दुःख
duḥkhaक्ली · neut.In 18 kośas: 23 synonym verses, 2 as a nānārtha head word, 50 as a meaning of another word.
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
अनुष्टुप्
genderक्लीneut.
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ।स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
यातना कारणा प्रोक्ता कारा बन्धनमुच्यते ।आबाधा वेदना दुःखमर्तिः पीडा व्यथा तथा ॥ ६२६ ॥
अनुष्टुप्
genderक्लीneut.
दुःखं दुष्खमपि प्रोक्तं सुकृतं सूकृतं तथा ।भन्दं भद्रमपि प्रोक्तं सुखं सौख्यमुभे समे ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
यातना कारणा दुःखमामनस्यं प्रसूतिजम् ।स्यात्कष्टं कृच्छमाभीलं क्लेशं दुःसहमित्यपि ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
अराप्यैन्द्री कालकर्णं स्यादलक्ष्मीश्च निरृतिः ।अकं दुःखमघं कल्कं कृच्छ्रं बाधनमित्यपि ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderक्लीneut.
सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् ।भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे दुःखमकं कलाकल अमानस्याऽऽमनस्ये तथा-ऽऽभीलं स्याद्गहनं प्रगाधमुदितं कष्टं च कृच्छ्रं समम् ।तृप्रः सूतिजकक्षसत्रमसुखं पुंस्याधिरर्त्तिः स्त्रियाम्आबाधाऽपि च वेदना निगदिता पीडा च बाधा व्यथा ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
पाप्माबाधो विकारश्च यक्ष्मा यक्ष्मश्च जन्म(क्ष्म?)वत् ।व्याधिर्ना दुःखमाकल्पं मान्द्यं खिद्रोऽप्यपाटवम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः ।भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् ।विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
सौख्यं सातं तथा दुःखं पीडा स्यादर्तिवेदने ।कष्टं कृच्छ्रं व्यथा बाधा स्यादाभीलं तथाशुभम् ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
वल्कलान्तिकदुःखानां वाससो लवणस्य च ।रत्नादीनां सभेदानां नामानि स्युर्नपुंसके ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
विपत्तिरापद्दुःखाधिः कुणपः शवकः शवः ।प्रग्रहोपग्रहौ बन्धः कारा बन्धनमन्दिरम् ॥ २४२ ॥
अनुष्टुप्
genderक्लीneut.
दुःखं कष्टं व्यथा पीडा वेदना यातनासुखम् ।कृच्छ्रं बाधार्तिराभीलं विधुरं व्यसनं विपत् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
दुःख व्यथाऽसुखं पीडा बाधा बाघश्च वेदना ।आमनस्यममानस्यं प्रगाढञ्च प्रसूतिजम् ॥ २४९२ ॥
अनुष्टुप्
genderक्लीneut.
पीडा कष्टं व्यथा दुःखं अर्तिरार्तिश्च पीडनम् ।आबाधा बाधनं बाधा कृच्छ्रं दुःखं प्रसूतिजम् ॥
अनुष्टुप्
genderक्लीneut.
रोगरागादिना दुःखे क्लेश आदीनवास्रवौ ।मेलने सङ्गमः सङ्गो निषङ्गो मेल इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
अकं दुःखमघं चैन्द्री त्वलक्ष्मीः कालकर्णिका ॥ १ ॥
genderक्लीneut.
यातना कारण दुःखं त्वामनस्यं प्रसूतिजम् ।स्यात् कष्टं कृच्छ्रमाभीलं त्रिष्वेषां तद्वदर्थकाः ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
genderक्लीneut.
सख्यं साप्तपदीनं स्यात् कौतुकं तु कुतूहलम् ।कौतूहलं विनोदश्च दुःखं पीडाव्यथार्तयः ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
सुखं दुःखं मलं छिद्रं किलासं सिध्ममर्मरौ ।रभसः पलितं श्वित्रमेतेऽपि त्रिषु धर्मिणि ॥ १४४ ॥
अनुष्टुप्
genderविadj.
दुर्गा द्रुणी तु कच्छप्यां स्त्री मौर्व्यां तु द्रुणाथ नप् ।द्रुणं धनुषि दुःखं तु क्ली व्यथायामथ त्रिषु ॥ ६०८ ॥
अनुष्टुप्
meaningsव्यथा
तत्साधने द्युतिस्तु स्त्री प्रभाभिगमकान्तिषु ।पुमांस्तु द्योततौ ना तु द्युवार्कस्वर्गराजसु ॥ ६०९ ॥
अनुष्टुप्
meaningsदुःखसाधन
doubtful
दुःख as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अघमूल्ये पूजाविधावर्घोंऽहोदुःखव्यसनेष्वघम् ॥ २७ ॥ Amarakośa 3.3.27
- हलायुधकोशः (अभिधानरत्नमाला) बाधाशलाकायुधयोः शल्यं बाधा दुःखनिषेधयोः । स्थूणास्तब्धत्वयोः स्तम्भ इला वागघ्न्ययोरपि ॥ ८३४ ॥ Abhidhānaratnamālā (Halāyudha) 5.834
- धरणिकोश अघअघमंहसि दुःखे च व्यसनेऽप्यघमुच्यते । लघुः शोभननिःसारशीघ्रपृक्का[गुरुष्वपि ?] ॥ Dharaṇikośa 4.2.2
- धरणिकोश क्वाथक्वाथः स्याद्द्रवनिष्पाके क्वाथो दुःख उदाहृतः । समर्थः कथितः शक्ते संबद्धार्थे हितेऽपि च ॥ Dharaṇikośa 16.2.6
- धरणिकोश बाधाश्रद्धा संप्रत्ययः काङ्क्षा बाधा दुःखनिषेधयोः । गोधा तले निहाकायां बोधी समाधिपिप्पलौ ॥ Dharaṇikośa 18.1.1
- धरणिकोश कृच्छ्रकृच्छ्रं दुःखं प्रायश्चित्तं सरः स्थाणुः सरो गतिः । ऐन्द्रिः काके जयन्ते च पुरुर्भूरिपरागयोः ॥ Dharaṇikośa 26.1.10
- धरणिकोश हाह स्यात्संबोधने पादपूरणेऽनव्ययं शिवे । हा शोके [च] विषादे च दुःखार्थे च स्मृतो बुधैः ॥ Dharaṇikośa 34.21.2
- धरणिकोश हीहि हेतौ स्याद्विशेषार्थे एकार्थे पूरणेऽपि च । ही विषादे विस्मये स्याद्दुःखहेत्वोरपि स्मृतः ॥ Dharaṇikośa 34.21.3
- कल्पद्रुकोशः विषद्सोऽत्यन्तशब्दे सत्तिः प्रात् प्रीतावाङस्तु संनिधौ । वेर्दुःख आसने नेः स्यात्सेवने चोपपूर्वकः ॥ १०३ ॥ Kalpadrukośa 1.10.103
- कोषकल्पतरु परितपतिदुःखे परेर्निरः सोऽल्पतापे क्रोधे समः परः । उदः शोषे च तापे च तथैव च परिप्लवे ॥ ८५ ॥ Koṣakalpataru 3.5.85
- कोषकल्पतरु ईई दुःख-चिन्ता-कोपेषु उ संबुद्धौ रुषोदिते । वाक्यारम्भे रुषोक्तावू ऋ वाक्ये कुत्सनेऽपि च ॥ ७९ ॥ Koṣakalpataru 5.1.79
- कोषकल्पतरु हाहा दुःखे शुचि ही तु विस्मयविषादार्थेऽथ हाहा तथा हू हूं खेद विषादयोरथ मतो हू विस्मयामन्त्रणे । हं हो विस्मयदुःखयोः सह पुनः साकल्यसादृश्ययोः संबन्धर्द्धिसमानकाल उदितं ही ही तु हास्येऽद्भुते ॥ २८ ॥ Koṣakalpataru 5.1.28
- कोषकल्पतरु अकअकं तु दुःखे दुरितेऽपि शस्तम् । शकस्तु देशे भुजगे च वर्णे शुको भवेद्व्याससुते च कीरे ॥ ३ ॥ Koṣakalpataru 6.1.3
- कोषकल्पतरु रागरागोऽनुरागे नृप-भैरवादौ मात्सर्यदुःखादिषु चारुणिम्नि । भोगस्तु सर्पस्य फणाङ्गयोः स्या- त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥ Koṣakalpataru 6.3.96
- कोषकल्पतरु अघअघं तु व्यसने मघे च । दुःखेंऽहसि स्यादथ मूल्यपूजा- विधौ नरेऽर्घोऽङ्घ्रिरपि द्रुमूले ॥ ३२ ॥ Koṣakalpataru 6.4.32
- कोषकल्पतरु क्वाथनील्यां स्त्र्यथ स्याद्द्रवनिष्पवायां क्वाथो विपाके व्यसने च दुःखे । पृथुस्तु वैश्वानरराजभेद- त्वक्पत्रिका मेचकजीरके ना । त्रय्यां महत्येष हुताशने तु तुत्थः पुमानञ्जनगस्तु षण्ढे ॥ ९५ ॥ Koṣakalpataru 6.18.95
- कोषकल्पतरु बाधाबाधा निषेधेऽपि च दुःख उक्ता सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ Koṣakalpataru 6.20.64
- कोषकल्पतरु गहनदुःखेऽप्यरण्ये कलिले गुहायां वदन्ति सन्तो गहनं तथैव । मेघध्वनौ स्यात् स्त[13a]ननं ध्वनौ च स्यात्कुन्थनेऽथो निधनं स्त्रियां न ॥ १६ ॥ Koṣakalpataru 6.21.16
- कोषकल्पतरु वेदनाअर्शोघ्नोऽथ करञ्जशस्त्रकभिदोः स्याद्वृश्चिकाल्यां शत- घ्नी चावृद्धबधूपुरप्रसृमरप्रेष्या त्वसिक्नी ध्वनो(?) । दृष्टौ च व्यस(ध)ने वधेऽप्यभिनये संसूचने सूचना ध्याने लेपन(?)वेदना मतिगता दुःखे तथा भावना ॥ ९९ ॥ Koṣakalpataru 6.21.99
- कोषकल्पतरु ?क्लीबे तु काष्ठे च घृते च दुःखे- ऽथौड्रो जने स्यादपि देशभेदे । जपातरौ पुण्ड्रमुशन्ति दैत्य- [49a]भेदेऽतिमुक्तेक्षुविशेषयोश्च ॥ ५५ ॥ Koṣakalpataru 6.27.55
- कोषकल्पतरु वेषपशुर्मृगादौ प्रमथे च मेषे तिर्यक्षु सर्वेष्वसुमत्सु पुंसि । वेषोऽपि दुःखव्यवसाययोस्तु क्लेशोऽपि रागादिषु संप्रदिष्टः । वंशस्तु पृष्ठावयवे च वेणौ कुले च वर्गेऽप्यथ दंश आद्ये ॥ ९ ॥ Koṣakalpataru 6.30.9
- नानार्थार्णवसंक्षेप अघअभ्रकाह्वयधातावप्यस्त्रमायुधचापयोः । अघं तु व्यसने पापे दुःखेऽथ स्यादलध्वनिः ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 2.3.3
- नानार्थार्णवसंक्षेप रिप्ररिप्रं दुःखे च पापे चेत्यामनन्ति विचक्षणाः । रेतः शुक्रे जले चाथ रोधस्तीरान्तरिक्षयोः ॥ ५२ ॥ Nānārthārṇavasaṃkṣepa 2.3.52
- नानार्थार्णवसंक्षेप तृप्रक्ली पापदुःखयोर्ना तु पुरोडाशे तृणं पुनः । क्लीबं स्यान्मल्लिकाभेदे सुरूपासंज्ञकेऽथ तत् ॥ ५६१ ॥ Nānārthārṇavasaṃkṣepa 2.5.561
- नानार्थार्णवसंक्षेप पूतिदुःखदुर्गन्धयोश्च स्याद् दुर्गन्धवति तु त्रिषु । पवनाख्यक्रियायां तु स्त्री कुन्त्यां तु पृथा स्त्रियाम् ॥ ८०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.806
- नानार्थार्णवसंक्षेप बाधाहिङ्गुपत्राह्वये बाधा न क्ली दुःखनिषेधयोः । ना तु क्षुद्रफले पूगे बले चाथ प्रवाहणे ॥ ८५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.855
- नानार्थार्णवसंक्षेप गहनगहनं क्ली जलेऽरण्ये दुःखगह्वरयोस्त्रि तु । दुष्प्रवेशे गह्वरं तु क्ली गुहादम्भवारिषु ॥ ६३४ ॥ Nānārthārṇavasaṃkṣepa 4.634
- नानार्थार्णवसंक्षेप अभिषङ्गदुःखे पराभवे त्वाह सिंहोऽभिक्रमवाक् पुनः । आरोहणक्रियायां चाभिमुखक्रमणेऽपि च ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 6.9
- परमानन्दीयनाममाला हाह संबुद्धौ पादपूर्तौ हा दुःखे शुग्विषादयोः । ही विस्मये विषादे हुं स्वापे प्रश्नवितर्कयोः ॥ ४२ ॥ Paramānandīyanāmamālā 1.42
- परमानन्दीयनाममाला अकअजः कृष्णे स्मरे रुद्रे मेषे ब्रह्मण्यकं पुनः । दुःखाघयोरघं पापे व्यसनाशर्मणोरपि ॥ २ ॥ Paramānandīyanāmamālā 5.1.2
- परमानन्दीयनाममाला उपतापउदुम्बरं कुष्ठभेदे ताम्रेऽथोदुम्बरो द्रुमे । उपतापं तु दुःखे स्याद्गदे तापेऽपि दृश्यते ॥ ७४ ॥ Paramānandīyanāmamālā 5.3.74
- शब्दरत्नावली अङ्कक्रोडान्तिकापराधेषु तथाङ्कं पापदुःखयोः । एकः संख्याभेदे श्रेष्ठे त्रिषु स्यात् केवलान्ययोः ॥ Śabdaratnāvalī 7.1.3
- शब्दरत्नावली अघअघं तु दुरिते दुःखव्यसन … चिन्तने । अर्घः पूजाविधौ मूल्ये मङ्गलादिकयोजने । उद्घः हस्तपुटे वह्नौ देहजातसमीरणे ॥ Śabdaratnāvalī 7.4.2
- शब्दरत्नावली बाधानद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः । बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥ बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः । बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥ बोधः समाधिभेदे ना तथा पिप्पलभूरुहे । मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥ पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥ Śabdaratnāvalī 7.19.8
- शब्दरत्नावली गहनगर्ज्जनं कोपनिनदभर्त्सनोभुजनेषु(?) च । गहनं गह्वरे दुःखे वने क्लीबं युते त्रिषु ॥ Śabdaratnāvalī 7.20.53
- शब्दरत्नावली वेदनावृषा कर्णेन्द्रयोः पुंसि वेदना ज्ञानदुःखयोः । वेष्टनं कर्णशष्कुल्यामुष्णीषे मुकुटे वृतौ ॥ Śabdaratnāvalī 7.20.80
- शब्दरत्नावली परितापउपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु । जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥ नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे । परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥ परितापः पुमान् दुःखे शोके च नरकान्तरे ॥ Śabdaratnāvalī 7.21.21
- शब्दरत्नावली कर्मफलअक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् । अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् ॥ भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् । उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च ॥ एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् । भवेत्कलकलः कोलाहले सर्जरसेऽपि च ॥ भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥ Śabdaratnāvalī 7.28.104
- शब्दरत्नावली क्लेशक्लेशो दुःखे च कोपे च व्यवसाये भवेत्पुमान् ॥ Śabdaratnāvalī 7.30.5
- शब्दरत्नावली दुर्प्र प्रकर्षे गताद्यर्थे अरे सम्बोधने क्रुधि ॥ उर्य्युरी चोररी च स्याद्विस्तारेऽङ्गीकृतावपि । दुर्निषेधे च दुःखे च निर्निषेधे च निश्चये ॥ परि स्यात्सर्वतीभावभागवर्जनदूषणे । व्याप्ति वीप्सालक्षणेत्थम्भूतदोषप्रकाशने ॥ Śabdaratnāvalī 8.1.52
- शब्दरत्नावली इःसु भृशार्थे चानुमतौ समृद्धिपूजयोरपि । आः पीडायां स्मृतौ कोपे साटोपतर्जनेऽपि च ॥ इः कोपेऽपि च सन्तापे दुःखभावनयोरपि । निः साकल्ये चोभयार्थे निषेधे निश्चयेऽपि च ॥ दुः गतौ दूषणेऽपि स्याल्लज्जासम्भावनेऽपि च ॥ Śabdaratnāvalī 8.1.59
- शब्दरत्नावली हीही विस्मये विषादे च दुःखहेतुशुचोरपि । हे च सम्बोधनाह्वानासूयादम्भादरेषु च ॥ Śabdaratnāvalī 8.1.62
- शब्दरत्नाकर व्यलीकविटपोऽस्त्री व्यलीकं स्यादप्रियेऽकार्यदुःखयोः । विलक्षेऽथ विमानोऽस्त्री देवतायानवेश्मनोः ॥ २१७२ ॥ Śabdaratnākara 4.1.2172
- शब्दरत्नाकर दुर्तुर्भेदावधारणयोर्दुरशोभनदुःखयोः । धिग्भर्त्सने कुत्सने च नि न्यग्भावनिषेधयोः ॥ २२५३ ॥ Śabdaratnākara 5.1.2253
- त्रिकाण्डशेष गहनगहनं गह्वरे दुःखे वनेऽथाम्बुदमुस्तयोः । घनः युवा घनं वाद्यं चर्म स्यात्फलकत्वचोः ॥ २३७ ॥ Trikāṇḍaśeṣa 3.3.237
- त्रिकाण्डशेष कर्म्मफलकर्म्मरङ्गतरौ कर्म्मफलं दुःखे सुखेऽपि च । करालो धूनतैलेऽपि देशे केशे च कुन्तलः ॥ ३८९ ॥ Trikāṇḍaśeṣa 3.3.389
- वैजयन्ती बाधापीडावमर्दकृपयोः प्रीतिः प्रेमप्रमोदयोः । प्रेक्षा नृत्तेक्षणे बुद्धौ बाधा दुःखनिषेधयोः ॥ २५ ॥ Vaijayantī 6.2.25
- वैजयन्ती अघमुष्के पक्ष्यादिकोशेऽण्डं दुःखैनोव्यसनेष्वघम् । अर्शसी व्याधिदुर्नाम्नी आज्ये श्रीवाससर्पिषी ॥ २ ॥ Vaijayantī 6.3.2
- वैजयन्ती व्यलीकवर्णकोऽस्त्री प्रकारे स्याच्चन्दने स्त्र्यङ्गलेपने । दुःखे विलक्षे व्यलीकमप्रियाकार्ययोस्तु ना ॥ ७९ ॥ Vaijayantī 7.5.79
- वैजयन्ती दुर्चान्वाचये समाहारे मिथोयोगे समुच्चये । तु भेदावधारणयोर्दुरशोभनदुःखयोः ॥ ४ ॥ Vaijayantī 8.7.4