हस्तिकर्ण
hastikarṇaपुं · masc.In 9 kośas: 9 synonym verses, 8 as a nānārtha head word, 1 as a meaning of another word.
स्यात्पर्णोपज्ञको वातपोथः पीतद्रुमोऽपि सः ।ब्रह्मवृक्षोऽथ तद्भेदे हस्तिकर्णः सुकण्टकी ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
स्थूलकर्णो महाशीर्षो हस्तिकर्णः प्रतर्दनः ।व्यालजिह्वो धर्मधनः संहारः क्षेमकोऽपरः ॥ ११३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंmasc.
हनुर्नागहनुः कोशी शुक्तिः शङ्खः खुरो नखः ।नखी खलो हस्तिकर्णः सामुद्रं कोलपर्णकम् ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
गन्धर्वहस्तकश्चञ्चुरदण्डो हस्तिपर्णकः ।उरुवूको हस्तिकर्णः शुक्लो रक्तश्च स द्विधा ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
चञ्चुस्तु मण्ड-आमण्डः प्राचीनामलकोऽपि च ।उरुवुको हस्तिकर्णो वातारिवर्धमानकौ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कन्दलशिलीन्ध्रपुष्पे श्लेष्मघ्ना त्रिपुरमल्लिका प्रोक्ता ।एरण्डहस्तिकर्णौ प्राचीनामलकवारिबदरे द्वे ॥ २६ ॥
गीतिः
genderपुंmasc.
कपाली जृम्भको लिम्पः स्थूलोऽकर्णविकर्णकौ ।लम्बकर्णो महाशीर्षो हस्तिकर्णः प्रमर्दनः ॥
अनुष्टुप्
genderपुंmasc.
अन्तर्लोहेन बद्धान्ते फलान्ते स्याद्वलाहका ।हस्तिकर्णः परोवण्टः फली फलकिकाल्पिका ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
कक्ष्यापटस्तु कौपीनं समौ रल्लककंबलौ ।विशालस्त्वाविकौरभ्रौ हस्तिकर्णस्तु रोचकः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
हस्तिमल्लो गणपतौ महेन्द्रस्य च कुञ्जरे ।हस्तिकर्णो रोचकाख्यकम्बले हस्तिनः श्रुतौ ॥ १२७ ॥
अनुष्टुप्
निवारणार्थे शस्त्रस्य भटानां फलकान्तरे ।हस्तिचारो गजत्रासहेतौ शरभसन्निभे ॥ १२८ ॥
अनुष्टुप्
meaningsफलक
doubtful
शरभाभे गजत्रासहेतौ यन्त्रेऽत्र पूर्ववत् ।हस्तिकर्णस्तु ना शस्त्रत्राणार्थफलकान्तरे ॥ ६९२ ॥
अनुष्टुप्
meaningsफलक
ज्ञेयः कम्बलभेदे च रोचकाख्येऽत्र पूर्ववत् ।ना तु हस्तिनखः पुर्या द्वारकूटेऽत्र पूर्ववत् ॥ ६९३ ॥
अनुष्टुप्
doubtful
सूर्यपर्णी मुद्गपर्ण्यां माषपर्ण्यामपि स्त्रियाम् ।हस्तिकर्णो ब्रह्मवृक्षे हस्तिकर्णी तु चन्दने ॥ १७३ ॥
अनुष्टुप्
meaningsब्रह्मवृक्ष
हस्तिकर्ण as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप रोचकरोचकस्तु पुमान् हस्तिकर्ण इत्यतिविश्रुते । कम्बलस्य प्रभेदे स्यात् त्रि तु रोचितरि स्मृतः ॥ १५३६ ॥ Nānārthārṇavasaṃkṣepa 4.1536