कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धौरितक

dhauritakaक्ली · neut.

In 9 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1247 · p. 48
तत्र धौरितकं धौर्यं धोरणं धोरितं च तत् ॥ १२४६ ॥बभ्रुकङ्कशिखिक्रोडगतिवद्वल्गितं पुनः ।अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम् ॥ १२४७ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.48
आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.63 · p. 259
धारास्तद्गतयः पञ्च धौर्यं धौरितकं तथा ।धौरणं धोरितं चैतन्मयूरादिगतिप्रभम् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.181 · p. 31
अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा ।आस्कन्दितं धौरितकं रेचितं वल्लितं प्लुतम् ॥ १८१ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.302 · p. 63
पुला तु स्याद्धौरितके पूर्णवेगा प्लुते मता ।वल्गिते स्यान्मध्यजवा पञ्च ते तु नपुंसकाः ॥ ३०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्म (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2254 · p. 367
गमनं नकुलस्येव धौरितकं निगद्यते ।कङ्कस्येव गमनं धौर्यं भवति ज्ञायताम् ॥ २२५४ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.300 · p. 243
धौरितकं धोरणं च धौर्यं स्यान्मुखयन्त्रणे ।खलीनं खलिन-कवी कविका कवियं कविः ॥ ३०० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable); pāda 3, syllable 4 ख (wrong syllable)
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 162 · p. 539
अथ धौरितकं धौर्यं धोरणं धौरितं च तत् ॥ १६२ ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.118 · p. 113
अश्वानां तु गतिर्धारा विभिन्ना सा तु पंचधा ।आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.121 · p. 114
अथ धौरितकं धौर्यं धौरितं धौरणं च तत् ।तच्च कंकशिखिक्रोडनकुलानां गतैः समम् ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.