीबं पुंसि बर्हिषि ।कोथस्तु शाटिते नेत्ररोगभेदे च पुंस्ययम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1873 · p. 228
अधिष्ठाने चित्तदुःख आस्था गोष्ठीप्रतिज्ञयोः ।तत्परत्वेऽवलम्बेऽथ शुभवाक्याहिदंष्ट्रयोः ॥ १८७३ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.195 · p. 158
अपेक्षालम्बनं चास्था स्यादर्थो विषयेऽपि च ।भटे पुंस्यप्रतिरथं यात्रामङ्गलसाम्नि च ॥ १९५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.2 · p. 220
आस्था गोष्ठ्यां प्रतिज्ञायां तत्परत्वेऽवलंबने ।आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोः ॥ २ ॥
अनुष्टुप्