शोक
śokaपुं · masc.In 16 kośas: 20 synonym verses, 2 as a nānārtha head word, 16 as a meaning of another word.
अन्तराया दानलाभवीर्यभोगोपभोगगाः ।हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ ७२ ॥कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम् ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
मन्युश्च शोकः खेदश्च क्रोधः कोपश्च कथ्यते ।वर्षक्षमा तितिक्षा स्यात् असूया दोषदृग्गुणे ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
शोकमोहौ तु मनसो जरामृत्यू च वर्ष्मणः ।षडूर्मयोतिवृष्टिः स्यादवृष्टिः शलभाः शुकाः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
छलं मिषं च वैदग्धी भङ्गी चेभनिमीलिका ।शोकः खेदः शोचनं षण् शुक् स्त्रियामथ रुट् स्त्रियाम् ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
हासिका क्रमतो हासः शोक-खेदौ च शोचनम् ।शुक् स्त्रियामथ दैन्यं स्यात्कार्पण्यं दीनता खिदा ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
विषादस्त्ववसादः स्यात्सादोऽपि च विषण्णता ।शोकः शोचनखेदौ शुक् क्रोधः कोपक्रुधारुषाः ॥ २१० ॥
अनुष्टुप्
genderपुंmasc.
शोकः शुक् शोचनं खेदः पश्चात्तापोऽप्यनिर्वृतिः ।विषाद आधिरुद्वेगश्चिन्ता कम्पश्च वेपथुः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्यात् शोचनं शोकः शुक् खेदश्च रुषा तथा ।रुट् रोषो प्रतिघः कोपः क्रुत् क्रोधश्च तथा क्रुधा ॥ ४३८ ॥
अनुष्टुप्
genderपुंmasc.
शृङ्गारे च रतिः स्थायी हास्ये तु हसनं तथा ।शोकः स्थायी च करुणे क्रोधो रौद्ररसे तथा ॥ ४४६ ॥
अनुष्टुप्
genderपुंmasc.
मन्युः शोकःस्त्रियां शुक् च शुचा निःशम इत्यपि ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ।कोपः क्रोधः क्रोधाभीमः आमर्षः प्रतिघोऽपि च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः ।रुषा-रोष-रुषश्चाप्युत्साहो तूद्याम उद्यमः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
स्थायिभावो विभावाद्यैः स्थायितां प्रापितो रसः ।रतिर्हासक्रोधशोकजुगुप्सोत्साहविस्मयाः ॥ ९५६ ॥
अनुष्टुप्
genderपुंmasc.
मन्युः शोकोऽथ विद्वेषो विरोधो वैरमित्यपि ।समाः स्युर्विप्रतीसारपश्चात्तापानुतापकाः ॥ ९७९ ॥
अनुष्टुप्
genderपुंmasc.
शोकस्तु मन्युरुत्खेवदः शुक् स्त्री दैन्यानुशोचने ।क्रोधः कोपोऽमर्षरोषौ रुषा रुट्क्रुत्क्रुधाः स्त्रियः ॥ १८३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
स्थायिभावाः क्रमादेषां रतिर्हासो जुगुप्सनम् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
शोकः[248b]प्रलापे हृदयस्य दौःस्थ्येरोकं तु नौका-क्रयभिद्बिलेषु ।कान्त्यां पुमान्स्यादथ चातके नास्तोकोऽल्पके त्वे[ष] विशेष्यलिङ्गः ॥ २० ॥
इन्द्रवज्राmetre not read in every line
उक्तः कोकनदच्छाये शोकस्तु शुचि ना स्त्रियाम् ।शोकी रात्रावथो शौण्डः शुण्डासम्बन्धिनि त्रिषु ॥ १४३३ ॥
अनुष्टुप्
meaningsशुच्
शोक as a meaning in nānārtha verses
- धरणिकोश तमस्तमो ध्वान्तं तमो राहुस्तमः शोकस्तमो गुणः । रजो गुणं रजो रेणुर्योषितामार्तवं रजः ॥ Dharaṇikośa 31.2.5
- धरणिकोश हाह स्यात्संबोधने पादपूरणेऽनव्ययं शिवे । हा शोके [च] विषादे च दुःखार्थे च स्मृतो बुधैः ॥ Dharaṇikośa 34.21.2
- कोषकल्पतरु परिसर्वतोभवनभूषणपूजा- दोषवादपरिरम्भगदेषु । लक्षणादिषु च शोकनिवास- व्याप्तिवर्जनवधेषु परि स्यात् ॥ १६ ॥ Koṣakalpataru 5.1.16
- कोषकल्पतरु तमस्अदन्तमाद्येऽप्यथ पारदे स्या- च्छुक्रे च रेतोऽथ तमोऽन्धकारे । गुणे च शोकेऽथ विधुंतुदेऽस्त्री तमस्तथा पुंसि तु राहुवाचि ॥ ४ ॥ Koṣakalpataru 6.31.4
- नानार्थार्णवसंक्षेप तमस्माघमासे तमस्तु क्ली पापे नरकशोकयोः । गुणत्रयस्यान्यतमे साङ्ख्यानां प्रकृतौ बले ॥ ५१९ ॥ Nānārthārṇavasaṃkṣepa 2.5.519
- नानार्थार्णवसंक्षेप मन्तुवैमनस्येऽपराधे च तथा शोके प्रजापतौ । अजयस्त्वाह विज्ञे त्रिस्तथैव स्यात् प्रियंवदे ॥ ९६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.962
- नानार्थार्णवसंक्षेप मन्युमन्युर्दैन्ये कृपायां च शोके क्रोधे क्रता च ना । त्रिषु मेधाविनि द्वे तु मद्गुः सलिलवायसे ॥ ९६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.963
- नानार्थार्णवसंक्षेप कबरीकेशविन्यासभेदे तु कबरी स्त्री तथैव सा । बाष्पिकासंज्ञभैषज्ये शोकेऽपि रभसोऽपठीत् ॥ ४०६ ॥ Nānārthārṇavasaṃkṣepa 4.406
- शब्दरत्नावली परितापउपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु । जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥ नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे । परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥ परितापः पुमान् दुःखे शोके च नरकान्तरे ॥ Śabdaratnāvalī 7.21.21
- शब्दरत्नावली मन्युअथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः । मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥ मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु । मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥ मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥ Śabdaratnāvalī 7.26.22
- शब्दरत्नावली तमस्तमः शोकगुणध्वन्ति क्लीबं राहुग्रहे पुमान् । तामसी निशि दुर्गायां सर्पे पुंसि खलेऽन्यवत् ॥ Śabdaratnāvalī 7.32.23
- शब्दरत्नावली हाह पादपूरणे कुत्सानियोगक्षेपनिग्रहे । हा विषादे शोककुत्सादुःखार्थेषु निगद्यते । हि सम्भ्रमासूययोः स्यात्पादपूरणशोकयोः ॥ Śabdaratnāvalī 8.1.61
- शब्दरत्नावली अहोअह कोपे प्रशंसायां नियोगे च विनिग्रहे । अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे । असूयायां वितर्के च खेदाख्याने निगद्यते ॥ Śabdaratnāvalī 8.1.64
- शब्दरत्नाकर मन्युनरकाङ्गारकौ भौमौ भेकौ वर्षाभ्वि कातरे । मन्युः कोपेऽध्वरे शोके मरुद्देवसमीरयोः ॥ १९७४ ॥ Śabdaratnākara 4.1.1974
- त्रिकाण्डशेष तमस्तमः शोकेऽप्यथ हिमर्त्तौ ना धर्म्मे व्रते तपः । पद्मे स्वर्णे तामरसं निशा दुर्गा च तामसी ॥ ४४६ ॥ Trikāṇḍaśeṣa 3.3.446
- वैजयन्ती शोचिस्शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ । शोचिः शोकांशुपैंगल्यशुद्धत्वेषु सरोऽप्सु च ॥ ३४ ॥ Vaijayantī 6.3.34