All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
पातालकाण्डः · भूताध्यायः (2/2)
पित्तं मायुर्नरि श्लेष्मा बलासः खेटकः कफः ।क्षुत् स्त्री क्षुतः क्षवः पुंसि प्रतिश्यायस्तु पीनसः ॥ १२१ ॥
4.4.121 · p. 183
अनुष्टुप्
दवथुः परितापः स्यात् ग्लानिः स्त्री ग्लवथुः पुमान् ।शोफोऽस्त्री श्वयथुः शोथः पादस्फोटो विपादिका ॥ १२२ ॥
4.4.122 · p. 183
अनुष्टुप्
स्फोटकः कीलको गण्डो विस्फोटः पिटका त्रयी ।खसः पुमान् स्त्रियः कच्छूपामपामाविचर्चिकाः ॥ १२३ ॥
4.4.123 · p. 183
अनुष्टुप्
कण्डूकण्डूतिकण्डूयाः खर्जूः कण्डूयने स्त्रियः ।यक्ष्मा यक्ष्मः क्षयः शोषः कोठः कुष्ठं च मण्डलम् ॥ १२४ ॥
4.4.124 · p. 183
अनुष्टुप्
श्वित्रं श्वेतेऽत्र चक्रं तु दद्रुः स्त्री मुखजः पुनः ।पुंहलोऽपि वरण्डोऽपि व्यंगो नीलं पृषन्मुखे ॥ १२५ ॥
4.4.125 · p. 183
अनुष्टुप्
मंकुस्तु सिद्ध्म सिध्मं च केशघ्नं त्विन्द्रलुप्तकम् ।उद्गालो वमथूद्गारौ वान्तिः प्रच्छर्दिका वमिः ॥ १२६ ॥
4.4.126 · p. 183
अनुष्टुप्
झिणिका वातसंचारो हिक्का हेक्का च हिक्किका ।उच्छ्वासरोधो योऽकस्मात् क्राथोऽसौ क्रथनं क्षणम् ॥ १२७ ॥
4.4.127 · p. 183
अनुष्टुप्
अश्मरी मूत्रकृच्छ्रं स्यात् प्रमेहस्त्वतिमूत्रतः ।आनाहो मलविष्टंभ उत्थानं तु मलस्रुतिः ॥ १२८ ॥
4.4.128 · p. 183
अनुष्टुप्
नातिभिन्नस्त्वतीसारो ग्रहणी स्त्री प्रवाहिका ।गलगण्डो गण्डमालो रोहणी तु गलांकुरः ॥ १२९ ॥
4.4.129 · p. 183
अनुष्टुप्
गुल्मः स्यादुदरग्रन्थिः सीवनीजो भगन्दरः ।शंबूकावर्त एष स्यात्त्रिदोषोत्थोऽथ पित्तजः ॥ १३० ॥
4.4.130 · p. 183
अनुष्टुप्
स्यादुष्ट्रग्रीवकोऽथ स्त्री परिस्रावी कफोद्भवः ।अर्शो दुर्नाम वृद्धिस्तु कुरण्डश्चाण्डवर्द्धने ॥ १३१ ॥
4.4.131 · p. 183
अनुष्टुप्
उपदंशो लिंगशोफ उदावर्त्तो गुदग्रहः ।नेत्ररुक्कामला क्लीबं कुंभः स्यात्सा महत्तरा ॥ १३२ ॥
4.4.132 · p. 184
अनुष्टुप्
श्लीपदः पदवल्मीको गतिर्नाडीव्रणः पुमान् ।अर्बुदो मांसकीलः स्यात्पृष्ठग्रन्थिर्गुडो गडुः ॥ १३३ ॥
4.4.133 · p. 184
अनुष्टुप्
सुप्तः कुक्कुट एकांगग्रहश्च वरुणग्रहः ।गजे ज्वरस्य नामानि सिंहे तोये च सोऽण्डिकः ॥ १३४ ॥
4.4.134 · p. 184
अनुष्टुप्
उष्ट्रे लसोऽभितापोऽश्वे व्याघ्रे पोतो गवीश्वरः ।बिडाले क्वणकः पोत्रिण्यलसश्छर्दनः शुचिः ॥ १३५ ॥
4.4.135 · p. 184
अनुष्टुप्
क्रमाद्धारिद्रेन्द्रमदौ मृगरोगौ पपा ततः ।महिषे मत्स्यमृगयोः खगे चाक्षेपकोऽनिले ॥ १३६ ॥
4.4.136 · p. 184
अनुष्टुप्
धरण्यां करकोत्पाटावुद्भिज्जे पाण्डुवर्णकः ।मारिर्मसूरी रुग्भेदाः शूलाद्या विद्रधिर्न षण् ॥ १३७ ॥
4.4.137 · p. 184
अनुष्टुप्
व्याधिव्याप्यामया माथरोगामा देहमर्दनः ।संतापोऽपाटवं मान्द्यमाकुल्यं रुग्रुजे स्त्रियौ ॥ १३८ ॥
4.4.138 · p. 184
अनुष्टुप्
उपचर्या चिकित्सा स्याल्लंघनं त्वपतर्पणम् ।कुशी भग्नास्थिबन्धः स्यादरिष्टो दंशबन्धनम् ॥ १३९ ॥
4.4.139 · p. 184
अनुष्टुप्
पट्टस्तु व्रणबन्धः स्यान्नस्यं नस्तं च नावनम् ।अङ्गल्यग्रेण चूर्णाद्यैर्घर्षणं प्रतिसारणम् ॥ १४० ॥
4.4.140 · p. 184
अनुष्टुप्
जायुः पुंस्यगदस्तन्त्रं भैषज्यौषधभेषजम् ।क्वाथः कषायो निर्यूहः फाण्टोऽतिक्वाथजो रसः ॥ १४१ ॥
4.4.141 · p. 184
अनुष्टुप्
क्वाथादेस्तु पुनः क्वाथात् घनीभावो रसक्रिया ।वार्तं पाटवमारोग्यं संग्यं स्वास्थ्यमनामयम् ॥ १४२ ॥
4.4.142 · p. 184
अनुष्टुप्
त्रिष्वतः पटुरुल्लाघो वार्तः कल्यो निरामयः ।रोगहार्यगदंकारो भिषग्वैद्यश्चिकित्सकः ॥ १४३ ॥
4.4.143 · p. 184
अनुष्टुप्
निदानज्ञस्तु दोषज्ञ आयुर्वेदी तु शास्त्रवित् ।आतुरोऽभ्यमितोऽभ्यान्तो विकृतो व्याधितोऽपटुः ॥ १४४ ॥
4.4.144 · p. 185
अनुष्टुप्
आमयावी समौ ग्लास्नुग्लानौ पामनकच्छुरौ ।वातार्शोदद्रुमन्तः स्युर्वातलार्शसदद्रुणाः ॥ १४५ ॥
4.4.145 · p. 185
अनुष्टुप्
श्लेष्मसूः श्लेष्मलः खेटी सातिसारोऽतिसारकी ।किलासी सिध्मलो वृद्धनाभौ तुण्डिभतुण्डिलौ ॥ १४६ ॥
4.4.146 · p. 185
अनुष्टुप्
खल्वाटः खलतिर्बभ्रुः शिपिविष्टैन्द्रलुप्तिकौ ।
4.4.147 · p. 185