कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

प्रथमः काण्डः · दिग्वर्गः

इति व्योमवर्गः ॥ २ ॥

पाथोदः खतमालो गदाम्बरः ॥ १ ॥
1.3.1 · p. 15
मदयित्नुर्वायुदारुर्व्योमधूमो नभोगजः ।गडेरः कन्धरो वातरथो वारिमसिः स्त्रियाम् ॥ २ ॥
1.3.2 · p. 15
अनुष्टुप्
करका स्याद्धनकफो बीजोदकमिराचरम् ।मेघास्थिवर्षणन्तु स्याद्रोधृतञ्च परामृतम् ।सौदाम्नी त्वशनिविद्युदणुभा वाऽचिरद्युतिः ॥ ३ ॥
1.3.3 · p. 15
अनुष्टुप्metre not read in every line
तिथिप्रणीर्दर्शविपन्निशामणिस्त्रिनेत्रचूडामणित्रिनेत्रभूः ।सुधाङ्गमौ द्वौ मृगपिष्लुपक्षजौ दशाश्वसिप्रग्रहमेमिचन्दिराः ॥ ४ ॥
1.3.4 · p. 15
वंशस्थम्metre not read in every line
छायामृगधरो राजा माः परिज्ञो बलक्षगुः ।द्विजो दाक्षायणी तुङ्गी रोहिणी यज्वनाम्पतिः ॥ ५ ॥
1.3.5 · p. 15
अनुष्टुप्
उडुपः पर्वधिः क्लेदो जयन्तस्तपसो हरिः ।तारापीडः खचमसो विकसः सिन्धुनन्दनः ॥ ६ ॥
1.3.6 · p. 15
अनुष्टुप्
चन्द्रिका चन्द्रशाला स्यान्नीहारः खनिशाजलम् ।शीतं तु शीतलं पत्रहिमं तु हिमदुर्दिनम् ॥ ७ ॥
1.3.7 · p. 16
अनुष्टुप्
कुज्झुटिर्धूममहिषी रतांघ्री च कुहेलिका ।धूमिका च नभोरेणुरथाऽगस्त्याग्निमारुती ॥ ८ ॥
1.3.8 · p. 16
अनुष्टुप्
सत्याग्निर्वारुणिर्विन्ध्यकूटो वातापिसूदनः ।दीप्ताग्निर्वशेयश्च समुद्रचूलुकोऽस्य तु ॥ ९ ॥
1.3.9 · p. 16
अनुष्टुप्metre not read in every line
प्रियी कौषीतकी लोपामुद्राख्या च विदर्भजा ।प्राक्फाल्गुनेथस्तूऽतथ्यानुजः पारुष्यगोरथौ ॥ १० ॥
1.3.10 · p. 16
अनुष्टुप्
दीदिविर्द्वादशकरश्चक्षाः सुरगुरुर्गुरुः ।शुक्रो भः शतपर्वेशो मघाभूर्भृगुरास्फुजित् ॥ ११ ॥
1.3.11 · p. 16
अनुष्टुप्
षोडशार्चिर्नवार्चिस्तु मङ्गलः खोल्मुकः कुजः ।बुधो हेमा राजपुत्र एकदेहः प्रहर्षणः ॥ १२ ॥
1.3.12 · p. 16
अनुष्टुप्
स्यात्पञ्चार्चिः श्रविष्ठाजः श्यामाङ्गैकाङ्गरोधनाः ।शनैश्चरो नीलवासा मन्दश्छायात्मजः शनिः ॥ १३ ॥
1.3.13 · p. 16
अनुष्टुप्
राहुस्तु ग्रहकल्लोलोऽभ्रपिशाचोऽप्यथाऽहिकः ।केतुर्ज्योतिरथस्तु स्याद्ग्रहाधारो ध्रुवश्च सः ॥ १४ ॥
1.3.14 · p. 17
अनुष्टुप्
तत्क्षणं सूर्य्यमुक्तादिग्बुधैरङ्गारिणी स्मृता ।आसन्नास्तमया धीरैरुच्यते सोपधूपिता ॥ १५ ॥
1.3.15 · p. 17
अनुष्टुप्
सुनीतिर्ध्रुवमाता स्यान्माता दक्षस्य मारिषा ।छायापथो देवपथः सोमधारा नभःसरित् ॥ १६ ॥
1.3.16 · p. 17
अनुष्टुप्
दिनप्रणीस्त्वऽव्यधिषौ भानेमिरवरव्रतः ।गभस्तिहस्तोंऽशुधरः खरांशुर्भारविर्भगः ।वेदोदयः प्रतिदिवा मातुः पितुस्तमोपहः ॥ १७ ॥
1.3.17 · p. 17
अनुष्टुप्metre not read in every line
दिनमणिहरिहेलिब्रध्नभाकोषभाभृ-दरथिखगपतङ्गेनाद्रयः सप्तसप्तिः ।मिहिरमहिरपीथाः कालकृत्पद्मपाणिःखमणिररुणशूरावंशुमानंशुमाली ॥ १८ ॥
1.3.18 · p. 17
मालिनी
छाया स्यात्तपती मन्दजननी भूमयी वरी ।संज्ञा तु यमकालिन्दीरेवन्तमनुदस्रसूः ॥ १९ ॥
1.3.19 · p. 17
अनुष्टुप्
त्रसरेणुर्महावीर्या स्वातिः सूर्या सुवर्चला ।सुरेणुर्द्युमयी त्वाष्ट्री प्रिये चेते विवस्वतः ॥ २० ॥
1.3.20 · p. 18
अनुष्टुप्
अश्मनो रमणोऽनूरुर्जटायुस्त्वरुणात्मजः ।
1.3.21 · p. 18