अन्तक
antakaपुं · masc.In 15 kośas: 16 synonym verses, 4 as a meaning of another word.
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
धर्मराजः पितृपतिः समवर्ती परेतराट् ।कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८ ॥कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।
अनुष्टुप्
genderपुंmasc.
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः ।कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकःधूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् ।कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट्स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
हृल्लासो हृदयादीषद्व्यथः पट्वम्बुनिर्गमः ।तृप्त्यैवान्नास्पृहातृप्तिररुचिः स्यादरोचकः ।;l[7270}अश्रद्धान्नारोचकोऽथाविपाकोऽन्नापचिः स्त्रियाम् ।ज्वरो रोगपतिर्दक्षाध्वरध्वंसी तथान्तकः ।ओजोशनस्तथा क्रोधो रुद्रोर्ध्वनयनोद्भवः ॥ १५ ॥
अनुष्टुप्metre not read in every lineLatin letters: l
genderपुंmasc.
कुरुकीचकयोर्वैरी वायुपुत्रो वृकोदरः ।समवर्ती यमः कालः कृतान्तो मृत्युरन्तकः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
रोहिणीप्रमुखाः सन्ति विद्यादेव्यस्तु षोडश ।यमः प्रेतपतिर्दण्डधरः कालोऽन्तकोऽर्कजः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
यमः कृतान्तः शमनो धर्मराजः परेतराट् ।समवर्ती श्राद्धदेवः कालः सूर्यसुतोऽन्तकः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
दक्षिणाशापतिर्मृत्युः कालकूटस्तथाऽन्तकः ।श्राद्धदेवोऽर्कसूनुश्च कालिन्दीसोदरस्तथा ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
समवर्ती शीर्णपादः शमनो भीमनाशनः ।कालोऽन्तकोऽपि यमराट् कङ्को वैवस्वतो हरिः ॥
अनुष्टुप्
genderपुंmasc.
वैवस्वतो दण्डधरः कालिन्दीसोदरोऽन्तकः ।पुरी संयमनी तस्या धूमोर्णा तु सधर्मिणी ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
व्याधिरामय आतङ्को गदो रोगो रुजा च तत् ।क्षयः शोषो राजयक्ष्मा यक्ष्मा जूर्तिर्जरोऽन्तकः ॥ १०९३ ॥
अनुष्टुप्
genderपुंmasc.
अनन्तश्चान्तको वक्त्र-विश्वान्तौ चरुजः स्मृतः ।क्षीरोदधिः पयोदश्च दीर्घच्छायो विनायकः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
दुःखलोको भवश्चैव संसारः कष्टचारकः ।निर्वाणमन्तको मोक्षः शीतिभावः शमोऽमृतम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
यमराड्यमुनाभ्राता मन्दो वैवस्वतोऽन्तकः ।सावित्रेयः श्राद्धदेवः समवर्ती परेतराट् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
अन्तक as a meaning in nānārtha verses
- कोषकल्पतरु कृतान्तदृष्टान्तस्तु निदर्शने च मरणे शास्त्रे कृतान्तः पुनः सिद्धान्तान्तकदैवनिःशुभकृतिष्वाख्यायते पण्डितैः । क्लीबे धाम्नि निशान्तके तु कलिते शान्ते निशान्तोऽन्यव- द्वृत्तान्तस्तु रहोऽर्थके प्रकरणे कार्त्स्न्ये प्रवृत्तावपि ॥ १९ ॥ Koṣakalpataru 6.16.19
- नानार्थार्णवसंक्षेप मृत्युमृतः प्रेते याचिते तु भैक्षे क्ली मरणेऽपि च । मृत्युस्तु मरणे न क्ली पुमानेवान्तकेऽथ नप् ॥ १०२३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1023
- शब्दरत्नाकर कालकालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः । शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥ Śabdaratnākara 4.1.1880
- वैजयन्ती यममलं किट्टाघयोश्चास्त्री यमजान्तकयोर्यमः । ययुर्ना मोक्षमार्गेऽश्वे स्त्रीत्वाप्तौ दीर्घयष्टिके ॥ ६५ ॥ Vaijayantī 6.5.65