कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्राद्धदेव

śrāddhadevaपुं · masc.

In 13 kośas: 12 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.185 · p. 11
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.40
धर्मराजः पितृपतिः समवर्ती परेतराट् ।कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८ ॥कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.72 · p. 9
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.75 · p. 14
कारुर्जैवातृकः शुष्मा दवो वनहुताशनः ।यमः कालो दण्डधरः श्राद्धदेवोत्तरोद्यमः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.47 · p. 385
अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः ।कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.144 · p. 22
श्राद्धदेवो दण्डधरो धर्मश्च महिषध्वजः ।यमराट् जीवितेशश्च दण्डधारोऽपि कीर्त्तितः ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.81 · p. 15
समवर्तिधर्मराजौ कालिन्दीसोदरोऽपि च ।श्राद्धदेवश्च शमनो धूमोर्णा त्वन्तकप्रिया ॥ ८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ति (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.55 · p. 7
यमः कृतान्तः शमनो धर्मराजः परेतराट् ।समवर्ती श्राद्धदेवः कालः सूर्यसुतोऽन्तकः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.207 · p. 28
दक्षिणाशापतिर्मृत्युः कालकूटस्तथाऽन्तकः ।श्राद्धदेवोऽर्कसूनुश्च कालिन्दीसोदरस्तथा ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.140 · p. 10
यमः पितृपतिर्धर्मो धर्मराजश्च धर्मराट् ।जीवितेशः श्राद्धदेवः कृतान्तो महिषध्वजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.113 · p. 15
पितृपतिकृतान्तशमनप्रेताधिपधर्मराजयमराजाः ।कालयममहिषवाहनसमवर्तिश्राद्धदेवकीनाशाः ॥ ११३ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.34 · p. 11
यमराड्यमुनाभ्राता मन्दो वैवस्वतोऽन्तकः ।सावित्रेयः श्राद्धदेवः समवर्ती परेतराट् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.

श्राद्धदेव as a meaning in nānārtha verses