कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कन्धर

kandharaपुं · masc.

In 6 kośas: 6 synonym verses, 2 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.62 · p. 180
मार्षकस्त्वपरो वीजी बाष्पिकः कन्धरोऽपि सः ।स्याद्गौडवास्तुकश्चिल्ली यवशाकं महद्दलम् ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.77 · p. 11
स्तनयित्नुर्धूमयोनिर्मुदिरः शिशिरः शुची ।अजिरगः कन्दरश्च नागः कन्धर इत्यपि ॥ ७७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 र (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.297 · p. 62
अतिभारवहे स्थौरी पृष्ठ्यः पटुकलः पटुः ।कर्कः सिताश्वे नीलाश्वे कलमः कन्धरः शरः ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.308 · p. 64
स तु पुष्यरथः प्रोक्तो यात्राद्युत्तमको रथः ।मनुष्यस्कन्धवाह्यो यः स तु कन्धर इष्यते ॥ ३०८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.2 · p. 15
मदयित्नुर्वायुदारुर्व्योमधूमो नभोगजः ।गडेरः कन्धरो वातरथो वारिमसिः स्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.381 · p. 79
कन्धरो वारिदे ग्रीवासिरयोस्तु स्त्रियामियम् ।कन्धरा कथिता सद्भिः पुन्नपुंसकयोः पुनः ॥ ३८१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.60 · p. 269
शबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् ।कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् ।कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् ।करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)
meaningsजलधर