कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पचा

pacāस्त्री · fem.

In 5 kośas: 7 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.8
व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.179 · p. 152
पटूत्तमं वरं शुद्धं धौतेयं च शिलात्मजम् ।विमलं मणिमन्थं स्याच्छिवं भाष्यं पचा स्त्रियाम् ॥ १७९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.41 · p. 239
व्यधा वेधे पचा पाके विपाकः पचनं पुनः ।विश्रामविश्रमौ तुल्यौ हवो हूतौ वरो वृतौ ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 276
पक्तिः पचा रन्धनं च पाकः पक्त्रिम-पाकिमे ।निवृत्ते पाकतोऽथ स्यात्पक्ता * * च पाचकः ।महानसे त्वधिकृते पौरोगव-पुरोगुकौ ।सूदाध्यक्षश्च सूदास्तु पाकुका वल्लवा गुणाः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.17 · p. 31
घटना पुंसि संघर्षः श्रथना तु विमोचना ।अथ प्रश्नाख्यानयोः स्युः पचा पाचिश्च पाचिका ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.16 · p. 171
रक्ष्नस्त्राणे व्यधो वेधे वरणे तु वृतिर्वरः ।पचा पाको निपाकश्च पचने तु भवेत् त्रयम् ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.32 · p. 194
प्रेजनं स्यादपसरो रंधनं पचनं पचा ।क्षयः क्षिया नयो नायो मदो मादः स्नवः स्रवः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.