कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

परिताप

paritāpaपुं · masc.

In 6 kośas: 4 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.601 · p. 68
क्षवथुः कथ्यते कासो वेपथुः कम्प उच्यते ।दवथुः परितापः स्याद् ग्लानिश्च क्लमथुः स्मृतः ॥ ६०१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.23 · p. 237
प्रभुता प्रभवन्ती स्यात्संदर्भो रचना न ना ।दवथुः परितापः स्याद्दाक्षिण्यमनुकूलता ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1856 · p. 226
परितापस्तु दवथुरनुतापो विसूरिता ।सादोऽवसन्नता खेदः क्रीडनं तु विनोदनम् ॥ १८५६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.122 · p. 183
दवथुः परितापः स्यात् ग्लानिः स्त्री ग्लवथुः पुमान् ।शोफोऽस्त्री श्वयथुः शोथः पादस्फोटो विपादिका ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पान्ताः Śabdaratnāvalī 7.21.21 · p. 249
उपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु ।जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे ।परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥परितापः पुमान् दुःखे शोके च नरकान्तरे ॥
अनुष्टुप्

परिताप as a meaning in nānārtha verses

  • कोषकल्पतरु ईर्ष्यतिईर्ष्यंतीर्क्ष्यति च सूर्क्ष्यतीर्यते स्यादिरस्यति भवेदिरज्यति । ईर्यतीत्यथ दुनोति दूयते कूटयत्यभिहिताः परितापे ॥ ८३ ॥ Koṣakalpataru 3.5.83