कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नखी

nakhīस्त्री · fem.

In 4 kośas: 5 synonym verses, 2 as a nānārtha head word, 3 as a meaning of another word.

कम्पिल्वः कापिलश्च स्यात् काम्पिल्लश्च नखं नखी ।प्रपुन्नाडः प्रपुनडः प्रपुनाडश्च कथ्यते ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 169
हनुर्नागहनुः कोशी शुक्तिः शङ्खः खुरो नखः ।नखी खलो हस्तिकर्णः सामुद्रं कोलपर्णकम् ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.93 · p. 42
मुक्ता स्फोटः स्त्रियां सूक्तिः शुक्तिश्चापि नखी नखः ।अस्त्रियां कम्बुकम्बोनशङ्खाब्जजलजा अपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.237 · p. 75
नखी नखस्तु करजं तथा व्याघ्रनखीत्यपि ।शुषिरा स्यात् कपोताङ्घ्रिः नली नाली नटीति च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.239 · p. 75
हनुरञ्जनकेशी च भवेदञ्जनकेशिका ।नखी शङ्खः शङ्खनखः शुक्तिः कीलदलं नखम् ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास खार्धश्लोकः Dharaṇikośa 2.2.1 · p. 19
खं व्योमेन्द्रियलोकेषु पुरक्षेत्रेषु बिन्दुषु ।नखं नखी च सुगन्धिद्रव्ये स्यान्नखरे नखः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
meanings
शब्दरत्नावली Śabdaratnāvalī · मथुरेश खान्ताः Śabdaratnāvalī 7.2.2 · p. 190
नखी शुक्तौ स्त्रियां क्लीबे नखरेऽपि च न द्वयोः ।न्युङ्खः साधुमनोज्ञे च साम्नां षट्प्रणवेष्वपि ॥
अनुष्टुप्

नखी as a meaning in nānārtha verses

  • धरणिकोश शङ्खशङ्खो निध्यन्तरे नख्यां शङ्खः कम्बुललाटयोः । प्रेङ्खा पर्यटने नृत्ये प्रेङ्खामश्वगतिं विदुः ॥ Dharaṇikośa 2.2.4
  • कोषकल्पतरु हनुविशेष्यवत्स्याद्धनुरस्ररोगे शस्त्रे च मृत्यौ च नखीषु च स्त्री । द्वयोः कपोलावयवेऽथ सूनुः पुत्रेऽनुजे भास्वति च प्रदिष्टः ॥ २ ॥ Koṣakalpataru 6.21.2
  • शब्दरत्नावली शुक्तिश्रुतिः स्त्री श्रवणे वार्ते वेदे श्रवणकर्मणि । शुक्तिः शङ्खे शङ्खनखमुक्तास्फोटनखीषु च ॥ Śabdaratnāvalī 7.16.60