कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

काम

kāmaपुं · masc.

In 22 kośas: 60 synonym verses, 11 as a nānārtha head word, 55 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.73 · p. 6
अन्तराया दानलाभवीर्यभोगोपभोगगाः ।हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ ७२ ॥कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.229 · p. 14
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.431 · p. 20
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.171 · p. 57
कामं प्रकामं पर्याप्तं निकामेष्टे यथेप्सिते ।
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.39
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.101
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।
अनुष्टुप्
genderअindecl.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.32 · p. 5
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.718 · p. 83
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥
अनुष्टुप्
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.97 · p. 75
स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ।इच्छा काङ्क्षा स्पृहेहाश्च वाञ्छा कामो मनोरथः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.214 · p. 85
चर्मिका भूर्जपत्रे स्यात् गुग्गुलौ तु महेश्वरः ।कामः पुरो जटायुश्च कुम्मोलू … कं वरम् ॥ २१४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.45 · p. 3
कलत्रं सप्तमं चाथ द्यूनं च स्मरमन्मथम् ।जामित्रं मदनाह्वानं कामं ततोऽष्टमं मृतिम् ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.21 · p. 9
शैनिः कंसरिपुः शौरिः सारथिस्त्वस्य दारुकः ।प्रद्युम्नो मन्मथः कामो रामो मनसिजः स्मरः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.117 · p. 102
कामक्रोधौ लोभहर्षौ मानश्चापि मदः पुनः ।अन्तर्गतोऽरिषड्वर्गः प्राणस्य क्षुत्तृषे पुनः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.430 · p. 180
नागाह्वा फलिनी मज्जा चासृग्विन्दुच्छदाप्यथ ।कामं प्रकामं पर्याप्तं निकामेष्टे यथेप्सितम् ॥ ४३० ॥
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.49 · p. 240
कामः काम्ये ग्रहे ग्राहो ग्लपनं ग्लापनं समम् ।असद्ग्राहे संसरणं संसारः संसृतिः स्त्रियाम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.9 · p. 370
त्वष्टा विवस्वान्सविता द्वादशो विष्णुरित्यथ ।क्रतुर्दक्षो वसुः कालकामौ च धृतिमानपि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.16 · p. 371
अनाधृष्यो वपुर्वामः कामो भीमः सहो द्युतिः ।क्षिपो विमुक्त एकान्नपञ्चाशो गणआनिलः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.35 · p. 421
खण्डैर्ध्रुवा भवन्त्येवं षड्विंशत्यादितः क्रमात् ।कमलाकरः कलापः कामश्चैवात्र सुन्दरः ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.138 · p. 432
कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः ।अनुतर्षोऽभिलाषश्च काम ईहारुची स्त्रियौ ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.8 · p. 452
कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः ।सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.38 · p. 455
कामो विधाता कन्दर्प आमोजो विषयी पुनः ।सूर्पशम्बरवैर्यर्थः पञ्चवाणार्थ इत्यपि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.80 · p. 470
धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ ।न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नु (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.171 · p. 480
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.31 · p. 11
मधुसारथि-र्मधुसखो मधुदीपोमदनः स्मरो मनसिजः कमनश्च ।विषमाशुगः कुसुमकेतन-कन्तू-रमकश्च काम-कमलासुत-गृत्साः ॥ ३१ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.200 · p. 97
तर्षोऽभिलाषोऽपि मनोरथोऽस्त्रीकामो वशः स्त्री तु तृषा तृडाशा ।काङ्क्षा स्पृहेहापि च कान्तिरिच्छा-ऽऽशंसा च वाञ्छा कविरन्न(?)लिप्सा ॥ २०० ॥
इन्द्रवज्रा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.96 · p. 175
स्यात्तैलकण्टकोऽत्ताक्षुरध्यण्डः कोकिलाक्षकः ।बलं बशालिः कामश्च बृहत्काशश्च खक्खटम् ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 283
दण्डाहतं कालशेयं भवेच्छ्वेतरसं तु तत् ।द्विगुणाम्भोऽथ कामं स्यात्प्रकामं च निकामवत् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.5 · p. 107
द्रुवयं भयं त्रिसंध्यंकिसलय-शयनीय-साय-खेयानि ।********इन्द्रिय-धान्ये लवङ्गके दिव्यम् ।धर्मं दानादिकेऽध्यात्मं सीम स्यादुपशल्यके ।अनुमत्यां तथा कामं पद्मं च गजबिन्दुषु ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.42 · p. 13
कामः पुरो जटायुश्च कुम्भोलूखलकं वरम् ।शोभाञ्जने तीक्ष्णगन्धः शिग्रुकाक्षिबमोचकाः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.156 · p. 27
षट्कं कामो मदो मानो मोहोऽमर्षो रुषापि च ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 77 · p. 39
तत्पुत्रो मन्मथः कामः सूर्पकारातिरनन्यजः ।कायपर्यायरहितो मदनो मकरध्वजः ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.10 · p. 7
कामः कन्तुः खरुर्मारः श्रीसुतो विषमायुधः ।कन्दर्पहृच्छयानङ्गजराभीरुरतिप्रियाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.378 · p. 99
पर्याप्तं [च?] प्रकामं च निकामं काममित्यपि ।यथेप्सितं तथेष्टं च अत्यर्थे गाढमुच्यते ॥ ३७८ ॥
अनुष्टुप्
genderअindecl.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.92 · p. 112
अभिलाषस्तथा कामोऽभिध्या स्यात्परवस्तुनः ।अविनीतोद्धतौ तुल्यौ विनीते प्रश्रितो मतः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.149 · p. 229
genderपुंक्लीm. n.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.23 · p. 36
झषकेतुर्जराभीरुः कामः पञ्चशरः स्मरः ।ब्रह्मात्मभूः पत्रिरथः पद्मभूः पङ्कजासनः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.29 · p. 4
अनङ्गो मदनः कामो मारः पञ्चशरः स्मरः ।मनोभवो रतिपतिर्मन्मथो मकरध्वजः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.86 · p. 27
लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा ।कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.650 · p. 86
लोभस्तृष्णा स्पृहा लिप्सा गर्द्धः काङ्क्षा वशस्तथा ।आशा वाञ्छा धनाया च रुचिः कामश्च कामना ॥ ६५० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2740 · p. 445
कामं तथा निकामञ्च प्रकामञ्च यथेप्सितम् ॥ २७४० ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.41 · p. 4
बलदेवः पुलम्बघ्नो रुक्मिदर्पो हलायुधः ।कालिन्दीभेदनः कामः कामपालो मधुप्रियः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.44 · p. 4
स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः ।कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.54 · p. 5
द्वारवती द्वारकापि कामाद्यास्तनया वृथः ।रत्नाङ्कः सर्वतोभद्रो दारुकश्चास्य सारथिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.479 · p. 33
उत्तमे चरिते शीलं उन्मादश्चित्तविभ्रमे ।प्रेम क्लीबे पुमान् प्रेमा स्नेहः प्रणय इत्यपि ॥हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते ।इच्छाकाङ्क्षा स्पृहा वाञ्च्छा लिप्सा कामो मनोरथः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.196 · p. 124
वृद्धिस्थानं क्षयश्चेति त्रिवर्गोनीतिवेदिनम् ।इतरेषान्तु धमार्थकामैरप्यभिधीयते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ध (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.30 · p. 160
अनुकः कमनः कामः कामी च कामिरित्यपि ।आश्रवो विनयग्राही विधेयः वचने स्थितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.65 · p. 193
लोलोऽपि गर्धनो गृध्नु-गृध्नौ चेहेह ईहने ।कामश्च कामना, धृष्टौ धृष्णुः स्याद्धृष्णजा सह ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.37 · p. 5
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.78 · p. 11
कालः कामः सखा सत्यो विश्वेदेवा अमी दश ।प्राभास आपः प्रत्यूषो धरः सोमो ध्रुवोऽनिलः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.975 · p. 122
ईप्सा लिप्सा स्पृहा वाञ्छा काङ्क्षेहेच्छातृषः समाः ।तर्षो मनोरथः कामोऽभिलाषो लालसा द्वयोः ॥ ९७५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1281 · p. 156
निदेशः शासनं शिष्टिराज्ञाशास्तिनियुक्तयः ।कामक्रोधौ लोभमोहौ मदो मत्सर इत्यमी ॥ १२८१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1791 · p. 217
गुग्गुलुः कालनिर्यासो देवधूपो महेश्वरः ।श्रीमान् स्निग्धः सर्वसहः श्लेषी कामो हरप्रियः ॥ १७९१ ॥
अनुष्टुप्
genderपुंmasc.
भ्रूमध्यं माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका ।शान्तः कान्तः कामिनी च कामो विघ्नविनायकः ।नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.12 · p. 28
क्रोधीशो बलभिद्धूम्रभैरवीनादबिन्दुभिः ।त्रिमूर्तिर्मन्मथः कामः बीजं त्र्यैलोक्यमोहनम् ॥क्ली̐॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.27 · p. 5
प्रद्युम्नो मन्मथः कामो मारो मनसिजः स्मरः ।कन्दर्पो दर्पकोऽनंगो मीनांको मकरध्वजः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.54 · p. 49
कामः पुरो जटायुश्च कुंभोलूखलकं वरम् ।रज्जुदाले नीचुदारः कच्छूदारो गृहद्रुमः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.179 · p. 97
हृल्लेखो रणरणकोऽप्यभिध्या विषमस्पृहा ।तृषिः कांक्षा स्पृहेहेच्छा वांछा कामो मनोरथः ॥ १७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.10 · p. 104
द्विकं तु मनआत्मानाविन्द्रियाणि तु पञ्चकम् ।षट्कं कामो मदो मानो लोभो हर्षो रुषापि च ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.104 · p. 167
धीतिस्तु धयनं पानं जक्षा खादनभक्षणे ।कामं निकामं पर्याप्तं प्रकामं च यथेप्सितम् ॥ १०४ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.138
इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ ॥ १३८ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास मश्लोकः Dharaṇikośa 24.3.2 · p. 145
कामं काम्ये निकामे च कामस्तु मदनेच्छयोः ।यत्काममभ्यनुज्ञाने तदव्ययमुदाहृतम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.57 · p. 279
योषाहिङ्गुलिनीषु योषिति मतः कामः स्मरेऽस्त्रीप्सितेक्लीबं शुक्रनिकामयोरथ रमः कान्ते स्त्रियां तु श्रियि ।तद्वत्सु त्रिषु पुंसि तु स्मरगतो रक्तेऽप्यशोकद्रुमेन स्त्री स्यान्मलयोद्भवे च शिशिरे तद्वत्तुषारे हिमम् ॥ ५७ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.188 · p. 59
चम्पकप्रसवे तु क्ली तथा दमनके त्रि तु ।प्रिये मनोज्ञे कामस्तु कन्दर्पे काम्यवाञ्छयोः ॥ १८८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.189 · p. 59
गुग्गुलौ च निकामे तु क्ली स्यादनुमतेऽव्ययम् ।काम्यं कामयितव्ये च कामसाधौ च भेद्यवत् ॥ १८९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.14 · p. 19
मूर्ध्नि प्राकारशिखरेऽप्यथ कामपदं भगे ।कामस्यापि पदे कोकनदं तु कथितं बुधैः ॥ १४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.78 · p. 220
अर्धं क्लीबे समांशार्थे धर्मं दानादिके पुनः ।सारं न्याय्ये खलं भुम्यां कामं चानुमतावपि ॥ ७८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.4 · p. 253
क्रमोऽनुक्रमशक्त्योर्ना कल्पाक्रमणयोरपि ।क्षमा क्षान्तौ क्षितौ स्त्री तु क्षमं युक्ते नपुंसकम् ॥वाच्यलिङ्गं हिते शक्ते क्षये क्षीणेऽबले त्रिषु ।कामः स्मरेच्छयोः कामं काम्ये वीर्यनिकामयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1879 · p. 229
ओघः परंपरासंख्यप्रवाहेषु कदम्बके ।कामः काम्यस्मरेच्छासु कलहेऽन्त्ययुगे कलिः ॥ १८७९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.295 · p. 193
रेतोनिकामकाम्येषु कामं पुंसि स्मरेच्छयोः ।क्षौममट्टे दुकूले च ग्रामः संवसथे स्वरे ॥ २९५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.17 · p. 215
विकल्पेऽपि च कक्षस्तु गुल्मे स्पर्धापदे तृणे ।काम्यस्पृहास्मराः कामाः कलहेऽन्त्ययुगे कलिः ॥ १७ ॥
अनुष्टुप्

काम as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् भगभगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ Amarakośa 3.3.26
  • हलायुधकोशः (अभिधानरत्नमाला) कच्चित्समयानिकषाशब्दौ सामीप्ये कीर्तितौ बुधैः । तर्कनिश्चययोर्नूनं कच्चित्स्यात्प्रश्नकामयोः ॥ ८७९ ॥ Abhidhānaratnamālā (Halāyudha) 5.879
  • धरणिकोश शङ्कुकल्कः पापाशये दम्भे कल्कं किल्बिषकिट्टयोः । शङ्कुः संख्यान्तरे कामे शम्भौ यादोऽस्त्रभेदयोः ॥ Dharaṇikośa 1.2.3
  • धरणिकोश मदनमदनः पादपे कामे मधूच्छिष्टवसन्तयोः । शकुनो विहगे ज्ञेयः शकुनः शुभशंसकः ॥ Dharaṇikośa 19.2.32
  • धरणिकोश वामवामं निर्भरसुन्दरद्रविणयोर्वामं प्रतीपार्थकं वामं सव्यमुदाहृतं कविवरैर्वामः स्मृतः शंकरः । वामः कामः पशौ पयोधरवरे वामा स्मृता कामिनी वामी स्याद्वडवा तथोष्ट्रकवधूर्वामी शिवा गर्दभी ॥ Dharaṇikośa 24.3.8
  • कोषकल्पतरु कौतुककामे भोगे कुतुके कौतुकमच्छिन्नमङ्गले चापि । दीपाङ्गयोः प्रतीकः प्रतिकूलविलोमयोः परवत् । विश्वामित्रे वृत्रशत्रावुलूके व्यालग्राहे गुग्गुलौ कोशविज्ञे । पुंलिङ्गः स्यात्कौशिकः कौशिकी तु कात्यायन्यां स्यात्स्रवन्तीविशेषे ॥ ७७ ॥ Koṣakalpataru 6.1.77
  • कोषकल्पतरु अनङ्गकामे त्वनङ्गः खहृदोस्तु षण्ढे शालौ पतंगः शलभे खगेऽर्के । स्यात्पारदेऽन्त्येऽथ वरण्डकेऽपि नरङ्ग ऊर्मौ चरमे शफे स्यात् ॥ १९ ॥ Koṣakalpataru 6.3.19
  • कोषकल्पतरु कञ्जसञ्जो विरिञ्चौ च हरेऽथ कञ्जः । केशे विरिञ्चे[267b]चरमे तु पद्मे- ऽमृतेऽथ कामे च[हरे]हरौ च ॥ २० ॥ Koṣakalpataru 6.7.20
  • कोषकल्पतरु कमनकामेऽप्यशोके कमनोऽन्यवत्तु कम्रेऽभिरूपे धमनस्तु वह्नौ । आध्मापके क्रूरतरेऽन्यलिङ्गः स्त्रियां हरिद्राद्रुतिवाचकश्च ॥ १९ ॥ Koṣakalpataru 6.21.19
  • कोषकल्पतरु आत्मयोनिस्यात्कुम्भयोनिर्मुनिवृक्षभेदे कामे पुनर्ब्रह्मणि चात्मयोनिः । स्याच्चित्रभानुस्तरणौ च वह्नौ कलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥ Koṣakalpataru 6.21.46
  • कोषकल्पतरु मदयित्नुपारावते कामुककामयोस्तु जल्पाकमद्ये मदयित्नुरुक्तः । स्याद्धर्षयित्नुस्तनये सुवर्णे- ऽथो घोषयित्नुः पिकविप्रयोश्च ॥ ४७ ॥ Koṣakalpataru 6.21.47
  • कोषकल्पतरु विष्मकर्पूरे सलिले तथा स्मरहरे स्याद्यज्ञनेत्र्योषधा- विष्मः कामवसन्तयोर्नरि मतो युध्मः शरे योद्धरि । युद्धे धन्वनि चाथ भीम उदितः शम्भौ बकद्वेषिणि स्यादम्लेऽपि च वेतसे त्रिषु पुनर्घोरेऽथ भामो रवौ ॥ ६५ ॥ Koṣakalpataru 6.25.65
  • कोषकल्पतरु मुर्मरकामे तुषाग्नौ तरणेस्तथाऽश्वे- ऽथो निर्जरः स्वर्गिणि पुंसि शस्तः । जराविहीने परवत्स्त्रियां तु गुडूचिकायामपि तालपत्र्याम् ॥ २२ ॥ Koṣakalpataru 6.27.22
  • कोषकल्पतरु पटीरचन्दनकन्दुककामे भवति पटीरः क्वचिन्न स्त्री । जघनप्रदेशदर्योः कटीरमन्त्येऽथ पाटीरः ॥ ६० ॥ Koṣakalpataru 6.27.60
  • कोषकल्पतरु निषद्वरआडम्बरस्तु गजगर्जिततूर्यनाद- प्रारम्भणेषु न च योषिति कीर्तितो ज्ञैः । कामे निषद्वरमुशन्ति च शाद आद्ये रात्रौ पुनर्भवति किं च निषद्वरीति ॥ ३०० ॥ Koṣakalpataru 6.27.300
  • कोषकल्पतरु कर्ववित्तेऽपि सान्त्वं त्विह दक्षिणत्वे स्यात्साम्न्यथेशे नरि सर्व उक्तः । समस्तवाची परवत्प्रदिष्टः [77a]कर्वस्तु कामे नरि मूषके च ॥ ५०० ॥ Koṣakalpataru 6.29.500
  • नानार्थार्णवसंक्षेप षट्कविशेषात् काममदयोर्लोभहर्षरुषामपि । मानस्य चेत्यमीषां ना षण्णां सङ्घेऽथ षड्ध्वनेः ॥ १४३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1435
  • नानार्थार्णवसंक्षेप कौतुकमङ्गले विषयाभोगे कामे ख्याते तथैव च । हस्तसूत्रेऽथ कौपीनं गुह्ये चाकार्य एव च ॥ २७ ॥ Nānārthārṇavasaṃkṣepa 3.3.27
  • नानार्थार्णवसंक्षेप वासरवाचाला वासरस्त्वस्त्री दिवसे ना तु पावके । कामे प्रावृषि चाथ स्युर्वाहिकाः पुंसि भूम्नि च ॥ १६८० ॥ Nānārthārṇavasaṃkṣepa 4.1680
  • परमानन्दीयनाममाला इईषदर्थक्रियायोगसीमाभिव्याप्तिषूक्त आङ् । इः कामे कल्मषे चापि निपातः खेदकुब्वचोः ॥ ५ ॥ Paramānandīyanāmamālā 1.5
  • परमानन्दीयनाममाला ररः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ Paramānandīyanāmamālā 1.36
  • परमानन्दीयनाममाला अङ्गजशुभेऽपि सूतिकागारेऽङ्गजः कामे तनूद्भवे । अञ्जनो दिग्गजे भूध्रेऽञ्जनं सौवीरयानयोः ॥ २६ ॥ Paramānandīyanāmamālā 5.1.26
  • परमानन्दीयनाममाला आत्मभूआयतिर्भावसंहत्योरेष्यत्काले स्वतन्त्रके । आसत्तिः संगमे लाभेऽथात्मभूः कामरुद्रयोः ॥ ३५ ॥ Paramānandīyanāmamālā 5.1.35
  • परमानन्दीयनाममाला कन्तुकन्तुः कामे कुसूलेऽथ कान्तिः शोभेच्छयोर्मता । कान्तः प्रिये मनोज्ञे च कालो वर्णे यमे मृतौ ॥ ९५ ॥ Paramānandīyanāmamālā 5.7.95
  • परमानन्दीयनाममाला वामवामो महेश्वरे कामे प्रतिकूले पयोधरे । वाहस्तुरंगमे मेघे व्यूहः सङ्घवितर्कयोः ॥ ३५१ ॥ Paramānandīyanāmamālā 5.24.351
  • शब्दरत्नावली भगभगं स्त्रीज्ञानवैराग्ययोनिमाहात्म्यकीर्तिषु । ऐश्वर्यधर्मकामेषु मोक्षे यत्नेऽथ ना रवौ ॥ Śabdaratnāvalī 7.3.13
  • शब्दरत्नावली अङ्गजअण्डजः स्यान्मृगमदे सरटे पक्षिमत्स्ययोः । अङ्गजं रुधिरे ना तु कामे पुत्रे मदे कचे ॥ Śabdaratnāvalī 7.8.19
  • शब्दरत्नावली अपष्ठुअपष्ठुः पुंसि कामे स्याद् वामे तु वाच्यलिङ्गकः । अम्बष्ठो द्विजवैश्याजे देशे हस्तिपके पुमान् ॥ Śabdaratnāvalī 7.12.9
  • शब्दरत्नावली विधातृविवृता क्षुद्ररोगे स्याद् वाच्यलिङ्गन्तु विस्तृते । विनेता देष्टृनृपयोर्विधाता कामवेधसोः ॥ Śabdaratnāvalī 7.16.137
  • शब्दरत्नावली मदनभोगी पुंसि भुजङ्गे स्याद् ग्रामपात्रे महीपतौ । महिषी व्यतिरिक्तायां राजयोषिति भोगिनी ॥ मदनः कामधुस्तूरवसन्तद्रुमसिकथके । मलनं मर्दने क्लीबं पटवासे भवेत्पुमान् ॥ मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यपि ॥ Śabdaratnāvalī 7.20.67
  • शब्दरत्नावली आत्मयोनिआत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
  • शब्दरत्नावली कामचारिन्धातुवादरते कांश्यकारे कारन्धमी पुमान् । स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥ इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥ कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥ मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ Śabdaratnāvalī 7.20.133
  • शब्दरत्नावली अभिरूपअभिरूपो बुधे रम्ये कामेन्दुहरविष्णुषु । अवन्वेपो दूषणे स्यादहङ्कारे च लेपने ॥ Śabdaratnāvalī 7.21.20
  • शब्दरत्नावली द्रुमद्रुमः किम्पुरुषे कामे पारिजाते महीरुहे । धर्मोऽस्त्री सुकृता चारस्वभावोपनिषत्सु च ॥ Śabdaratnāvalī 7.25.12
  • शब्दरत्नावली रमरमा लक्ष्म्यां रमः कान्ते कामे च रक्तवञ्जुले । रामो हलिनि शारङ्गे राघवे वरुणे हये ॥ Śabdaratnāvalī 7.25.18
  • शब्दरत्नावली वामवामः स्तने हरे कामे पुंसि क्लीबं धनेऽपि च । चारुप्रतीपसव्येषु नार्यामपि वामा स्त्रियाम् ॥ Śabdaratnāvalī 7.25.21
  • शब्दरत्नावली ररः कामवह्नौ च रुः शब्दे रा धने पुमान् । री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् । श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु । विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥ Śabdaratnāvalī 7.27.1
  • शब्दरत्नावली वेरवेरं कामे पुमान् क्लीबं वार्त्ताकौ कुङ्कुमेऽपि च । शारिर्नाक्षोपकरणे व्यवहारान्तरेऽपि च । युद्धार्थगजपर्याणभागे शकुनिके स्त्रियाम् ॥ Śabdaratnāvalī 7.27.45
  • शब्दरत्नावली ईश्वरआशरो राक्षसे पुंसि तथा वैश्वानरेऽपि च । इत्वरी कुलटायां स्त्री पथिकक्रूरयोस्त्रिषु ॥ ईश्वरः शङ्करे कामे नाट्ये स्वामिनि वाच्यवत् । ईश्वरा चेश्वरी गौर्य्यां लक्ष्मीवाण्यादिशक्तिषु ॥ Śabdaratnāvalī 7.27.58
  • शब्दरत्नावली मुहिरमसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥ मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥ मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥ मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ Śabdaratnāvalī 7.27.96
  • शब्दरत्नावली रामिलरसाले इक्षौ पनसे च माकन्दे सिह्लकेऽपि च । रामिलो रमणे कामे लाङ्गुलं पुच्छशेफयोः ॥ Śabdaratnāvalī 7.28.86
  • शब्दरत्नावली अभीषुअध्यक्षोऽधिकृते पुंसि प्रत्यक्षेऽतिप्रधानके ॥ अभीषुः प्रग्रहे कामकिरणानुरागेषु ना । उष्णीषोऽस्त्री शिरोवेष्टे किरीटचिह्नभेदयोः ॥ Śabdaratnāvalī 7.31.18
  • शब्दरत्नावली उदर्चिस्अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः । उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥ Śabdaratnāvalī 7.32.42
  • शब्दरत्नावली इअः स्यात्कृष्णे आ विधौ स्याद् इः कामे ईः श्रियामपि । उः शिवे ऊ विधौ ऋः स्याद्देवमातरि ऋर्दिवि ॥ Śabdaratnāvalī 8.1
  • शब्दरत्नाकर बन्धुआधिबन्धनयोर्बन्धो बन्धुर्बान्धवकामयोः । बलो रामे दैत्यभैदे काके बलवति त्रिषु ॥ १९६६ ॥ Śabdaratnākara 4.1.1966
  • शब्दरत्नाकर अङ्गजब्रह्मण्यव्यक्तमस्पष्टे त्रिषु स्यात् सौम्यमन्दयोः । अलसोऽथाङ्गजः कामे प्राणादौ तनये रुजि ॥ २०४० ॥ Śabdaratnākara 4.1.2040
  • शब्दरत्नाकर इएकाक्षरा इहोच्यन्ते पूर्वं नोक्ता यथाक्रमम् । अस्तु विष्णौ वर्णमात्रे स्यादिः काम उरीश्वरे ॥ २२४० ॥ Śabdaratnākara 4.1.2240
  • तन्त्राभिधान क्लींक्लीं कामो ग्लौञ्च भूबीजं श्रौं विश्वः क्ष्रौं नृकेशरी । हौं प्रासादं शिवो गञ्च विघ्नराज उदाहृतः ॥ ३४ ॥ Tantrābhidhāna 1.34
  • तन्त्राभिधान क्षपरात्मा क्रोध-संहारौ वनान्तो मेरुवाचकः । सर्वाङ्गं सागरः कामः संयोगान्तस्त्रिपूरकः ॥ १७१ ॥ Tantrābhidhāna 2.52.171
  • तन्त्राभिधान इइ-कार उच्यते कामो लक्ष्मी-री-कार उच्यते । उ-कारः शङ्करः प्रोक्त ऊ-कारश्चापि रक्षणे ॥ २ ॥ Tantrābhidhāna 3.2
  • तन्त्राभिधान र----------------------------------- याने यातरि यस्त्यागे कथितः शब्दवेदिभिः । रः स्यात् कामेऽनिले वह्नौ शब्दे रुः परिकीर्त्तितः ॥ २९ ॥ Tantrābhidhāna 3.29
  • त्रिकाण्डशेष आत्मभूआरम्भे उद्यमे दर्पे कामे ब्रह्मणि चाऽत्मभूः । ऋषभौ श्रेष्ठवृषभौ करभोऽधःकरोष्ट्रयोः ॥ २८४ ॥ Trikāṇḍaśeṣa 3.3.284
  • वैजयन्ती कङ्कणकामे ख्याते मंगले च हस्तसूत्रेऽपि कंकणम् । कटित्रं चर्म सुस्यूतं कटीवेष्टनचर्म च ॥ ११ ॥ Vaijayantī 7.3.11
  • वैजयन्ती अजिरक्ल्यक्षतं तण्डुले धान्ये न ना लाजेषु ना यवे । अजिरं जर्जरे कामे विषयांकणयोर्द्रुते ॥ १४ ॥ Vaijayantī 7.5.14
  • वैजयन्ती निषद्वरनिश्चारको निर्गमके पुरीषोत्सर्गिमारुते । निषद्वरी निशा कामकर्दमौ तु निषद्वरौ ॥ ११ ॥ Vaijayantī 8.5.11