वेपथु
vepathuपुं · masc.In 11 kośas: 17 synonym verses.
स्वरभेदस्तु कल्लत्वं स्वरे कम्पस्तु वेपथुः ॥ ३०६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
क्षवथुः कथ्यते कासो वेपथुः कम्प उच्यते ।दवथुः परितापः स्याद् ग्लानिश्च क्लमथुः स्मृतः ॥ ६०१ ॥
अनुष्टुप्
genderपुंmasc.
स्वरभेदस्तु तल्लत्वं स्वरकम्पस्तु वेपथुः ।क्रन्दितं रुदितं क्रुष्टं लोतोश्रुनयनोदकम् ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दस्तु चोटिका प्रोक्ता मुखभेदस्तु जञ्जभा ।एजनं वेपथुः कम्पः प्रलयो … ।आटोपवेगसंरम्भः स्पृहा तु त्वरिता त्वरी ॥ १३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः ।वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
स्वरभङ्गोऽथ कम्पस्तु वेपथुः पुंसि न द्वयोः ।वैवर्ण्यं कालिमा चाथ नेत्रार्थाच्चाम्बुरोदने ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
कम्पितं कम्पनं कम्पो वेपथुः स्वादथ क्षणः ।महोत्सवोद्धवाः पुंसि महः सान्तं नपुंसकम् ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
कम्पो वेपथुरत्र कम्पनमथो दर्दूः स शीताधिकामूर्छा स्त्री प्रलयो विचेष्टनमथोद्धर्षोद्धवौ च क्षणः ।पुंसि स्यान्मह उत्सवोऽथ चरमे सान्तं महः सम्मतंप्रोक्तः खण्डरसश्च चित्ररसयुक्सर्वेऽपि यस्मिन्रसाः ॥ २०९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शोकः शुक् शोचनं खेदः पश्चात्तापोऽप्यनिर्वृतिः ।विषाद आधिरुद्वेगश्चिन्ता कम्पश्च वेपथुः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
कल्लत्वं स्वरभेदः स्याद् स्वरे कम्पस्तु वेपथुः ।वैवर्ण्यं कालिका स्याद्वै दृग्जलं रोदनं भवेत् ॥ ४५१ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।वैवर्ण्यमश्रुपातश्च इत्यष्टौ सात्त्विका मताः ॥
अनुष्टुप्
genderपुंmasc.
स्यात् स्वरूपं निसर्गश्च पर्यायोऽयं स्वभावके ।कम्पनं कम्पितं कम्पो वेपनं वेपथुः पुमान् ॥
अनुष्टुप्
genderपुंmasc.
भयं च स्थायिनो भावा विभावो भावदर्शकः ।स्युः स्तम्भस्वेदरोमाञ्चाः स्वरसंभेदवेपथू ॥ ९५७ ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रजालं प्रमीला तु भृकुटिभ्रूकुटी स्त्रियौ ।तन्द्री तन्द्रा च कम्पस्तु वेपो वेपथुरेजनम् ॥ १०१५ ॥
अनुष्टुप्
genderपुंmasc.
अतिहासस्त्वनुस्यूतोऽपहासोऽकारणात् कृते ।स्वरभेदस्तु कल्कत्वं स्वरकंपस्तु वेपथुः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
एजनं वेपथुः कंपः प्रलयोऽस्पन्दनस्थितिः ।आटोपावेगसंरंभसंभ्रमास्तु त्वरा त्वरी ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.