कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नख

nakhaपुं · masc.

In 22 kośas: 37 synonym verses, 6 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.594 · p. 26
कामाङ्कुशो महाराजः करजो नखरो नखः ।करशूको भुजाकण्टः पुनर्भवपुनर्नवौ ॥ ५९४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.130
शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.145
पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.511 · p. 58
अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥
गीतिः
genderपुंmasc.
कम्पिल्वः कापिलश्च स्यात् काम्पिल्लश्च नखं नखी ।प्रपुन्नाडः प्रपुनडः प्रपुनाडश्च कथ्यते ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
चपेटश्चर्पटश्च स्यान्नखरो नखरा नखः ।जिह्वो जिह्वा च रसना रसनं चिवुकं चिवुः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.33 · p. 2
द्वाविंशतेराकृतिश्च नखसंज्ञास्तु विंशतिः ।सिद्धा जिनाश्चतुर्विंशत्तत्त्वं च पञ्चविंशतिः ॥ ३३ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.178 · p. 40
कराग्रजः करशूकोनखोऽस्त्री नखरस्त्रिषु ।संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्ना मुचुटिः स्त्रियाम् ॥ १७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.47 · p. 466
पुंलिङ्गमृतुहस्तौष्ठकोष्ठाधूनां नखस्य च ।कपोलकेशदिवसरसानां स्तनगुच्छयोः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.126 · p. 475
कर्कन्ध्वाखूहनूनां च कन्दुना सहगामिनाम् ।इति स्त्रीपुंसप्रकृतिरथ स्त्रीक्लीबयोर्नखम् ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 169
हनुर्नागहनुः कोशी शुक्तिः शङ्खः खुरो नखः ।नखी खलो हस्तिकर्णः सामुद्रं कोलपर्णकम् ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.86 · p. 218
नखोऽस्त्री नखरी त्रय्यां नख्यं त्रिषु नखोद्भवम् ।प्रादेशश्च प्रदेशश्च तर्जन्या सह विस्तृते ॥ ८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.62 · p. 224
पिप्पिकं स्याद्दन्तमलं पुष्पिका लिङ्गजं मलम् ।स्वेदो मेदोमलोऽथास्थिमलौ स्तो नख-रोमणी ॥ ६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्द (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.40 · p. 111
मताः खान्तेषु चत्वारः शङ्खः पुङ्खो नखं मुखम् ।अधिकाङ्गः पद्मरागः संयुगं च युगं भगम् ॥हिङ्गूद्योगौ टङ्ग-शृङ्गौ निदाघोऽध्यर्घ-वद्भवेत् ।अर्धर्चः क्रकचः कूर्चः कवचः पुच्छ उञ्छवत् ॥ ४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.81 · p. 116
वृत्ते वसन्ततिलकं नखमत्र शुक्तौस्यात्कन्यकुब्जमपि देशगतं च पीठम् ।क्रोडा तु वक्षसि भवेदुडु तद्वदर्णास्थूणाथ संयदपि नक्तमथावहित्थम् ॥ ८१ ॥
वसन्ततिलका
genderस्त्रीक्लीf. n.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderपुंmasc.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.256 · p. 132
अनामिका तु सवित्री कनिष्ठा तु कनीनिका ।पुनर्भवो महाराजो भुजाकण्टनखावपि ॥ २५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.6 · p. 211
हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः ।स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.133 · p. 227
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.6.167 · p. 231
स्त्रीनपुंसकयोः शुक्तौ नखं पुष्पे च पाटलम् ।ओषधे मधुकं विश्वं यवाग्वां तरलापि च ॥ १६७ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.132 · p. 42
गोर्दं मस्तिष्कमस्तिष्यमस्तकालयमस्तिकाः ।वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ॥ १३२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.92 · p. 7
अनामाऽनामिका मध्या मध्यमा दीर्घपर्विका ।कनिष्ठिका कनिष्ठान्त्या करजो नखरो नखः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.36 · p. 23
कामाङ्कुशो महाराजः करजो नखरो नखः ।करशूकः कररुहो भुजाकण्टः पुनर्भवः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.957 · p. 146
महाराजो नखश्चैव नखरश्चापि कथ्यते ।प्रदेशिन्यादिभिः सार्द्धमङ्गुष्ठे वितते सति ॥ ९५७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.93 · p. 42
मुक्ता स्फोटः स्त्रियां सूक्तिः शुक्तिश्चापि नखी नखः ।अस्त्रियां कम्बुकम्बोनशङ्खाब्जजलजा अपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.237 · p. 75
नखी नखस्तु करजं तथा व्याघ्रनखीत्यपि ।शुषिरा स्यात् कपोताङ्घ्रिः नली नाली नटीति च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.239 · p. 75
हनुरञ्जनकेशी च भवेदञ्जनकेशिका ।नखी शङ्खः शङ्खनखः शुक्तिः कीलदलं नखम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.294 · p. 102
मुयुटी मुकुटी चैव भवेदङ्गुलिमोटिने ।अस्त्रियो नखरनखौ पुनर्नव-पुनर्भवौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.172 · p. 202
पुनर्नव-पुनर्भवौ करजे नखरस्त्रिषु ।नखोऽस्त्री तर्जन्यायत्तेऽङ्गुष्ठे त्वथ प्रदेशवत् ॥ १७२ ॥
metre not recognised
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1074 · p. 133
पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।प्रसृतिः कुञ्चितः पाणिः पाणौ तु प्रतताङ्गुलौ ॥ १०७४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1490 · p. 180
नखं कोलदलं शुक्तिः खुरः शङ्ख समार्थकाः ।गुडः क्षारोऽस्य विकृतौ मत्स्यण्डी खण्डशर्करा ॥ १४९० ॥
अनुष्टुप्
genderक्लीneut.
दीर्घबाहू रसो रूपं नादाख्यश्चातिचञ्चलः ।ञो धर्मः सुखदो ज्ञानी वामकराङ्गुलीनखः ।एकपादः कुण्डली च वामपाणिस्तथा नखः ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.27 · p. 53
नखं पुनर्भवः कामाङ्कुशः स्यात्करकण्टकः ।करेटुः करशूकश्च पुच्छट्यङ्गुलिमोटनम् ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.12 · p. 276
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.101 · p. 131
धमन्यंजनकेश्यौ तु हनुर्हट्टविलासिनी ।अपि शुक्तिः खुरः शंखो नखं कोलदलं समाः ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.75 · p. 179
करशाखाथ करभो मध्यं मणिकनिष्ठयोः ।तीर्थानि हस्तावयवा नखरस्तु नखोऽस्त्रियाम् ॥ ७५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास खार्धश्लोकः Dharaṇikośa 2.2.1 · p. 19
खं व्योमेन्द्रियलोकेषु पुरक्षेत्रेषु बिन्दुषु ।नखं नखी च सुगन्धिद्रव्ये स्यान्नखरे नखः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ खान्ताः Koṣakalpataru 6.2.76 · p. 161
अस्त्रियां तु नखरे तु नखः स्यात् ॥ ७६ ॥
स्वागता
meaningsनखर
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.665 · p. 99
नपुंसकं तु सलिले नखरे तु नखोऽस्त्रियाम् ।क्ली तु शुक्त्याख्यभैषज्ये नक्रस्तु ग्राहसंज्ञके ॥ ६६५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.260 · p. 195
नाडी दम्भस्य चर्यायां नाले स्नायौ गुणान्तरे ।न्यङ्कुस्ताले मृगे साधौ नखो नखरखण्डयोः ॥ २६० ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.50 · p. 108
त्रिशिखं स्यात्त्रिशूलेऽपि न्युङ्खः साम्नि मनोहरे ।नखं शुक्तौ कररुहे कूर्मे पञ्चनखो गजे ॥ ५० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.23 · p. 282
नखस्य शस्त्रनामान्ता नरो मार्जारसिंहयोः ।कुचन्दने कुंकुमे च रक्तादेश्चन्दनायः ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

नख as a meaning in nānārtha verses