मृत्यु
mṛtyuपुं · masc.In 20 kośas: 28 synonym verses, 4 as a nānārtha head word, 54 as a meaning of another word.
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ ॥पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ।दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥ ३२४ ॥
अनुष्टुप्
genderपुंmasc.
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
आर्या
genderपुंmasc.
पञ्चत्वं मरणं मृत्युर्मृतं चेति निगद्यते ।सर्वलोकगते मृत्यौ मारी स्यान्मालिकापि च ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
निमीलनं च निधनं रंध्रमृत्युर्विनाशनम् ।छिद्रं वसु ततो भाग्यं धर्मं च नवमं तपः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
शोकमोहौ तु मनसो जरामृत्यू च वर्ष्मणः ।षडूर्मयोतिवृष्टिः स्यादवृष्टिः शलभाः शुकाः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
दण्डाद्यामधारधरश्चित्रगुप्तश्च पार्परः ।अर्कपर्यायपुत्रार्थः कीनाशो मृत्युरित्यपि ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderपुंmasc.
कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकःधूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् ।कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट्स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
स्युः कालधर्म-प्रलयात्ययान्त-दिष्टान्त-नाशाः परलोकयात्रा ।स्याद्दीर्घनिद्रा च मृतिश्च संस्थामृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥
इन्द्रवज्रा
genderपुंस्त्रीm. f.
कूपः कलम्बः कलशे तु कुम्भोगन्त्र्यङ्गके नाभिरथोर्मिशम्यौ ।भ्रमश्च मोहेऽथ च जित्य-मृत्यूस्याद्भागधेयोऽपि च राजदेये ॥ २७ ॥
उपजातिः
genderपुंस्त्रीm. f.
एते नपुंसकलिङ्गे भवन्ति । इदं श्वभ्रं गर्त्तः । इदं तृणं गृहच्छादनद्रव्यविशेषः । रणं युद्धम् । ऋणमुद्धारः अधमर्णश्च । एतान् शब्दान् स्त्रियां नियतं निश्चितं विद्यात् । इयं वीणा वाद्यविशेषः । तूणा इषुधिः । इयं घोणा नासिका । इयं घृणा दयाबुद्धिः । तुशब्दः पादपूरणे ।यदनान्तमकर्त्तरि तन्नपुंसके विद्ध्यनिः स्त्रियामेव ।यौ?भावेऽणापौ तौ पुंस्युक्तौ मन्युमृत्यू च ॥ २८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अन अन्ते यस्य तदिदमनान्तं अकर्त्तरि अन्प्रत्ययान्तं यत्प्रातिपदिकं तन्नपुंसके विद्धि जानीहि । "नपुंसकाद्भावे क्त" इत्यत्र "वर्तमाने ल्युट् चे"ति ल्युट् । "युवोरनामि"त्यनादेशः । वचनं भजनं भाजनं पानं आसनं प्रयाणं शासनम् । अधिकरणमित्यादि । अकर्त्तरीति किम् । "नन्द्यादिभ्यो ल्युट्" । नन्दनः मरणः मदनः कुलनः शतनः दमनः सङ्कर्षणः मधुसूदनः जनार्दन इत्यादि । अनिः स्त्रियामेव ।एवकारोऽवधारणार्थः । "आक्रोशे नञ्यनिः" । यथा इयमम्भोजनिः अकारणिः अहरणिः अखादनिः अशरणिरित्येवमादिः । अण च अप्च अणापौ यौ तौ पुंस्युक्तौ । णौ अण् चेत्यण् प्रत्ययः । त्यागः उपदेशः उपसर्गः इत्यण्प्रत्ययः । निघः पर्वतः । किञ्चान्यौ मन्युमृत्यू पुंसि भवतः । अयं मन्युर्दया शोकश्च । मृत्युर्नाशः ।पटपुटकटघटचण्टवाटजूटवटा हि पुंस्युक्ताः ।अवटखटपट्टकिराटकीटाश्च कूटतटयोश्च नपुंसकता ॥ २८ ॥
metre not recognised
genderपुंmasc.
कुरुकीचकयोर्वैरी वायुपुत्रो वृकोदरः ।समवर्ती यमः कालः कृतान्तो मृत्युरन्तकः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
दक्षिणाशापतिः पितृपतिर्मृत्युहरी पुनः ।यमराजः कृतान्तश्च शीर्णाङ्घ्रिमहिषध्वजौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)
genderपुंmasc.
आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः ।ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderपुंस्त्रीm. f.
प्राणत्यागे कालधर्मः पञ्चता प्रलयो लयः ।दिष्टान्तो निधनं मृत्युर्मरणं सदनं हरिः ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
यमराजः पितृपतिर्मृत्युर्दक्षिणदिक्पतिः ।कीनाशो यमुनाभ्राता दण्डभृन्माहिषध्वजः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
दक्षिणाशापतिर्मृत्युः कालकूटस्तथाऽन्तकः ।श्राद्धदेवोऽर्कसूनुश्च कालिन्दीसोदरस्तथा ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
मृत्युः कालो मृतिः संस्था कालधर्मो निमीलनम् ।पञ्चत्वमवसानं च तथा निधनमत्ययः ॥ ४७६ ॥
अनुष्टुप्
genderपुंmasc.
पुनः स्यात् सर्वगा मृत्युर्मोरिश्च मरकस्तथा ।त्रयस्त्रिंशदमी भावाः भवेयुर्व्यमिचारिणः ॥ ४७८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
मारको मरको मारः संघातोऽपि च घातनम् ।अथाघातो वधस्थानं प्रघात इति कुत्रचित् ॥मरणं प्रलयो नाशः कालधर्मश्च पञ्चता ।द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
विधिहृदयमनङ्गो मृत्युरुर्वी नभस्वां-स्तपनशशिमयूखा जातवेदाश्च वेदाः ।अमृतमचिररोचिर्दक्षकन्ये जलं चत्रिदशपुरवधूनां जन्मनः कारणानि ॥ ८७ ॥
मालिनी
genderपुंmasc.
लयो नाशः कालधर्मो दीर्घनिद्रा च पञ्चता ।मरणं निधनं मृत्युर्द्वयोर्जीवोऽसुधारणम् ॥ १०५७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
जूटो वराटः कर्कन्धूः शाल्मलिर्बलिडाडिमौ ।मृत्युः कुम्भो भुजो बाहुर्ज्वालः कीलोऽशनिः फणः ॥ २३२६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
मृत्युर्बको वृ(वि)षघ्नश्च हृदो दक्षकरस्थितः ।शङ्ख(ङ्कु)कर्णोऽस्थिसंज्ञश्च श-कारो विद्भिरीरितः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
निपातो भूमिलाभश्च मृत्युरप्यथ मारकः ।मरको मारिरुत्पाटः शवस्तु क्षितिवर्धनः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
पंचत्वं मरणं मृत्युरक्ली स्यादमतोऽस्त्रियाम् ।सर्वलोकतते मृत्यौ मारिः स्त्री मारकोऽस्त्रियाम् ॥ २०२ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
मृतः प्रेते याचिते तु भैक्षे क्ली मरणेऽपि च ।मृत्युस्तु मरणे न क्ली पुमानेवान्तकेऽथ नप् ॥ १०२३ ॥
अनुष्टुप्
meaningsअन्तक
मृत्यु as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) कालइराशब्दो बुधैर्ज्ञेयो भुवि वाच्यशनेऽम्भसि । निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥ Abhidhānaratnamālā (Halāyudha) 5.83
- धरणिकोश मृतमृतं स्याद्याचिते मृत्यौ जातं जन्मसमूहयोः । धुतं तु कम्पिते त्यक्ते वृत्ते चारित्रनिर्वृते ॥ Dharaṇikośa 15.1.8
- धरणिकोश संस्थानसमानं सत्समैकेषु समानो नाभिमारुतः । संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ॥ Dharaṇikośa 19.2.41
- धरणिकोश प्रायकायः शरीरे लक्षे च संघाते ब्रह्मदैवते । प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ॥ Dharaṇikośa 25.2.6
- धरणिकोश शूलशूलं प्रहरणे योगे शूलो व्याधिसुतीक्ष्णयोः । शूलौ मृत्युध्वजौ चायःकीलः शूलास्तु दारिकाः ॥ Dharaṇikośa 27.3.11
- धरणिकोश कालकालो यमे महाकाले मृत्यौ समयकृष्णयोः । काली दुर्गा यामिनी च काली स्यान्नववारिदे ॥ Dharaṇikośa 27.3.13
- कोषकल्पतरु प्रलीलिपौ तु वेर्द्रवे नाशे प्राच्चेष्टानाशमृत्युषु । अतेः प्राच्च तिरोभूतौ नेराङश्च गृदे मृतौ ॥ २१ ॥ Koṣakalpataru 3.5.21
- कोषकल्पतरु हनुविशेष्यवत्स्याद्धनुरस्ररोगे शस्त्रे च मृत्यौ च नखीषु च स्त्री । द्वयोः कपोलावयवेऽथ सूनुः पुत्रेऽनुजे भास्वति च प्रदिष्टः ॥ २ ॥ Koṣakalpataru 6.21.2
- कोषकल्पतरु संस्थानमृत्यावथो धावनमस्ति शुद्धौ त्वरागतौ योषिति कण्टकायाम् । स्यात्पावनं पाथसि किं च कृच्छ्रे * पावके व्यासगतं तथैव ॥ ४० ॥ Koṣakalpataru 6.21.40
- कोषकल्पतरु स्तनयित्नुपयोधरे तु स्तनयित्नुरुक्तो मेघ[ध्व]नौ मृत्युगदाह्वयोश्च । स्यात्पोषयित्नुः पितरि प्रभौ च दुर्वादिविप्रे गदयित्नुरुक्तः ॥ ४८ ॥ Koṣakalpataru 6.21.48
- कोषकल्पतरु प्रायकाण्डेऽपि दायस्तु विभाज्यवित्ते सोल्लुण्ठवाक्ये युतकोत्थवित्ते । दानेऽथ बाहुल्यसदृक्षयोः स्यात् प्रायस्तथैवानशने च मृत्यौ ॥ ७ ॥ Koṣakalpataru 6.26.7
- कोषकल्पतरु प्रलयन च योषिति स स्त्रियां पुनः त्रिवृति स्यादथ विस्मयोऽद्भुते । अपि गर्वगतेऽथ मृत्युवाची प्रलयः कल्पविराममूर्च्छिते च ॥ ५९ ॥ Koṣakalpataru 6.26.59
- कोषकल्पतरु परिसरनियोज्यारक्षयोर्मन्त्रभेदे स्यात्सैन्यपृष्ठके । भवेत्परिसरो मृत्यौ दैवप्रान्तप्रदेशयोः ॥ ९५ ॥ Koṣakalpataru 6.27.95
- कोषकल्पतरु कालविशेष्यवत्स्याद्विपुले कुलं तु देशे गृहे गोत्रशरीरयोश्च । तथा सजातीयगणेऽथ कालो मृत्यौ कृतान्ते समये च कृष्णे ॥ ५५ ॥ Koṣakalpataru 6.28.55
- कोषकल्पतरु शूलशूलं च न स्त्री मतमायुधार्त्यो- र्योगे च मृत्यावपि केतने च । स्त्रियां तु पण्यप्रमदार्थके स्या- त्कीले तथा दुष्टवधार्थकेऽपि ॥ ७० ॥ Koṣakalpataru 6.28.70
- नानार्थार्णवसंक्षेप मारिकवचे चाथ मारिः स्यान्मसूरीसंज्ञके गदे । सर्वलोकतते मृत्यौ तथा स्याद्देवतान्तरे ॥ ७८ ॥ Nānārthārṇavasaṃkṣepa 2.1.78
- नानार्थार्णवसंक्षेप रुजाप्रचारे स्रवणे पङ्क्तौ स्वभावेऽन्ये तु पित्तले । रुजा भङ्गजरामृत्युरोगेष्वथ रुचिः श्रियाम् ॥ ८६ ॥ Nānārthārṇavasaṃkṣepa 2.1.86
- नानार्थार्णवसंक्षेप मोक्षअपवर्गे च मृत्यौ च मुष्कराख्यद्रुमान्तरे । मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ॥ ९६ ॥ Nānārthārṇavasaṃkṣepa 2.2.96
- नानार्थार्णवसंक्षेप हनुहठः पार्ष्ण्यां बलात्कारे जलोद्भवतृणान्तरे । वारिपर्णीसमाख्येऽथ महारुग्भीममृत्युषु ॥ १३८ ॥ Nānārthārṇavasaṃkṣepa 2.2.138
- नानार्थार्णवसंक्षेप कालमृत्यौ चापि महादेवे कार्ष्ण्ये त्रिषु तु तद्वति । काष्ठा स्त्री कालभेदे स्यादष्टादशनिमेषके ॥ १८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.184
- नानार्थार्णवसंक्षेप मारिकार्षापणप्रभेदेऽथ पुंस्येव मषणे विदुः । मषणं हिंसनं विंद्यात् सर्वलोकतते पुनः ॥ ९९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.994
- नानार्थार्णवसंक्षेप ग्रहणीवाराहीमुसलीत्यादिपदैः स्तम्बे च विश्रुते । ग्रहणी तूदरव्याधिविशेषे मृत्युमेढ्रयोः ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 3.1.25
- नानार्थार्णवसंक्षेप हरिणिसुषवी तु भवेत् कारवल्ल्यां कृष्णे च जीरके । हरिणिस्तु भवेन्मृत्यौ कुल्यायां ह्रदिनी पुनः ॥ १०८ ॥ Nānārthārṇavasaṃkṣepa 3.1.108
- नानार्थार्णवसंक्षेप अभावव्यसनेष्वशुभे दैवेऽप्यनीतौ च चतुर्ष्वपि । स्यादभावस्त्वसत्तायां मृत्यौ च रभसोऽपठीत् ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 3.2.5
- नानार्थार्णवसंक्षेप प्रलयप्रसरे चाप्यभाषिष्ट प्रणवस्तु स्तुतावपि । ओङ्कारे प्रलयस्तु स्यान्मृत्यावस्पन्दनस्थितौ ॥ १३५ ॥ Nānārthārṇavasaṃkṣepa 3.2.135
- नानार्थार्णवसंक्षेप अमतअक्षीबं त्वब्धिजे क्लीबं लवणे ना तु शिग्रुके । अमत्ते तु त्रिरमतः पुनर्मृत्यौ नृलिङ्गकः ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 4.53
- नानार्थार्णवसंक्षेप शयथुशशाङ्के शयुनः स्वप्ने द्वयोस्त्वजगरेऽथ ना । प्रदोषे शयथो मृत्यौ मत्स्ये त्वजगरे द्वयोः ॥ १७८० ॥ Nānārthārṇavasaṃkṣepa 4.1780
- नानार्थार्णवसंक्षेप वृधसानवृधसानस्तु पुरुषे मृत्यौ भूमिधनेऽपि च । वेशवारः पिष्टमांसविशेषे चाप्युपस्करे ॥ ११५ ॥ Nānārthārṇavasaṃkṣepa 6.115
- परमानन्दीयनाममाला निर्वृतिनिर्वृतिर्मोक्षमृत्योः स्यात्स्वास्थ्येऽपि परिकीर्तितम् । [27] नागवारिक आख्यातो खगेशे चित्रमेखले ॥ २७७ ॥ Paramānandīyanāmamālā 5.18.277
- परमानन्दीयनाममाला निःशरणनदीकान्ता लताकाकजङ्घयोरथ निर्वृतौ । स्मृतं निःशरणं मृत्यावुपाये तालभिद्यपि ॥ २७९ ॥ Paramānandīyanāmamālā 5.18.279
- शब्दरत्नावली निःसरणभवेत्रिःसरणं मोक्षमृत्यूपायागमेषु च । निरूपणं विचारे स्यादालोके च निदर्शने ॥ Śabdaratnāvalī 7.15.81
- शब्दरत्नावली मृतमृतं मृत्यौ याचिते स्यात्क्लीबं मृत्युमति त्रिषु । यतिः स्त्रीपाठविच्छेदविधवारोगसन्धिषु ॥ Śabdaratnāvalī 7.16.40
- शब्दरत्नावली प्रायप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
- शब्दरत्नावली प्रलयआचारशपथाधीनच्छिद्रविश्वासहेतुषु । पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥ प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् । पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥ प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् । प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥ Śabdaratnāvalī 7.26.44
- शब्दरत्नावली मारस्वल्पवर्णान्तयोः स्त्री तु मात्रं कार्त्स्न्येऽवधारणे । मारः स्मरे विघ्नमृत्योर्मारिः स्त्री मृतिवर्षयोः ॥ Śabdaratnāvalī 7.27.29
- शब्दरत्नावली परिसरीभवेत्परिसरी मृत्युविधिपर्यन्तभूमिषु । परम्परो मृगभिदि प्रपौत्रतनयेऽपि च ॥ Śabdaratnāvalī 7.27.134
- शब्दरत्नावली शूलशूलमस्त्रे गदे शस्त्रे मृत्यौ योगे निकेतने । शूला पण्यस्त्रियां स्त्री तु शैलः पर्वततार्क्ष्ययोः ॥ Śabdaratnāvalī 7.28.37
- शब्दरत्नावली अशिवअक्षीवमप्रमत्ते स्यादशिवाभावमृत्युषु ॥ आर्त्तवं स्त्रीरजःपुष्पे आहवो युद्धयज्ञयोः । आश्रवोऽङ्गीकृतौ क्लेशे पुमान् वाक्यस्थिते त्रिषु ॥ Śabdaratnāvalī 7.29.25
- शब्दरत्नाकर नाशनग्नो रुद्रो जिनोऽवासा वेदत्यागी निरग्निकः । नाशस्त्वदर्शने मृत्यौ परिध्वंसे पलायने ॥ १९४७ ॥ Śabdaratnākara 4.1.1947
- शब्दरत्नाकर प्रायपायो वयसि बाहुल्ये तुल्यानशनमृत्युषु । पतिः स्वामिनि पत्यौ च पत्री श्येनपृषत्कयोः ॥ १९५२ ॥ Śabdaratnākara 4.1.1952
- त्रिकाण्डशेष संस्थानसमानो देहवायौ च संस्थानं मृत्युरूपयोः । सन्तानः सन्ततौ देववृक्षे चाऽपत्यगोत्रयोः ॥ २६८ ॥ Trikāṇḍaśeṣa 3.3.268
- त्रिकाण्डशेष कालआर्द्रशूरणयो रोलः कालः स्यान्मृत्युकृष्णयोः । अंशे वृद्धावपि कला कदली ध्वजरम्भयोः ॥ ३८३ ॥ Trikāṇḍaśeṣa 3.3.383
- त्रिकाण्डशेष नाशनाशः पलायने मृत्यौ निस्त्रिंशौ खड्गनिर्दशौ । निशा रात्रिर्हरिद्रा च मृगादौ प्रमथे पशुः ॥ ४२९ ॥ Trikāṇḍaśeṣa 3.3.429
- वैजयन्ती नाशनाशः पलायने मृत्यौ परिध्वंसेऽप्यदर्शने । नग्ना वैतालिकाद्याश्च पिण्डो वृत्ते तनौ गुडे ॥ ३१ ॥ Vaijayantī 6.1.31
- वैजयन्ती प्रायपार्श्वद्वारे विरोधेऽर्धमासे चुल्लिबिलेऽन्तिके । प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु ॥ ३६ ॥ Vaijayantī 6.1.36
- वैजयन्ती मोक्षमृगस्तु मृगशीर्षेऽपि मोक्षो मृत्यौ मरुद्गिरौ । यन्ता हस्तिपके सूते यज्ञोऽग्न्यात्महरीष्टिषु ॥ ४७ ॥ Vaijayantī 6.1.47
- वैजयन्ती हरस्तूपा वायुरणोच्छ्राया आज्ञाह्वानाध्वरा हवाः । हर्तुर्मृत्यौ महारागे हरा रुद्राग्निगर्दभाः ॥ ६७ ॥ Vaijayantī 6.1.67
- वैजयन्ती रुजापुंश्चल्यां मौक्तिके मुक्ता कारासंयमयोर्यतिः । गमने जीवने यात्रा रुजा रुग्भङ्गमृत्यवः ॥ २९ ॥ Vaijayantī 6.2.29
- वैजयन्ती संस्थासंज्ञार्कभार्या चैतन्यं हस्ताद्यैः सूचनाभिधा । संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु ॥ ४३ ॥ Vaijayantī 6.2.43
- वैजयन्ती अन्तअन्तोऽस्त्र्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके । नार्धमासेऽणिरक्ल्यश्रौ रूप्येऽक्षाग्रध्रुवे ध्रुवे ॥ ५ ॥ Vaijayantī 6.5.5
- वैजयन्ती हरिमन्हर्यक्षो धनदे सिंहे व्रीह्यब्दार्चिः षु हायनः । महोदरेपि हेरंबो हरिमा मृत्युरोगयोः ॥ ८४ ॥ Vaijayantī 7.1.84
- वैजयन्ती संस्थानसेनांगे यातनायाञ्च सेवनं स्यूतिसेवयोः । मृत्यौ समाप्तौ संस्थानं सन्निवेशे चतुष्पथे ॥ ३७ ॥ Vaijayantī 7.3.37
- वैजयन्ती शयथुशयथुस्त्रिषु निद्रालौ मृत्याविजगरे च ना । शय्यायां शयनं न स्त्री निद्रासुरतयोर्नपुम् ॥ ८५ ॥ Vaijayantī 7.5.85
- वैजयन्ती वृषसानुवृषसानुः पुंसि मृत्यौ विष्णौ रुद्रे वृषाकपिः । वानप्रस्थौ मधुष्ठीलपलाशावथ संकरे ॥ ४० ॥ Vaijayantī 8.1.40