कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पक्ति

paktiस्त्री · fem.

In 7 kośas: 1 synonym verse, 6 as a nānārtha head word, 2 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 276
पक्तिः पचा रन्धनं च पाकः पक्त्रिम-पाकिमे ।निवृत्ते पाकतोऽथ स्यात्पक्ता * * च पाचकः ।महानसे त्वधिकृते पौरोगव-पुरोगुकौ ।सूदाध्यक्षश्च सूदास्तु पाकुका वल्लवा गुणाः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.66 · p. 214
व्याप्तिस्तथा व्यापनलम्भयोः स्यात्भ्रान्तिस्तु मिथ्याधियि च भ्रमेऽपि ।पक्तिस्तथा गौरवपाकयोः स्या-द्रक्तिस्तु रागेऽपि च गीतिभेदे ॥ ६६ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.67 · p. 15
पक्तिस्तु गौरवे पाकेऽथाश्वायां मातरि प्रसूः ।पारिः सृणिगुणे घण्ट्यां पालिश्चिह्नाश्रिपङ्क्तिषु ॥ ६७ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.301 · p. 200
पल्लिर्भिल्लादिवासे स्यात्प्रजा संतानलोकयोः ।पक्तिस्तु गौरवे पाके पलं मांसे मितावपि ॥ ३०१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.21 · p. 215
नतं तगरपाद्यान्तु त्रिषु स्याद्वक्रनम्रयोः ।नीतिर्नये प्रायणे च पक्ति गौरवपाकयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.172 · p. 150
लब्धे समञ्जसे प्राप्तं पक्तिर्गौरवपाकयोः ।पारिजातो देवतरौ मन्दारे पारिजातके ॥ १७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.22 · p. 221
पालिरश्रिः प्रदेशोंऽकः सश्मश्रुः स्त्री त्सरुश्छदः ।छन्दः संख्यावली पङ्क्तिः पक्तिर्गौरवपाकयोः ॥ २२ ॥
अनुष्टुप्

पक्ति as a meaning in nānārtha verses