कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रेचित

recitaक्ली · neut.

In 11 kośas: 14 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1248 · p. 48
उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ १२४८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.48
आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.222 · p. 113
प्लुतिस्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ २२२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 259
मृगपक्ष्यादिगतिवदथोत्तेजित-रेचिते ।मध्यवेगेन गमनं यद्भवेच्छ्लथवल्गया ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.181 · p. 31
अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा ।आस्कन्दितं धौरितकं रेचितं वल्लितं प्लुतम् ॥ १८१ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.302 · p. 63
पुला तु स्याद्धौरितके पूर्णवेगा प्लुते मता ।वल्गिते स्यान्मध्यजवा पञ्च ते तु नपुंसकाः ॥ ३०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्म (wrong syllable)
genderक्लीneut.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2257 · p. 367
पक्षिमृगसमं यानं प्लुतं भवति लङ्घनम् ।उत्तेजितं रेचितं च मध्यवेगेन या गतिः ॥ २२५७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मृ (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.260 · p. 128
आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम् ।अमूः पञ्चतुरङ्गानां गतयः परिकीर्तिताः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.261 · p. 128
आस्कन्दितं मन्दगते भृशे धोरितकं भवेत् ।रेचितं मण्डलाकारे वल्गितं दृढवेगिते ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.741 · p. 95
गतिमेदे स्त्रियामूर्मिः क्लीबे त्वर्द्धपुलायितम् ।आस्कन्दितधौरितरेचितकप्लुतवल्गितभेदभृतो गतयः ।धारास्तुरगस्य तुरस्तु गतिः पुरुषस्थितेरुन्नमिताग्रा ॥ ७४१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1824 · p. 221
उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।भ्रूकुटिर्भ्रुकुटिः सारी रेचितं त्वल्प(त्वेक?)या भ्रुवा ॥ १८२४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.118 · p. 113
अश्वानां तु गतिर्धारा विभिन्ना सा तु पंचधा ।आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.122 · p. 114
रेचितं स्याद्भारवहं तच्चावक्रगतिर्द्रुता ।वल्गितं वल्गनं पद्भिर्भेदाश्चाष्टौ यमादयः ॥ १२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्भा (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.92 · p. 143
चतुरं त्वल्पा भ्रुकुटी रेचितं त्वेकया भ्रुवा ।चेष्टाः शृंगारजाः स्त्रीणां हावा लीलादयो दश ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्पा (wrong syllable)
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1521 · p. 180
दन्तिकासंज्ञके गुल्मे कम्पिल्लेऽप्यथ रेचितम् ।क्लीबं वियोजने चापि तथा संपर्चनेऽपि च ॥ १५२१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1522 · p. 180
तथा रेचयतेरर्थे कृतायामेकया भ्रुवा ।भ्रूकुटौ तुरगाणां च गतिभेदेषु पञ्चसु ॥ १५२२ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1523 · p. 180
धारासंज्ञेषु कस्मिंश्चिद् गतिभेदेऽस्य लक्षणम् ।आवक्रद्रुतगत्यात्मेत्यथ तद्वति भेघवत् ॥ १५२३ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1524 · p. 180
कर्मभूते रेचयतेः सम्पृक्ते च वियोजिते ।रैवतस्तु पुमान् वारिवाहभूधरयोः स्मृतः ॥ १५२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
doubtful