कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रेतपति

pretapatiपुं · masc.

In 4 kośas: 4 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.185 · p. 11
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.71 · p. 9
शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.48 · p. 385
दक्षिणाशापितृप्रेतधूमोर्णानां यमस्य च ।धर्मजावितयोरीशपर्यायः समवर्त्त्यपि ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.79 · p. 15
रोहिणीप्रमुखाः सन्ति विद्यादेव्यस्तु षोडश ।यमः प्रेतपतिर्दण्डधरः कालोऽन्तकोऽर्कजः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.