मुषली
muṣalīस्त्री · fem.In 3 kośas: 5 synonym verses, 1 as a nānārtha head word.
मुशली मुषली चाथ तन्तुवायस्तु वायकः ।ऊर्णनाभश्चोर्णनाभिर्लूता मर्कटकः कृमिः ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
मुषली तालमूली स्यात्तालिका तालमूलिका ।अजशृङ्गी विषाणी स्यात्तथा कर्कटशृङ्गिका ।गोजिह्वा दार्विका चेति दार्वी गोजिह्विकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
सरटः प्रतिसूर्यः स्यात् कृकलासस्तृणाञ्जनः ।मुषली मुसली कुड्यमत्सी च गृहगोधिका ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्तद्धितेऽपवादोऽयं त्रिलिङ्गत्वे स्त्रियामिह ।क्वचिदल्पविवक्षायां मृणाल्यादिरपि स्त्रियाम् ॥मृणाल्यल्पं मृणालन्तु प्रणाली मुषली घटी ।ह्रस्वो वंशस्तु वंशी स्यात्कुम्भीपाठी पटी नटी ॥
अनुष्टुप्
genderस्त्रीfem.
गोधेर-गोधारौ, पल्यां गृहोली गृहगोलिका ।गृहोलिका मुसली मूर्द्धन्यतालव्यदन्त्यभाक् ॥ ३३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderस्त्रीfem.doubtful
माचलोऽपि ग्रहे रोगे स्यात्पुमान् वन्दिचौरयोः ।मुषली तालमूल्याखुपर्णिकागृहगोधिषु ॥मेखला स्त्रीनितम्बे स्यात्स्त्री काञ्ची खड्गकोषयोः ।रसाला रसना दूर्वा विदारी मार्जितासु च ॥
अनुष्टुप्