कास
kāsaपुं · masc.In 14 kośas: 13 synonym verses, 6 as a meaning of another word.
कासस्तु क्षवथुः पामा खसः कच्छूर्विचर्चिका ।
अनुष्टुप्
genderपुंmasc.
स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ।
अनुष्टुप्
genderपुंmasc.
क्षवथुः कथ्यते कासो वेपथुः कम्प उच्यते ।दवथुः परितापः स्याद् ग्लानिश्च क्लमथुः स्मृतः ॥ ६०१ ॥
अनुष्टुप्
genderपुंmasc.
ईर्ममीर्म च तुल्यं स्यात् कासः काशश्च कथ्यते ।दर्द्रुर्दर्द्रूस्तथा दद्रुर्दद्रूरपि निगद्यते ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
काशस्तु कासः क्षवथुः पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या स्त्री क्षुत्क्षवः क्षुतमन्तिमे ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
खसः कण्डूयनं चापि कण्डूयापि निगद्यते ।कासः क्षवथुरप्युक्तो व्रणे क्षतमितीरितम् ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
क्षुतिः क्षुतं क्षुवः क्षुच्च कासः स्यात्कासरोगके ।श्वयथुः शोफशोषौ च शोषरोगे प्रकीर्तितौ ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
ईक्षोर्मूलस्य नामात्र मोरटं मन्यते बुधैः ।काशः कासमिषीका च तृणभेदोऽपि कथ्यते ॥ २१५६ ॥
अनुष्टुप्
genderक्लीneut.
क्षवथुः काशकासौ च श्वयथुः शोथशोफकौ ।स्फुटी विपादिका पादस्फोटश्च स्फुटिरित्यपि ॥
अनुष्टुप्
genderपुंmasc.
क्षवथौ काशः कासोऽपि, खसे पामा तु पामया ।कच्छूः कच्छुः स्त्रियां सर्वे, खर्ज्वां कण्डूयनं मतम् ॥ ८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शः (wrong syllable)
genderपुंmasc.
कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया ।यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥
अनुष्टुप्
genderपुंmasc.
अर्शस्तु पायुकीलः स्यात् प्रतिश्यायस्तु पीनसः ।क्षुतं स्त्री क्षुत् क्षवः पुंसि कासः क्षवथुरित्यपि ॥ १०९४ ॥
अनुष्टुप्
genderपुंmasc.
कास as a meaning in nānārtha verses
- धरणिकोश क्षवथुनिर्ग्रन्थः क्षपणे निःस्वे क्षवथुः क्षुतकासयोः । मन्मथौ स्मरकपित्थौ सिद्धार्थौ बुद्धसर्षपौ । गोग्रन्थिः करवीरे तु षड्ग्रन्था तु शटी वचा ॥ Dharaṇikośa 16.1.3
- नानार्थार्णवसंक्षेप क्षवथुनवनीतेन मिश्रे च तक्रे नवविलोलिते । क्षवथुस्तु क्षुते कासे कारुजः पुनरुच्यते ॥ ७१ ॥ Nānārthārṇavasaṃkṣepa 3.2.71
- शब्दरत्नावली क्षवथुउपास्थो ना समीपस्थे क्रोडे च योनिशेफयोः । उद्रथो रथोकीले स्यात्ताम्रचूडतिहङ्गमे । क्षवथुर्ना क्षुते कासे कण्ठकण्डूयनेऽपि च ॥ Śabdaratnāvalī 7.17.11
- शब्दरत्नावली काशअंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् । आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥ आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् । ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥ काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् । अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥ Śabdaratnāvalī 7.30.2
- शब्दरत्नाकर क्षवथुकुम्भीरस्तस्करे नक्रे क्षवथुः क्षवकासयोः । कलहो द्वन्द्वरणयोः कर्परोऽग्निकपालयोः ॥ २०८१ ॥ Śabdaratnākara 4.1.2081
- वैजयन्ती क्षवथुकलमोंऽकुरलेखन्योः कठाकुः खगशिल्पिनोः । कारुजः कलभे नाके क्षवथुः क्षुतकासयोः ॥ १८ ॥ Vaijayantī 7.1.18