कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दक्षिणाशापति

dakṣiṇāśāpatiपुं · masc.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.185 · p. 11
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.72 · p. 9
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.48 · p. 385
दक्षिणाशापितृप्रेतधूमोर्णानां यमस्य च ।धर्मजावितयोरीशपर्यायः समवर्त्त्यपि ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.143 · p. 22
कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकःधूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् ।कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट्स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.80 · p. 15
दक्षिणाशापतिः पितृपतिर्मृत्युहरी पुनः ।यमराजः कृतान्तश्च शीर्णाङ्घ्रिमहिषध्वजौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.207 · p. 28
दक्षिणाशापतिर्मृत्युः कालकूटस्तथाऽन्तकः ।श्राद्धदेवोऽर्कसूनुश्च कालिन्दीसोदरस्तथा ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.