All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · सिंहादिवर्गप्रकाशः (1/4)
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां वनौषधिवर्गप्रकाशः ॥
सिंहः पारीन्द्रः पञ्चास्यो मृगेन्द्रः श्वेतपिङ्गलः ।कण्ठीरवः पञ्चशिखः शैलाटी भीमविक्रमः ॥
3.5.1 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्द्रः (wrong syllable)
हरिः शटाङ्गो मृगराट् मृगराजो मरुत्प्लवः ।हर्यक्षः केशरी केशी नगौकाः करिदारणः ॥
3.5.2 · p. 82
अनुष्टुप्
शरभः स्यादूर्ध्वपादः शार्दूलोऽष्टापदोऽपि सः ।अथ हिंस्रपशुर्व्यालो हिंसको हिंस्रकः शिविः ॥
3.5.3 · p. 82
अनुष्टुप्
व्याघ्रो द्वीपी च शार्दूलो हिंसारुः श्वापदोऽपि च ।अथ तक्षुस्तरक्षुश्च मृगादनतरक्षकौ ॥
3.5.4 · p. 82
अनुष्टुप्
अथ शूकरभूदारवराहाः स्थूलनासिकः ।दन्तायुधः स्तब्धरोमा घोणी कोलः किरिः किटिः ॥
3.5.5 · p. 82
अनुष्टुप्
क्रोडः पोत्री वक्रदंष्ट्रो दंष्ट्री दीर्घतरः किरः ।घृष्टिराखनिको भूक्षित् बहुसूरपि सूकरः ॥
3.5.6 · p. 82
अनुष्टुप्
वानरो मर्कटो मर्कः प्लवङ्गः प्लवगः प्लवः ।प्रवङ्ग प्रवगोऽपि स्यात् प्लवङ्गमप्रवङ्गमौ ॥
3.5.7 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
गोलाङ्गुलः कपित्थास्यो दधिशोणः कपिः किरिवः ।शाखामृगस्तरुमृगो वनौकाश्च बलीमुखः ॥
3.5.8 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कीशो नगाटनो झम्पी झम्पारुः स्यात् कलिप्रियः ।भल्लूकभल्लभालूकभल्लुका भालुकोऽपि च ॥
3.5.9 · p. 82
अनुष्टुप्
ऋक्षोऽच्छभल्लभाल्लुको भीलुको भील्लुकोऽपि च ।खड्गः खड्गी गणोत्साहो गण्डो गण्डक इत्यपि ॥
3.5.10 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल्लु (wrong syllable)
सृगालोऽपि शृगालः स्यात् फेरुजम्बुकधूर्तकाः ।जम्बूकः फेरवः क्रोष्टा वञ्चको मृगधूर्तकः ॥
3.5.12 · p. 82
अनुष्टुप्
भूरिमायो मूत्रमत्तः कुरवः घोररासनः ।वनश्वा फेर-गोमायुश्वधूर्ताश्च शिवा स्त्रियाम् ॥
3.5.13 · p. 82
अनुष्टुप्
उल्कामुखी दीप्तजिह्वा किखिर्लोमालिकापि च ।विडाल-ओतुर्मार्जारो दीप्ताक्षो वृषदंशकः ॥
3.5.14 · p. 82
अनुष्टुप्
नक्तञ्चरी जाहकः स्यादाखुभुक् च विडारकः ।खटराशी च नाखुः स्यात् शशकः प्रतिशालिजः ॥
3.5.15 · p. 83
अनुष्टुप्
गवालूको वनच्छाग एडको गवयोऽपि च ।खट्टासोऽपि खट्टाशी गन्धोतुर्वनवासनः ॥
3.5.16 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ख (syllables merged)
गोधिका सदृशोऽपि स्यात् खोके इति निगद्यते ।श्वावित् क्रकचपादः स्यात् छेदारः शल्य इत्यपि ॥एतस्य लोम्नि शललं शलली शलमित्यपि ।वातप्रमीर्वातमृगो वाताटहरिणे द्वयम् ॥कोक ईहामृगेऽपि स्याद् वृक ईहावृकोऽपि च ॥
3.5.18 · p. 83
अनुष्टुप्
मृगे शारङ्गहरिणसारङ्गचारुलोचनाः ।कुरङ्गोऽजिनयोनिः स्याज्जिनयोनिः कुरङ्गमः ॥
3.5.19 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
ऋष्य ऋश्यो रिश्यरिश्यावेणः स्यादेणकोऽपि च ।एण्याश्चर्माद्यमैनेयमेनस्यैणं त्रिषुद्वयम् ॥
3.5.20 · p. 83
अनुष्टुप्
त्रिषु स्यात् कन्दलं चीनः समूरुः प्रियकोऽपि च ।चमूरुः कदली स्त्री तु षट्स्यादजिनयोनयः ॥
3.5.21 · p. 83
अनुष्टुप्
मृगभेदाः कृष्णसार-रुरु-सम्बर-रौहिषाः ।गोकर्ण-रङ्क-चमर-न्यङ्कु-गन्धर्व-रोहिताः ॥
3.5.22 · p. 83
अनुष्टुप्
विन्दुचित्रक-एनर्ष्यपृषताः सृमरः शशः ।गवयश्चैवमाद्याश्च तथान्येऽपि च लोकतः ॥
3.5.23 · p. 83
अनुष्टुप्
कालसारः कृष्णसारः कृष्णशारोऽपि कीर्तितः ।शम्बरः सम्बरोऽपि स्यात् रोहिषो रौहिषोऽपि च ॥
3.5.24 · p. 83
अनुष्टुप्
चमरश्चमरी चैव पृषच्चे पृषतोऽपि च ।उक्तानुक्ताश्च सिंहाद्या गवाद्याः पशुजातयः ॥
3.5.25 · p. 83
अनुष्टुप्
मूषीको मूषिको मूषो मूषकश्चाखुरुन्दरुः ।उन्दुरः खणको बभ्रुर्वृष आखनिको वृशः ॥
3.5.26 · p. 84
अनुष्टुप्
चिक्कः स्याद्वेश्मनकुलश्चिक्का च बालमूषिका ।गन्धमुखी गन्धमूषी गिरिका स्यात् छुछुन्दरी ॥
3.5.28 · p. 84
metre not recognised
सरटः प्रतिसूर्यः स्यात् कृकलासस्तृणाञ्जनः ।मुषली मुसली कुड्यमत्सी च गृहगोधिका ॥
3.5.29 · p. 84
अनुष्टुप्
मूली ज्येष्ठी टुट्टुकी स्यात् शकुनज्ञा गृहपालिका ।स्यान्मर्कटो मर्कटकस्तन्तुवायश्च लूतिका ।ऊर्णनाभिरूर्णनाभो लूता शलक इत्यपि ॥
3.5.30 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भि (wrong syllable)
कृमिः क्रिमिश्च नीलङ्गुर्नीलाङ्गुः कीट इत्यपि ।कर्णकीटा शतपदी स्याद्भीरुः शतपादिका ॥
3.5.32 · p. 84
अनुष्टुप्
तथा कर्णजलौकाश्च स्यात् कर्णजलुकापि च ।वृश्चिकः शूककीटः स्यात् शुककीटक इत्यपि ॥
3.5.33 · p. 84
अनुष्टुप्
आल्यालिनौ द्रुणाद्रोणौ स्यादलिः क्षुद्रवृश्चिके ।स्यात् कपोतः कलरवः पारावतपरावतौ ॥
3.5.34 · p. 84
अनुष्टुप्
प्रासादकुक्कुटो भिल्लीकण्ठो गृहकपोतके ।कलकण्ठश्च तत्रैव क्वचित् केचित् प्रचक्षते ॥
3.5.35 · p. 84
अनुष्टुप्
श्येनः पत्री कपोतारीः पतद्भीरुः शशादनः ।पेचको बायसारातिर्दिवाभीतिर्निशाचरः ॥
3.5.36 · p. 84
अनुष्टुप्
उलूकः काकभीरुः स्यात् कौशिको रूपनाशनः ।नखाशी घर्घरः पेचः शक्राख्यो रक्तनासिकः ॥
3.5.37 · p. 84
अनुष्टुप्
दिवान्धो हरिनेत्रश्च दिवाभीतोऽपि भीरुकः ।व्याघ्राटः स्याद्भरद्वाजो भारद्वाजक इत्यपि ॥
3.5.38 · p. 84
अनुष्टुप्
वर्तिका विष्णुलिङ्गी च वर्तका वर्तकोऽपि च ।मयूरसदृशो लावो लावको लघुजङ्गलः ॥
3.5.41 · p. 85
अनुष्टुप्
लाडुया इति विख्याते क्वचित् केचित् प्रचक्षते ।दीर्घपादो लोहपृष्ठः कङ्कः स्याद्दीर्घपादपि ॥चासश्चाषः किकीदीविः किकिदिविः किकीदिविः ।स्वर्णचूड इति ख्याते मत्स्यरङ्के च कुत्रचित् ॥
3.5.42 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
कलिङ्गो धनसूर्भृङ्गो धूम्याटः फेचु आह्वये ।दार्वाघाटः काष्ठकुट्टो दार्वीघातः शतच्छदः ॥
3.5.43 · p. 85
अनुष्टुप्
चातकोऽपि च सारङ्गः शारङ्गः स्याज्जलप्रियः ।घनतोलस्त्रिशङ्कुश्च स्तोकको वरिषाप्रियः ॥
3.5.44 · p. 85
अनुष्टुप्
अथ भृङ्गो भृङ्गराजो भृङ्गको राजवासनः ।कुक्कुटो रात्रिरेदी स्यात्ताम्रचूड उषाकरः ॥
3.5.45 · p. 85
अनुष्टुप्
कृकवाकुर्विवृताक्षः काहंसश्चरणायुधः ।चटकः कलविङ्कः स्यात् कलाविकल इत्यपि ॥
3.5.46 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वृ (wrong syllable)
कर्करेटुः करेटुः स्यात् करटुः कर्कराटुकः ।कृकरः कृकणोऽपि स्यात् क्रकरः क्रकरणोऽपि च ॥
3.5.48 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 क्रक (syllable split)
कोकिलः कलकण्ठः स्यात् कुहूकण्ठः कूकूमुखः ।मधुकण्ठः काकपुच्छो घोषयित्नुर्वनप्रियः ॥
3.5.49 · p. 85
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 कू (wrong syllable)
परपुष्टः परभृतः कामजनिः सुतर्दनः ।ताम्राक्षः कलघोषः स्याच्चूतबन्धुर्मधुस्वरः ॥
3.5.50 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
लुण्ठाकः श्रावको ध्वाङ्क्ष आत्मचोषो रतज्वरः ।द्विककारः कारवः स्याद् नाडीजङ्घः सकृत्प्रजः ।सत्यवाक् अप्रकृष्टः स्यात् बलिभुग्यमदूतकः ॥
3.5.52 · p. 86
अनुष्टुप्
ऐन्द्रिः सूत्री शक्रजातो मलभुक् परमृत्युकः ।द्रोणकाकस्तु काकोलो द्रोणः काकल इत्यपि ॥
3.5.53 · p. 86
अनुष्टुप्
स्यात् कुक्कुभः कुक्कुटकः कुलालः कुहकस्वनः ।दात्युहोपि च दात्यूहो दात्यौहः कालकण्ठकः ।कालकण्ठश्च मासङ्गः सितकण्ठः कठाठुकः ॥
3.5.54 · p. 86
अनुष्टुप्
चिल्ल आतायि-वातापि-खभ्रान्ति-कण्ठनीडकाः ।लोहपृष्ठो दीर्घदर्शी गृघ्रो दाक्षाय्य इत्यपि ॥
3.5.55 · p. 86
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्ति (wrong syllable)
गलेगण्डो मर्कटः स्याद् गलगण्डाख्यपक्षिणि ।शुकः कीरः वक्रतुण्डो मेधावी दाडिमप्रियः ॥
3.5.56 · p. 86
अनुष्टुप्
रक्ततुण्डो वक्रचञ्चुश्चिमिः स्याच्चिमिकोऽपि च ।शारिका सारिका शारी सारी च चित्रलोचना ॥
3.5.57 · p. 86
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
सूक्ता चण्डा च चित्राक्षी शलाका स्मरलेखनी ॥
3.5.58 · p. 86
क्रुट् क्रौञ्चः कालिकोऽपि स्यात् कालीकः कालकोऽपि च ।वकः स्याद्द्वारबलिभुक् कङ्केरुः शुक्लवायसः ॥
3.5.59 · p. 86
अनुष्टुप्
दीर्घजङ्घो वटोकश्च कह्वो गृहबलिप्रियः ।अथ सारसो गोनर्द-पुष्कराह्व-कलाङ्कुराः ॥
3.5.60 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सो (wrong syllable)
लक्ष्मणो लक्षणोऽपि स्यात् सरसीकः सरोत् (सरुः) सवः ॥
3.5.61 · p. 86
अथ सारसपत्नी तु लक्ष्मणा लक्षणापि च ।चक्रवाको द्वन्द्वचारी रथाङ्गाह्वयनायकः ॥
3.5.62 · p. 86
अनुष्टुप्
स्याच्चक्रो रथचरणः कोकश्च दिनदुःखितः ।कादम्बः कलहंसः स्यात् कालमाह्वय पक्षिणि ॥
3.5.63 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
उत्क्रोशश्च समुत्क्रोशः कुरवो मत्स्यनाशनः ।मत्स्याशनो मीनरङ्कुर्मत्स्यरङ्गः सुचित्रकः ॥
3.5.64 · p. 86
अनुष्टुप्
अथ हंसः श्वेतगरुत् सितपक्षः सितच्छदः ।सरःकाको मानसौकाश्चक्राङ्गः पुरुदंशकः ॥
3.5.65 · p. 87
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
धार्तराष्ट्रः श्वेतवर्णः कृष्णचञ्चूपदैः स्मृतः ।आटिराटी शरारी च शरारिराडिराडिका ॥
3.5.68 · p. 87
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 रि (wrong syllable)
शरालिः स्यात् शराली च शराटिश्च शरालिका ।विसकण्ठा वलाकी च वलाका विसकण्ठिका ॥
3.5.69 · p. 87
अनुष्टुप्
चक्राङ्गी वरटा हंसी चक्राङ्की वरला च सा ।सरः काकी हंसिका च वारता हंसयोषिति ॥
3.5.70 · p. 87
अनुष्टुप्
अथ तैलचोरिका स्यात् परोष्णी तैलपायिका ।मक्षिका मक्षीका भम्भो माचिका गन्धलोलुपा ॥
3.5.72 · p. 87
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable); pāda 3, syllable 5 क्षी (wrong syllable)
पतङ्गिका पुत्तिका स्यात् सरघा मधुमक्षिका ।अथ नीलमक्षिकायां वर्वणा वार्वणेति च ॥
3.5.73 · p. 87
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ल (wrong syllable)
दंशो गोमक्षिकाऽरण्यमक्षिका भम्भरालिका ।अल्पजातौ तु दंशी स्याद् गन्धोली वरटा द्वयोः ॥
3.5.74 · p. 87
अनुष्टुप्
झिल्लीका झिल्लिका झिल्ली झीरुका झीरिका झिरी ।चीलिका चील्लका चीली भृङ्गारी चिल्लकापि च ॥
3.5.77 · p. 87
अनुष्टुप्
पतङ्गोऽपि च पत्राङ्गः पत्राङ्कः शलभोऽपि च ।ज्योतिरिङ्गन-खद्योत-ध्वान्तोन्मेषास्तमोमणिः ॥
3.5.78 · p. 87
अनुष्टुप्
दृष्टिबन्धुस्तमोज्योतिर्ज्योतिवीजं निमेषकः ।भृङ्गो मधुप-रोलम्ब-चञ्चरीक-मधुव्रताः ॥
3.5.79 · p. 87
अनुष्टुप्
इन्दिन्दिरः पुष्पकीटः पुष्पलिट् मधुसूदनः ।द्विरेफो मधुलिट् भृङ्गराज-भ्रमर-षट्पदाः ॥
3.5.80 · p. 87
अनुष्टुप्
मधुलेही मधुकरो येणुवासोऽलिरप्यली ।पिपीलिका पिपीलिकं पिपीलोऽपि च पीलकः ॥
3.5.81 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 लि (wrong syllable)
ऊड्शाख्ये तु कीटेस्युः उङ्गशोत्कुण-मत्कुणाः ।ओकोदनी तु युकः स्यादाक ओकण्योकण ओकणिः ॥
3.5.82 · p. 88
metre not recognised
लिङ्का लिका च लीक्षा च लीक्का च लिक्षिकेत्यपि ।स्यान्मयूरः शिखी केकी प्रचलाकी च चन्द्रकी ॥
3.5.83 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
नीलकण्ठः सितापाङ्गो मेघनादानुलास्यपि ।मार्जारकण्ठो मेनादः शिखाधारः शिखावलः ॥
3.5.84 · p. 88
अनुष्टुप्
कुमारवाही दीप्ताङ्गो विचित्राङ्गो भुजङ्गभुक् ।वाणी केका केकिका स्याच्चन्द्रे चन्द्रक-मेचकौ ॥
3.5.86 · p. 88
अनुष्टुप्
शिखायान्तु शिखा चूडा मयूरस्य निगद्यते ।शिखण्डोऽस्त्री पिच्छबर्हे शिखिपुच्छशिखण्डके ॥
3.5.87 · p. 88
अनुष्टुप्
पक्षी विहङ्गम-खगौ विहङ्ग-नभसङ्गमौ ।द्विजः शकुन्तशकुनः पतन् पत्रि-पतत्रिणौ ॥
3.5.88 · p. 88
अनुष्टुप्
अण्डजो वाजि-विकिरौ व्योमचारी वि-विष्किरौ ।नाडीचरण-पित्सन्तौ नीडोद्भव-विहायसौ ॥
3.5.89 · p. 88
अनुष्टुप्
शकुन्तिः पतगः पत्ररथः कण्ठाग्निरित्यपि ।पतङ्गः स्यादगौकाश्च नगौका अपि चञ्चुभृत् ॥
3.5.90 · p. 88
अनुष्टुप्
अथ पक्षिविशेषास्तु हारितो हरितालके ।मद्गुः पानीयकाके स्यात् करण्डवश्च कामिके ॥
3.5.92 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ड (wrong syllable)
प्लवः स्यादुण्डरीलाख्ये तित्तिरिस्तित्तिरौ मतः ।कोयष्टिकस्तु कोयष्टिर्यष्टिको जलकुक्कुभे ॥
3.5.93 · p. 88
अनुष्टुप्
कुक्कुभं स्यात् कुक्कुभको लावो लावक इत्यपि ।टिट्टिभं स्यात् टिट्टिभको द्वयं टीटीसमाह्वये ॥
3.5.94 · p. 88
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable); pāda 3, syllable 5 टि (wrong syllable)
जीवञ्जीवो जीवजीवो विषमृत्युर्जिवाजवः ।जीया इति समाख्याते मनुष्याकारपक्षिणि ॥
3.5.95 · p. 89
अनुष्टुप्
चकोरकश्चकोरः स्यादित्याद्या लोकशास्त्रतः ।पक्षपत्रपतत्राणि पक्षो वाज-गरुच्छदाः ॥
3.5.96 · p. 89
अनुष्टुप्
तथा तनूरुहञ्चैव पक्षिपक्षे निगद्यते ।स्त्री पक्षतिः पक्षती स्यात् पक्षमूले तु पक्षिणाम् ॥
3.5.97 · p. 89
अनुष्टुप्
स्त्रियश्चञ्चुश्च चञ्चूश्च त्रोटिस्त्रोटी च चञ्चुका ।प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः ॥
3.5.98 · p. 89
अनुष्टुप्
प्रथमोद्गमनं वीनां प्रडीनमिति कीर्तितम् ।वियन् कमणमेवैषामुड्डीनमिति शब्दितम् ॥
3.5.99 · p. 89
अनुष्टुप्
वृक्षादौ पतनश्चैव संडीनं परिकीर्तितम् ।कोषः कोशश्च पेषी च पेषीकोषश्च कोषकम् ॥
3.5.100 · p. 89
अनुष्टुप्
पेषीकोषं पेषिकोशः पेषिकोषोऽण्डमस्त्रियाम् ।अस्त्री नीडं कुलायश्च पक्षिवासे भवेद्द्वयम् ॥
3.5.101 · p. 89
अनुष्टुप्
शावशावकपोतार्भडिभ्भाश्च पृथुकार्भकौ ।शिशुः पाकश्च शिशुकः पोतको डिभ्भकोऽपि च ॥
3.5.102 · p. 89
अनुष्टुप्
स्त्रीपुंसौ मिथुनं द्वन्द्वं द्वन्दमित्यपि कुत्रचित् ।द्वन्द्वञ्च यमलं युग्मं स्याद्युगं युगलञ्च युक् ॥
3.5.103 · p. 89
अनुष्टुप्
समूहे निवह-स्तोम-संघात-मण्डलव्रजाः ।सन्दोहविसर-व्रात-व्यूह-विस्तर-सञ्चयाः ॥
3.5.104 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
क्लीबे तु वृन्द-पटल-मण्डलानि कदम्बकम् ।गणः समुदयो जालं जातञ्च निकुरम्बकम् ।समवायः संहतिः स्त्री विज्ञेयाः पञ्चविंशति ॥
3.5.106 · p. 89
अनुष्टुप्metre not read in every line
वर्गः समानार्थगणैर्घटासार्थो तु जन्तुभिः ।कुलं सजातीयगणैः यूथं तिर्यग्गणैरपि ॥
3.5.107 · p. 89
अनुष्टुप्
समजः पशुवृन्दे स्यात् समाजोऽन्यसधर्मभिः ।उत्करः पुञ्जराशी तु कूटोऽस्त्री पुञ्जकेष्वपि ॥
3.5.108 · p. 89
अनुष्टुप्
एकादशैते विज्ञेया बृन्दभेदा हि लोकतः ।शौकतैत्तिर-मायूर-कापोतादीन्यनुक्रमात् ॥
3.5.109 · p. 90
अनुष्टुप्
शुकादीनां गुणेष्वेवमूहनीयं प्रयोगतः ।च्छेका गृह्या गृह्यकास्तु गृहपक्षिमृगेष्वपि ॥
3.5.110 · p. 90
अनुष्टुप्
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां सिंहादिवर्गप्रकाशः ॥
मनुष्यो मानवो मर्त्यो नरो ना मानुषः पुमान् ।मनुर्मन्तुः पञ्चजनः पूरुषः पुरुषोऽपि च ॥
3.5.111 · p. 91
अनुष्टुप्
स्यात् पुमान् पुरुषो ना च पूरुषः पुंसि कीर्तितः ।मानुषी मनुषी नारी मानवी मानुषस्त्रियाम् ॥
3.5.112 · p. 91
अनुष्टुप्
जनो जनपदो जानपदश्चैते समार्थकाः ।स्त्री वधूरवला नारी प्रिया रामा जनिर्जनी ॥
3.5.113 · p. 91
अनुष्टुप्
योषा योषिद्योषिता च जोषिज्जोषा च जोषिता ।वनिता महिला वामा धनिका च स (म)हेलिका ॥
3.5.114 · p. 91
अनुष्टुप्
सीमन्तिनी महेला च प्रतीपदर्शिनीत्यपि ।नारीविशेषो भीरूः स्यादङ्गना वामलोचना ॥
3.5.115 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
ललना कामिनी कान्ता सुन्दरी च नितम्बिनी ।प्रमदा रमणी रामा भाविनी भीरुरित्यपि ॥
3.5.116 · p. 91
अनुष्टुप्
कोपना सैव भामा स्यात्तथा चण्डी च भामिनी ।वरारोहा वरवर्णिनी उत्तमा मत्तकाशिनी ॥
3.5.117 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कृताभिषेका राजस्त्री महिष्यन्या च भोगिनी ।पत्नी सधर्मिणी भार्या द्वितीया सहधर्मिणी ।जाया पाणिगृहीती च धर्मचारिण्यपि क्वचित् ॥
3.5.118 · p. 91
अनुष्टुप्