कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मदयित्नु

madayitnuपुं · masc.

In 3 kośas: 3 synonym verses, 2 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.60 · p. 300
मदयित्नुश्च मदना मदिष्ठा मदिरा इरा ।परिप्लुता कामसखी परिस्रुद्देवनिर्मिता ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.179 · p. 13
मदयित्नुः कदः कन्दो गवेडुश्च गदामरः ।खतमालो वातरथः श्वेतनीलो बलाहकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.2 · p. 15
मदयित्नुर्वायुदारुर्व्योमधूमो नभोगजः ।गडेरः कन्धरो वातरथो वारिमसिः स्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.47 · p. 268
पारावते कामुककामयोस्तुजल्पाकमद्ये मदयित्नुरुक्तः ।स्याद्धर्षयित्नुस्तनये सुवर्णे-ऽथो घोषयित्नुः पिकविप्रयोश्च ॥ ४७ ॥
इन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.118 · p. 244
प्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः ।पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि ।पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते ।वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि ।महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् ।मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे ।मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable); pāda 3, syllable 3 ज (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)