क्षवथु
kṣavathuपुं · masc.In 14 kośas: 11 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.
कासस्तु क्षवथुः पामा खसः कच्छूर्विचर्चिका ।
अनुष्टुप्
genderपुंmasc.
स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ।
अनुष्टुप्
genderपुंmasc.
क्षवथुः कथ्यते कासो वेपथुः कम्प उच्यते ।दवथुः परितापः स्याद् ग्लानिश्च क्लमथुः स्मृतः ॥ ६०१ ॥
अनुष्टुप्
genderपुंmasc.
उन्नेयमथ काशः स्यात् क्षुतं क्लीबे क्षवः पुमान् ।स्त्रियां क्षुत् क्षवथुः पुंसि प्रतिश्यायः प्रतिश्ययः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
काशस्तु कासः क्षवथुः पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या स्त्री क्षुत्क्षवः क्षुतमन्तिमे ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
खसः कण्डूयनं चापि कण्डूयापि निगद्यते ।कासः क्षवथुरप्युक्तो व्रणे क्षतमितीरितम् ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
जक्ष्मा यक्ष्मा राजयक्ष्मा पुमान् शोषः क्षयोऽपि च ।प्रतिश्यायः प्रतिश्या च पीनसो नासिकामये ।अथ स्त्री क्षुत् क्षुता छिक्का क्षवथुर्णा क्षुतं क्षवः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
क्षवथुः काशकासौ च श्वयथुः शोथशोफकौ ।स्फुटी विपादिका पादस्फोटश्च स्फुटिरित्यपि ॥
अनुष्टुप्
genderपुंmasc.
क्षवथौ काशः कासोऽपि, खसे पामा तु पामया ।कच्छूः कच्छुः स्त्रियां सर्वे, खर्ज्वां कण्डूयनं मतम् ॥ ८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शः (wrong syllable)
genderपुंmasc.
अर्शस्तु पायुकीलः स्यात् प्रतिश्यायस्तु पीनसः ।क्षुतं स्त्री क्षुत् क्षवः पुंसि कासः क्षवथुरित्यपि ॥ १०९४ ॥
अनुष्टुप्
genderपुंmasc.
उपास्थो ना समीपस्थे क्रोडे च योनिशेफयोः ।उद्रथो रथोकीले स्यात्ताम्रचूडतिहङ्गमे ।क्षवथुर्ना क्षुते कासे कण्ठकण्डूयनेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 3, syllable 5 थो (wrong syllable)
क्षवथु as a meaning in nānārtha verses
- कोषकल्पतरु नाशलोध्रे तथा गन्धरसेऽथ दर्शः सूर्येन्दुसङ्गेऽप्यवलोकनेऽपि । श्रौते च पक्षान्त विधौ तथाथ स्पर्शो भवेत्स्पर्शनदानयोश्च । त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तु नास्त्री प्रवेशे विडिह प्रजायाम् । मले न ना स्त्री तु खगादिबन्धे कचोत्तरस्थो निकरे च पाशः । कर्णान्तगः शोभनवाचकः स्या- न्निन्दार्थकश्चात्र परस्थितोऽयम् । नाशो विनाशानुपलम्भयोः स्यात् पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥ Koṣakalpataru 6.30.6
- नानार्थार्णवसंक्षेप क्षवक्षवस्तु राजिकासंज्ञसर्षपे क्षवथावपि । क्षयस्त्वपचये कुक्षौ कल्पान्ते राजयक्ष्मणि ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 2.2.21